पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दुष्टानाम् । यद्वा शासनं शासस्तद्वन्तम् । अर्शआदित्वादच् । प्रशासनवन्तम् । विश्वासाहं विश्वं पालयितुं सहते स विश्वासाट् तम् । अनलसमित्यर्थः । 'भजसहवहाम्' इति विण् । यद्वा सहतिरभिभवार्थः । स्वधर्मच्युतस्य विश्वस्य सर्वस्याभिभवितारम् । नूतनाय अवसे नवीनाय पालनाय इदानींतनयजमानरक्षणाय उग्रमुद्गूर्णवज्रम् । सहोदां सहो बलं ददाति सहोदास्तं क्विप् बलप्रदम् । उपयाम एष ते एतद्यजुर्द्वयं व्याख्यातम् । तृतीयं मरुत्वतीयमाह । 'ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति' (का० १० । ३ । ३)। मरुत्वतीयोऽयम् । मरुत्वद्देवत्वं यजुः । हे मरुत्वतीय ग्रह, मरुतां देवानामोजसे बलाय त्वा त्वां गृह्णामीति शेषः । ओज इति बलनाम । स त्वमुपयामेन गृहीतोऽसि स्वबलं निधायेन्द्रं प्रत्यागता मरुतोऽनेन ग्रहेण गृहीतेन सबला जाता इति भावः ॥ ३६॥

सप्तत्रिंशी।
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रू॒ᳪ२।।रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३७ ।।
उ० द्वितीयो मन्त्रविकल्पः । सजोषा इन्द्र । हे इन्द्र, यः त्वं सजोषाः समानजोषणः समानपात्रभोजनः तं त्वां ब्रवीमि । समानगणो मरुद्भिः सोमं पिब । समानगणो मरुद्भिः भूत्वा सोमं पिब । वृत्रहा वृत्रस्य हन्ता भविष्यामीति शेषः । हे शूर विक्रान्त, विद्वान् एतमर्थं संजानानः । ततः पीत्वा सोमं मरुद्भिः सह । जहि शत्रून् वृत्रप्रमुखान् । अप मृधो नुदस्व । अपनुदस्व मृधः । 'नुद प्रेरणे' मृधः संग्रामात् । हत्वा शत्रून् ये हतावशिष्टाः शत्रवः तान् संग्रामात् प्रेरयस्व । अथाभयं कृणुहि विश्वतो नः । अथानन्तरमभयं कुरु सर्वतोऽस्माकम् । उपयाम इत्यादि व्याख्यातम् ॥ ३७॥
म० सजोषा इन्द्रेति (३७) मरुत्वां इन्द्रेति (३८) ऋग्द्वयस्य सोपयामस्य मरुत्वतीयग्रहणे एव विनियोगः वाचस्तोमे 'वाचस्तोमाश्चत्वारः' (२२ । ६ । २४) इति कात्यायनोक्तेः मरुत्वां इन्द्रेति मरुत्वतीयमित्याश्वलायनोक्तेश्च । हे इन्द्र, हे शूर वीर, त्वं सोमं पिब । किंभूतस्त्वम् । सजोषाः 'जुषी प्रीतिसेवनयोः' जोषणं जोषः प्रीतिः असुन्प्रत्ययः । तेन सह वर्तमानः संतुष्टः मरुद्भिः कृत्वा सगणः सपरिवारः। मरुद्गणसहित इत्यर्थः । वृत्रहा वृत्रं दैत्यं हन्तीति । अनेन सोमपानेन वृत्रं हनिष्यसीत्यर्थः । विद्वानेतमर्थं जानानः ततः सोमं पीत्वा शत्रून् वृत्रादीन् जहि मारय । किंच मृधः सङ्ग्रामान् अपनुदस्व । 'नुद प्रेरणे' । युद्धं निवर्तयेत्यर्थः । 'दीर्घादटि समानपदे' (पा० ८ । ३ । ९) इति शत्रूनिति नस्य रुत्वं पूर्वस्य सानुनासिकत्वम् । यद्वा मृधः इति पञ्चम्येकवचनं । मृधः सङ्ग्रामात् अपनुदस्व शत्रूनित्यस्यानुषङ्गः । ये हतावशिष्टाः शत्रवस्तान् सङ्ग्रामात् पलायनार्थं प्रेरयस्व । प्राणदानं कुर्वित्यर्थः । एवं रिपुनाशं कृत्वाथानन्तरं नोऽस्माकं विश्वतः सर्वतः अभयं कृणुहि कुरु 'कृञ् करणे' स्वादिः । उपयामेति व्याख्यातं शत्रूनपेत्यत्र 'दीर्घादटि समानपदे' (पा० ८ । ३ । ९) इति नस्य रुत्वम् 'अत्रानुनासिकः पूर्वस्य तु वा' (पा० ८ । ३ । २) तत्पूर्वस्य ऊकारस्यानुनासिकत्वम् ॥ ३७॥

अष्टत्रिंशी।
म॒रुत्वाँ॑२ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वᳪ राजा॑ऽसि॒ प्रति॑पत्सु॒ताना॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३८ ।।
उ० मरुत्वां इन्द्र हे इन्द्र, यस्त्वं मरुत्वान् मरुद्गणयुक्तश्च वृषभश्च वर्षिता अपामन्तरिक्षेऽवस्थितः तं त्वां ब्रवीमि रणाय पिब सोमम् । रणं संग्रामं करिष्यामीति पिब सोमम् । 'अनुष्वधम् अनु पश्चात् स्वधान्नं पुरोडाशधानामन्थदधिपयस्यालक्षणं यस्य स तथोक्तः । मदाय । मदे हि सति योद्धा भवतीन्द्रः । कथं पुनः पिब । आसिञ्चस्व जठरे मध्व ऊर्मिम् । अकृपणमासिञ्चस्व जठरे उदरे । मध्वः मधु सोममित्यौपमिकं माद्यतेः । मधुस्वादस्य सोमस्योर्मिं महासंघातम् । विशिष्टस्य सोमपानस्य मन्त्रदृक् हेतुमाह । हे इन्द्र, त्वं राजासि प्रतिपत्सुतानाम् । यतस्त्वमेव राजा ईश्वरोसि प्रतिपत्प्रमुखास्वपि तिथिषु सुतानामभिषुतानां सोमानाम् । किमुत चतुर्दश्यन्तेऽभिषुतानाम् । त्वदर्थमेव सर्वासु तिथिषु सोमोऽभिषूयत इत्यभिप्रायः । छन्दोगानामपि प्रतिपद्विद्यते तदभिप्रायं चैतत् । उपयाम इत्यादि व्याख्यातम् ॥ ३८ ॥
म० हे इन्द्र, त्वं सोमं पिब 'द्व्यचोऽतस्तिङः' (पा ६ ।३ । १३५) इति संहितायां दीर्घः । किमर्थम् । मदाय तृप्तये रणाय सङ्ग्रामाय च । मदे सतीन्द्रो योद्धा भवति । किंभूतस्त्वम् । मरुत्वान् मरुतोऽस्य सन्तीति मरुद्गणसंयुक्तः । वृषभः वर्षिता जलानाम् । किंभूतं सोमम् । अनुष्वधम् अनु पश्चात् स्वधान्तानि पुरोडाशधानामन्थदधिपयस्यालक्षणानि यस्य सोऽनुष्वधस्तं 'पूर्वपदात्-' (पा० ८ । ३ । १०६) इति पत्वम् । कथं पिबेत्यत्राह । मध्वः मधुनो मधुस्वादोपेतस्य ऊर्मिं कल्लोलं जठरे उदरे आसिञ्चस्व । 'अनित्यमागमशासनम्' इति मध्व इत्यत्र | नुमभावः । सोमपाने हेतुमाह । हे इन्द्र, त्वं प्रतिपत्सुतानां प्रतिपत्प्रभृतिषु तिथिषु अभिषुतानां सोमानां राजासि ईश्वरोऽसि