पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किमुत चतुर्दश्यन्तेऽभिषुतानां त्वदर्थमेव सर्वासु तिथिषु सोमोऽभिषूयत इत्यभिप्रायः । छन्दोगानां सवने प्रतिपद्विद्यते इति प्रतिपद्ग्रहणम् । उपयाम एष ते इति व्याख्याते ॥ ३८ ॥

एकोनचत्वारिंशी।
म॒हाँ२ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्द्र॒य्ग्वावृधे वी॒र्या॒यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। ३९ ।।
उ० माहेन्द्रं गृह्णाति । महाᳪ इन्द्रः । त्रिष्टुम्माहेन्द्री महान्प्रभावत इन्द्रस्तथापि नृवत् मनुष्यवदाहूयमानं आगच्छति। आचर्षणिप्राः। चर्षणयो मनुष्याः। 'प्रा पूरणे'।आगत्य च चर्षणीनां मनुष्याणां पूरयिता कामैः । किंच उत द्विबर्हाः। अपि द्वयोः स्थानयोः परिवृढः मध्यमे च स्थाने उत्तमे च परिवृढः प्रभुः । अमिनः सहोभिः । अमिनोऽमितमात्रः सहोभिर्बलैः अप्राक्तोलितबलः । यद्वा । अनुपहिंसितः शत्रुबलैः अस्मद्य्र्सग्वावृधे वीर्याय । अस्मद्दर्शनोत्सुकः सन् वर्धते वीर्याय वीरकर्मणे य इन्द्रः सोऽस्मदीयैः कर्तृभिः स्तूयमानः उरुः प्रमाणतः पृथुश्च विस्तारेण । सुकृतः शोभनकृत्यभिप्रायः भूत् भूयात् । उपयाम इत्यादि व्याख्यातम् ॥३९॥
म० 'माहेन्द्रं गृह्णाति वैश्वदेववन्महाᳪ इन्द्र इति' (का० १०।३ । १०)। यथा वैश्वदेवग्रहः शुक्रपात्रेण गृहीतस्तथा माहेन्द्रं ग्रहं तेनैव गृह्णीयात् । माहेन्द्री त्रिष्टुप् भरद्वाजदृष्टा । तृतीयपादो नवाक्षरः । इन्द्रो वीर्याय वीरकर्मणे वावृधे ववृधे वर्धते । 'छन्दसि लुङलङ्लिटः' (पा० ३।४। ६) इति वर्तमाने लिट् संहितायामभ्यासदीर्घः । किंभूत इन्द्रः । महान्महाप्रभवः तथापि नृवन्मनुष्यवत् आहूयमान आगच्छति । यद्वा नृवन्मनुष्यवत् आचर्षणिप्राः आ समन्ताच्चर्षणीन्मनुष्यान् प्राति अभीष्टकामैः पूरयतीत्याचर्षणिप्राः । 'प्रा पूरणे' क्विप् । यथा राजा अमात्यादिर्मनुष्यः सेवकानभीष्टकामैः पूरयति तद्वत् । उतापिच द्विबर्हाः ‘बृहि वृद्धौ' बर्हणं बर्हः वृद्धिः असुन्प्रत्ययः । द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो यस्य स द्विबर्हाः । यद्वा द्वयोः स्थानयोर्बर्हाः वृद्धः परिवृद्धः प्रभुः मध्यमे स्थाने उत्तमे च । तथा सहोभिः बलैः अमिनः अमितः उपमारहितः । अतोलितबल इत्यर्थः । 'अमिनोऽमितमात्रो महान्भवत्यभ्यमितो वा' ( नि० ६ । १६) इति यास्कोक्तेः । यद्वा सहोभिः शतबलैरभितः अप्रक्षिप्तः । अनुपहिंसित इत्यर्थः । 'डुमिञ् प्रक्षेपे' । 'मीञ् हिंसायाम्' इत्यस्य वा प्रयोगः । पूर्वपक्षे माने सर्वत्र निष्ठानत्वमार्षम् । तथा अस्मद्र्यक् अस्मान् प्रत्यञ्चतीत्यस्मद्द्र्यक् अस्मदभिमुखः । अस्मच्छब्दे उपपदेऽञ्चतेः क्विप् विष्वग्देवयोश्च' (पा० ६।३।९२) इत्यादिना क्विबन्तेऽञ्चतौ परेऽस्मच्छब्दस्य टेरद्र्यादेशः 'उगिदचाम्-' (पा० ७ । १। ७० ) इति प्राप्तस्य नुमोऽभावश्छान्दसः । स वर्धमान इन्द्र ईदृशो भूत् भवतु । लोडर्थे लुङ् । अडभावश्छान्दसः । कीदृशः । उरुः यशसा विपुलः पृथुः बलेन विस्तृतः कर्तृभिर्यजमानैः सुकृतः साधुकृतः सत्कृतः पूजित इत्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि महेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः महेन्द्राय त्वा सादयामि ॥ ३९ ॥

चत्वारिंशी।
म॒हाँ२ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। ४० ।।
उ०. द्वितीयो मन्त्रविकल्पः । महाᳪइन्द्रः । गायत्री माहेन्द्री। महानिन्द्रो यः प्रभावतः स ओजसा बलेन पर्जन्यो वृष्टिमानिव यथा हि वृष्टिमान्पर्जन्यो धाराभिरसंख्याभिरपरिच्छिन्नसंख्यः एवमोजसा असंख्यातमहाभाग्येन । स्तोमैः स्तूयमानो वत्सस्य वसनशीलस्य यजमानस्य वावृधे वर्धते । | उपयाम इत्यादि समानम् ॥ ४०॥
म० माहेन्द्री गायत्री वत्सदृष्टा । माहेन्द्रग्रहण एव विकल्पेन विनियुक्ता । य इन्द्रः वत्सस्य वसनशीलस्य वत्सस्थानीयस्य वा यजमानस्य स्तोमैः स्तोत्रैर्वावृधे ववृधे वर्धते । कीदृश | इन्द्रः । ओजसा तेजसा महान् । क इव वृष्टिमान्वृष्टियुक्तः | पर्जन्य इव । यथा वर्षन्मेघो धाराबलेन महान्वर्धते । उपयाम एष ते इति व्याख्याते ॥ ४० ॥

एकचत्वारिंशी। |
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॒ᳪ स्वाहा॑ ।। ४१ ।।
उ०. दाक्षिणानि जुहोति । उदु त्यम् । सौरी गायत्री। | उत् इत्ययमुपसर्गो वहन्तीत्यनेन संबध्यते । उद्वहन्ति । | कम् । त्यं तं सूर्यम् । जातवेदसम् जातप्रज्ञानम् । देवं दातारं द्युस्थानं वा । केतवो रश्मयः । किमर्थमुद्वहन्ति । दृशे दर्शनाय । विश्वाय षष्ठ्यर्थे चतुर्थी। विश्वस्य जगतः॥४॥
म० 'शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धᳪ हिरण्यᳪ हवन्यामवधाय चतुर्ग्रहीतमुदुत्यमिति' (का० १० । २ । ४ । ५)। वस्त्रबद्धं स्वर्णं जुह्वां निधाय शालाद्वार्येऽग्नौ चतुर्ग्रहीताज्येन दक्षिणसंज्ञो होमः कार्यः । सौरी गायत्री प्रस्कण्वदृष्टा । तृतीयः पादः सप्तार्णः । उ निपातः पादपूरणः । त्यमिति त्यच्छब्दश्छान्दसः तच्छब्दार्थे । केतवो रश्मयः त्यं तं प्रसिद्धं सूर्य देवमुद्वहन्ति । 'देवो दानाद्द्योतनाद्वा' (नि. ७ ॥ २० ) इति यास्कः । किंभूतं सूर्यम् । जातवेदसं जातं वेदो ज्ञानं धनं वा यस्मात्तम् । किमर्थमुद्वहन्ति । विश्वाय दृशे षष्ठ्यर्थे चतुर्थी । विश्वस्य दर्शनाय जगद्द्रष्टुमित्यर्थः। 'दृशे विख्ये च'