पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमी।
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्र॑घ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒ऽयं वृ॒त्रं ब॑धेत् । दृ॒बाऽसि॑ रु॒जाऽसि॑ क्षु॒माऽसि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ।। ८ ।।
उ० तार्प्यं परिधापयति । क्षत्रस्योल्बमसि । उल्बं गर्भाधारमुदकम् । पाण्ड्वं परिधापयति । क्षत्रस्य जराय्वसि । जरायुर्गर्भवेष्टनम् । अधिवासं प्रतिमुञ्चति । क्षत्रस्य योनिरसि । गर्भसंभवस्थानं योनिः । उष्णीषं संहृत्य पुरस्तादवगूहति । क्षत्रस्य नाभिरसि । नाभ्या सन्नद्धा गर्भा जायन्त इत्याशयः। अथ धनुरधितनोति । इन्द्रस्य वार्त्रघ्नमसि । इन्द्रस्य संबन्धि यद्वार्त्रघ्नम् , वृत्रो येन हत इति वार्त्रघ्नं धनुरासीत्तत्त्वमसीति शेषः । बाहू विमार्ष्टि । मित्रस्य त्वमसि मित्रस्य संबन्धी त्वमसीति दक्षिणम् । वरुणस्यासि वरुणस्य संबन्धि त्वमसीति सव्यम् । धनुः प्रयच्छति । त्वयायं वृत्रं वधेत् धनुषा अयं यजमानो वृत्रं शत्रुं वधेत् हन्यात् । तिस्र इषूरादत्ते । दृवासि 'दॄ विदारणे' दृणातीति दृवा । रुजासि 'रुजो भङ्गे' अस्य रुजा । क्षुमासि । 'क्ष्मायी विधूनने' अस्य क्षुमा । यजमानाय प्रयच्छति । पातैनं प्राञ्चम् । पात पालयत एनं यजमानं प्रागञ्चनं प्रत्यगञ्चनं तिर्यगञ्चनम् । दिग्भ्यः पातं अन्याभ्योऽपि दिग्भ्यः पालयत ॥ ८॥
म० तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम्' (का० १५ । ५। ५) 'तार्प्यं परिधापयतीति' (१५ । ५। ७)। तार्प्यपाण्ड्वाधीवासोष्णीषाणि क्रमेण चतुर्भिर्यजुर्भिः परिधत्ते । तार्प्यं क्षौमं वल्कलं घृताक्तवस्त्रं वा तार्प्यदैवतम् । हे तार्प्य, त्वं क्षत्रस्य यजमानस्य उल्बं गर्भाधारभूतमुदकमसि । यजमानो गर्भस्थानीयः । 'पाण्ड्वं निवस्त इति' (का० १५ । ५। १२)। रक्तकम्बलं परिधत्ते । पाण्ड्वदैवतम् । क्षत्रस्य गर्भस्थानीयस्य यजमानस्य जरायु गर्भवेष्टनचर्म हे पाण्ड्व, त्वमसि । 'अधीवासं प्रतिमुच्येति' (का० १५ । ५। १३) कञ्चुकं गले बध्नाति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य योनिरसि गर्भसंभवस्थानं योनिः । 'उष्णीषᳪ संवेष्ट्य निवीतेऽवगूहते नाभिदेशे परिहरते वेति' (का० १५ । ५। १३) शिरोवेष्टनं शिरसि संवेष्ट्य तत्प्रान्तौ परिहितवासोनीव्यां गोपयति नाभिदेशे वेष्टयति वा । उष्णीषदैवतम् । हे उष्णीष, त्वं क्षत्रस्य नाभिर्गर्भबन्धनस्थानमसि नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुः । 'इन्द्रस्य वार्त्रघ्नमिति धनुरातनोतीति' (का० १५। ५ । १७)। अध्वर्युर्धनुरधिज्यं करोति । धनुर्दैवतम् । हे धनुः, त्वमिन्द्रस्य संबन्धि वार्र््घ्नं वृत्रोऽनेन हन्यत इति वार्त्रघ्नं वृत्रनाशकं धनुरसि । तदातनोमीति शेषः । 'मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टीति' (का० १५ । ५। १८) । मित्रस्य वरुणस्येति मन्त्राभ्यामस्य धनुषो बाहू प्रान्तौ करेण प्रत्येकं विमार्ष्टि । बाहुदैवते यजुषी । हे दक्षिणकोटे, त्वं मित्रसंबन्धी भवसि । हे वामबाहो, त्वं वरुणसंबन्धी भवसि । 'धनुः प्रयच्छति त्वयायमिति' (का० १५ । ५। १९) । यजमानाय धनुर्ददाति । धनुर्दैवतम् । हे धनुः, अयं यजमानस्त्वया धनुषा कृत्वा वृत्रं शत्रुं वधेत् हन्यात् । 'दृवासीति प्रतिमन्त्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रमिति' (का० १५ । ५। २०)। दृवासीत्यादिमन्त्रत्रयेण बाणत्रयमादाय पातैनमित्यादिमन्त्रत्रयेण प्रत्येकं यजमानाय ददाति । षड्यजूंषि इषुदेवत्यानि। हे इषो, त्वं दृवासि 'दॄ विदारणे' दृणाति शत्रून्विदारयतीति दृवा। हे इषो, त्वं रुजासि 'रुजो भङ्गे' रुजति शत्रून्भनक्ति रुजा। हे इषो, त्वं क्षुमासि 'क्ष्मायी विधूनने' क्ष्मायति शत्रून् कम्पयतीति क्षुमा । यजमानाय ददाति । हे इषवः, प्राञ्चं प्रागञ्चनं पूर्वदिश्यवस्थितमेनं यजमानं यूयं पात पालयत । प्रत्यञ्चं प्रत्यगञ्चनं पश्चिमदिश्यवस्थितमेनं यजमानं पात । तिर्यञ्चं तिर्यगञ्चनमितस्ततोऽवस्थितमेनं यजमानं पात । दिग्भ्योऽन्याभ्योऽपि दिग्भ्यः सकाशादेनं पात रक्षत ॥ ८ ॥

नवमी।
आ॒विर्म॑या॒ आवि॑त्तो अ॒ग्निर्गृ॒हप॑तिरावि॑त्त॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑त्तौ मि॒त्रावरु॑णौ धृ॒तव्र॑ता॒वावि॑त्तः पू॒षा वि॒श्ववे॑दा॒ आवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भुवा॒वावि॒त्तादि॑तिरु॒रुश॑र्मा ।। ९ ।।
उ० अथैनमाविदो वाचयति । आविर्मर्याः । आवेदयन्ति ज्ञापयन्ति यजमानमेताभिर्मन्त्रव्याहृतिभिरेताभ्यो देवताभ्य इत्याविद आविर्मर्याः । मर्या इति मनुष्यनाम । हे मर्याः, आविः प्रकाशः प्रकटोऽयं यजमानो युष्मत्समक्षं कथ्यते । कथिते च श्रुतिः प्रयोजनं वदति । 'सोऽस्मै सवमनुमन्यते' इत्याविर्मर्या इत्याद्येकवचनादिभिः। सवो जन्म । उत्पत्तिरिति यावत् । आवित्तो अग्निर्गृहपतिः । श्रुत्युक्तैर्विभक्तिव्यत्ययैर्व्याख्यायन्ते । आविदितो ज्ञापितोऽग्नये गृहपतये यजमानः । आवित्त इन्द्रः आवेदित इन्द्राय वृद्धश्रवाः वृद्धं श्रवो धनं यस्य स वृद्धश्रवाः । आवित्तौ मित्रावरुणौ । आविदितौ मित्रावरुणाभ्यां धृतव्रताभ्यां । व्रतमिति कर्मनाम । धारितकर्मभ्याम् । आवित्तः पूषा आवेदितः पूष्णे । विश्ववेदसे सर्वज्ञाय सर्वधनाय वा । आवित्ते द्यावापृथिवी । आविदितो द्यावापृथिवीभ्यां विश्वशंभुभ्याम् सर्वं सुखेन संभावयित्रीभ्याम् । आवित्तादितिः आविदितोऽदितये । उरुशर्मणे उरु पृथु महत् शर्म शरणं यस्याः सा तथोक्ता । सर्वा एवाविदः श्रुत्या लक्षणया व्याख्याताः । तद्यथा 'आविर्मर्या इत्यनिरुक्तं प्रजापतिर्वा अनि