पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशी।
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मᳪ हव॑म् । एदं ब॒र्हिर्निषी॑दत ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ३४ ।।
उ० द्वितीयो मन्त्रविकल्पः वैश्वदेवीगायत्री । हे विश्वेदेवाः, इह आगच्छत । आगत्य च शृणुत मे मम इमं हवमाह्वानम् । श्रुत्वा चावधार्य च आनिषीदत इदमस्मदीयं बर्हिः । उपयामगृहीतोऽसीत्यादि व्याख्यातम् ॥ ३४ ॥
म० वैश्वदेवी गायत्री गृत्समददृष्टा वैश्वदेवग्रहग्रहण एव विकल्पेनाम्नाता । हे विश्वेदेवासः, यूयमागत अस्मद्यज्ञं प्रत्यागच्छत । आगत्य च मे ममेमं हवमाह्वानं शृणुत । श्रुत्वा इदं मदीयं बर्हिः आनिषीदत बर्हिष उपर्युपविशत । उपयामेति पूर्ववत् ॥ ३४ ॥

पञ्चत्रिंशी।
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३५ ।।
उ० मरुत्वतीयं गृह्णाति । इन्द्र मरुत्वः । मरुद्भिः सहित इन्द्रो देवता । इत उत्तरं च तिसृणामृचां त्रिष्टुभामिन्द्रार्षं प्राङ्माहेन्द्रात् । हे इन्द्र, मरुत्वः 'मतुवसो रु संबुद्धौ छन्दसि' इति रुत्वम् मरुत्वः हे मरुत्वन् । मरुद्भिः सहित, इहास्मदीये यज्ञे पाहि पिब सोमम् । कथं पिबेत्यत आह । यथा शार्याते अपिबः । शार्यातो मानवः तस्यापत्यं शार्यातः। 'शार्यातो ह वा इदं मानवो ग्रामेण चचार' इति श्रुतिः । यथा येन प्रकारेण शार्याते राजनि अपिबः पीतवानसि । सुतस्य अभिषुतस्य सोमस्य स्वमंशम् । किंच । तव प्रणीत्या प्रणयनेन तव च शूरशर्मन् शर्मणि शरणे यज्ञगृहे । आविवासन्ति विवासतिः परिचर्यायाम् । आभिमुख्येनावस्थितास्त्वां परिचरन्ति कवयः क्रान्तदर्शनाः । सुयज्ञाः कल्याणयज्ञाः। उपयामेत्यादि व्याख्यातम् ॥ ३५ ॥
म० एते प्रातःसवनग्रहाः पूर्णाः । अथ माध्यन्दिनसवनग्रहा उच्यन्ते । 'माध्यन्दिने सवने मरुत्वतीया गृह्यन्ते' इति तित्तिरिवचनात् । तेषु त्रयो मरुत्वतीयास्तत्र प्रथममाह । 'मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति' (का० १०।१।१४) ऋतुपात्रेण मरुत्वतीयं ग्रहं गृह्णीयात् । ऐन्द्रमारुतीश्चतस्रस्त्रिष्टुभो विश्वामित्रदृष्टाः । मरुतो देवा विद्यन्ते यस्य स मरुत्वान् तस्य | संबोधनं हे मरुत्वः, 'मतुवसो रु संबुद्धौ छन्दसि' (पा० ८।। ३ । १) इति रुत्वम् । मरुद्भिः सहित हे इन्द्र, इहास्मदीये यज्ञे सोमं पाहि पिब । कथं पातव्यस्तत्राह । यथा शार्याते शर्यातिर्नाम कश्चिद्राजा तस्य संबन्धिनि यज्ञे सुतस्याभिषुतस्य सोमस्यांशमपिबः पीतवानसि तद्वदिह पिब । 'शार्यातो ह वा इदं मानवो ग्रामेण चचार' (४।१।५।२) इति श्रुतिः। किंच ' हे शूर वीर, तव प्रणीती प्रणीत्या प्रणयनेनानुज्ञया सुयज्ञाः कल्याणयज्ञाः कवयः क्रान्तदर्शनास्तव शर्मन्सुखनिमित्ते शर्मणि यज्ञगृहे वा आविवासन्ति वां परिचरन्ति । विवासतिः परिचर्यार्थः । उपयामेन सोम, त्वं गृहीतोऽसि मरुत्वत इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः मरुत्वते इन्द्राय त्वां सादयामि ॥ ३५ ॥

षट्त्रिंशी।
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यᳪशा॒समिन्द्र॑म् ।
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रᳪस॑हो॒दामि॒ह तᳪ हु॑वेम ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑ते ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।
उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से ।। ३६ ।।
उ० द्वितीयं मरुत्वतीयं गृह्णाति । मरुत्वन्तं । मरुद्भिस्तद्वन्तमिन्द्रम् वृषभं वर्षितारम् वावृधानं वर्धमानम् अकवारिं अकुत्सितारिम् । शत्रवोऽपि यस्याऽकुत्सितावृत्रादयः। अथवा अकुत्सितदानं अकुत्सितैश्वर्यम् । दिव्यं द्युलोकजम् । शासं प्रशासनवन्तं शासितारं वा । विश्वासाहम् । सहतिरभिभवार्थः। स्वधर्मच्युतस्य सर्वस्याभिभवितारम् । उग्रम् उद्गूर्णवज्रम् सहोदाम् बलस्य दातारम् यमित्थंभूतमिन्द्रमाहुस्तम् अवसे नूतनाय । अवनाय पालनाय । इह यज्ञगृहे हुवेम आह्वयामः। उपयामगृहीत इत्यादि व्याख्यातम् । तृतीयं मरुत्वतीयं यजुषा ग्रहं गृह्णाति । उपयाम गृहीतोसि मरुतां त्वा ओजसे गृह्णामीति शेषः । ओज इति बलनाम । स्वकीयमोजो निधाय इन्द्रं प्रति मरुत आयातास्ततोऽनेन गृहीतेन सबला आयाताः तदेतद्यजुर्वदति ॥ ३६ ॥
म०. द्वितीयं मरुत्वतीयमाह 'वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति' (का० १० । ३।६)। रिक्तेन पात्रेण सशस्त्रमरुत्वतीयग्रहणम् । इहास्मिन्नस्मदीये यज्ञे तमिन्द्रं वयं हुवेम आह्वयामः । ह्वेञः शपि व्यत्ययेन संप्रसारणम् । किंभूतमिन्द्रम् । : मरुत्वन्तं मरुद्गणोपेतम् । वृषभं जलस्य वर्षितारम् । वावृधानम् । संहितायां दीर्घः । वर्धते कामान्वर्धयति वा ववृधानस्तम् । 'बहुलं छन्दसि' (पा० २ । ४ । ७६) इति वर्धतेः शानचि जुहोत्यादित्वेन श्लु: 'श्लौ' (पा० ६ । १ । १० ) इति द्वित्वम् । | अकवारिं कुत्सिता अरयो यस्य स कवारिः न कवारिरकवारिस्तं यस्य शत्रवोऽप्यकुत्सिता वृत्रादयः । यद्वा अकुत्सितमियर्ति ऐश्वर्यं प्राप्नोतीत्यकवारिस्तम् उत्कृष्टैश्वर्यम् । दिव्यं दिवि भवं द्युलोकस्थम् । शासं शास्तीति शासः पचाद्यच् । शासितारं