पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तं युनक्ति । मित्रावरुणयोर्देवयोः त्वा त्वां प्रशास्त्रोः । प्रशिषा प्रशासनेन युनज्मि तमातिष्ठति । अव्यथायै । 'व्यथ भयचलनयोः' । अभयाय अचलनाय वा त्वामधितिष्ठामि । स्वधायै अन्नरसाय च त्वामधितिष्ठामीति शेषः। अरिष्टः अनुपहिंसितः । अर्जुनः अर्जुनशीलः । 'अर्जुनो ह वै नामेन्द्रः' इति श्रुतिः। 'दक्षिणधुर्यं प्राजति'। मरुतां प्रसवेन जय मरुतां संबन्धिन्यामभ्यनुज्ञायां वर्तमानः सन् शत्रून् जय । मध्ये गवामुद्यच्छति । अपाम मनसा व्याप्तवन्तो मनसा वयम् । तदुपरि क्रान्तभर्गः धनुरार्त्न्या गामुपस्पृशति । समिन्द्रियेण संगताः स्म वयमिन्द्रियेण वीर्येण ॥ २१ ॥
म० वाजपेयवद्रथमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिरिति' (का० १५। ६ । १५)। वाजपेये इव रथवाहणाद्रथमिन्द्रस्य वज्रोऽसीति मन्त्रेण भूमाववतार्य मित्रावरुणयोरिति मन्त्रेण चतुर्भिरश्वैर्वाजपेयवदेव युनक्ति । प्रत्यश्वं मन्त्रः इन्द्रस्य वज्रोऽसीत्येव मन्त्रो न वाजपेयसंबन्धी सर्वः । तावन्मात्रस्यैवात्र पाठात् । पूर्ववदिति धूर्गृहीतं दक्षिणश्रोणिदेशे वेद्यामानीय युनक्ति पूर्वं दक्षिणं तत उत्तरं ततो दक्षिणाप्रष्टिं ततः सव्याप्रष्टिम् । अनिर्देशात्त्रयाणां योजने प्राप्ते चतुर्भिरित्युक्तमिति सूत्रार्थः । रथदेवत्यम् । हे रथ, त्वमिन्द्रस्य वज्रोऽसि । युनक्ति । रथदेवत्यम् । प्रशास्त्रोः मित्रावरुणयोः देवयोः प्रशिषा प्रशासनेन हे रथ, त्वां युनज्मि योजयामि । 'अव्यथायै त्वेति सुन्वन्नारोहतीति' (का० १५ । ६।१७) यजमानश्चात्वालदेशस्थः रथमारोहति । रथदेवत्यम् । अरिष्टोऽनुपहिंसितः अर्जुनोऽर्जुनतुल्य इन्द्र इत्यर्थः । 'अर्जुनो ह वै नामेन्द्रः' (५ । ४ । ३ । ७) इति श्रुतेः । एवंभूतोऽहं हे रथ, त्वा त्वामव्यथायै । 'व्यथ भयचलनयोः' । अभयाय अचलनाय वा । स्वधायै अन्नरसाय च त्वामधितिष्ठामि । 'मरुतामिति दक्षिणधुर्यं प्राजतीति' (का० १५।६।१८)। यजमानेन सहारूढो यन्ता दक्षिणाश्वं कशया प्रेरयेत् । धुर्यदेवत्यम् । हे धुर्य, मरुतां देवानां प्रसवेनाज्ञया त्वं जय शत्रूनिति शेषः । ‘गवां मध्ये स्थापयत्यपामेति' (का० १५ । ६ । १९)। पूर्वमेवाहवनीयोत्तरतः स्थापितानां गवां मध्ये तं रथं स्थापयेत् । यजमानदेवत्यम् । वयं मनसा सह अपाम प्राप्तवन्तो यदुपक्रान्तं तत्कर्म 'धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रियेणेति' (का० १५ । ६ । २०) । धनुःकोट्या गां स्पृशेत् । यजमानदेवत्यम् । वयमिन्द्रियेण वीर्येण सङ्गताः स्मः ॥२१॥

द्वाविंशी। .
मा त॑ इन्द्र ते व॒यं तु॑राषा॒डयु॑क्तासो अब्र॒ह्मता॒ विद॑साम ।
तिष्ठा॒ रथ॒मधि॒ यं व॑ज्रह॒स्ता र॒श्मीन् दे॑व यमसे॒ स्वश्वा॑न् ।। २२ ।।
उ० अग्रेण शालामुद्यच्छति । मा त इन्द्र ऐन्द्री त्रिष्टुप् । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । तिष्ठा रथमधि यं वज्रहस्त । लडर्थे लोट् । यं रथमधितिष्ठसि हे वज्रहस्त, यस्मिंश्चावस्थितः आरश्मीन्देव यमसे आयमसे | आयच्छसि रश्मीन्प्रग्रहान् हे देव, स्वश्वान शोभनाश्वान् । | इदानीं प्रथमोऽर्धर्चो व्याख्यायते । व्यवहितपदसंबन्धः । प्रायः तस्मिन्रथे ते तव स्वभूते वयम् अयुक्तासः अयुक्ता एव अयुक्तासः । 'आज्जसे:-' इत्यसुक् । मा विदसाम । 'दसु उपक्षये' कर्मणि लकारः । मा विदस्येमहि मा उपक्षीयेमहि । हे इन्द्र, तुराषाट् तूर्णं सहत इति तुराषाट् तस्य संबोधनं हे तुराषाट् त इति द्वे पदे अत्रानुदात्ते तयोरेकोऽनर्थकः । माविदस्येमहीत्युक्तम् तदुपमया दर्शयितुमाह । अब्रह्मता । लुप्तोपममेतत् । अब्रह्म ते तव । ब्रह्मविज्ञानानन्दस्वभावमविनश्वरं तस्य भावो ब्रह्मता न ब्रह्मता अब्रह्मता । यथा ब्रह्मभावादन्यद्विदस्येत् एवं मा विदस्येमहीत्युपमार्थः ॥ २२॥
म० 'तावद्भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति' (का० १५ । ६ । २२) । | स्थापितगवां पतये स्वभ्रात्रे तावत् शतमधिकं वान्यद्दत्त्वा यूपात् पूर्वदिशि परीत्यान्तःपात्यदेशे रथं स्थापयेत् । इन्द्रदेवत्या त्रिष्टुप् संवरणदृष्टा । हे वज्रहस्त, वज्रं हस्ते यस्य तत्संबुद्धिः हे देव दीप्यमान, त्वं यं रथमधितिष्ठ लडर्थे लोट् । अधितिष्ठसि । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । यस्य च रश्मीन्प्रग्रहानायमसे आयच्छसि । किंभूतान् रश्मीन् । स्वश्वान् शोभना अश्वा येषु तान् । हे तुराषाट् , तूर्णं सहते शत्रूनभिभवतीति तुराषाट् हे इन्द्र ऐश्वर्ययुक्त, ते त्वदीया वयं ते तव तस्मिन् रथे आयुक्ताः तस्माद्भिन्नाः सन्तो मा विदसाम 'दसु उपक्षये विविधमुपक्षीणा मा भवाम । तत्र दृष्टान्तः । अब्रह्मतां लुप्तोपमानम् । अब्रह्मतेव ब्रह्म विज्ञानानन्दस्वभावमनश्वरम् तस्य भावो ब्रह्मता न ब्रह्मता अब्रह्मता यथा ब्रह्मभावादन्यद्वस्तु विदस्येदेवं वयं मा विदस्येमहीत्यर्थः ॥ २२॥

त्रयोविंशी।
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा॑
म॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑ । पृथि॑वि मात॒र्मा मा॑ हिᳪसी॒र्मो अ॒हं त्वाम् ।। २३ ।।
उ० चत्वारि रथविमोचनीयानि जुहोति । अग्नये गृहपतये स्वाहा । सोमाय वनस्पतिरूपाय । मरुतां संबन्धिने ओजसे । इन्द्रस्य संबन्धिने इन्द्रियाय वीर्याय । भूमिमवेक्षते । पृथिविमातः, मा हिंसीर्माम् । मो अहं त्वाम् । मो च त्वाम् अहं मा हिंसिषम् ॥ २३ ॥
म० 'अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि