पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वा । अध्यस्तं प्रजापतिरूपं द्रोणकलशमाह । कोऽसि कः प्रजापतिः स त्वमसि । कतमोऽसि अतिशयेन प्रजापतिरसि। अनन्यभूतः प्रजापतिना । कस्यासि कस्य प्रजापतेरनन्यभूतोऽसि । कोनामासि प्रजापतिनामासि । किंच यस्य तव नामामन्महि । 'मन ज्ञाने' । विजानीमः। यं च त्वां सोमेनातीतृपामः तर्पितवन्तः सोऽस्मान्विदितनाम्नः कुरु तर्पय च कामैरिति शेषः । जपति । भूर्भुवःस्वरिति व्याख्यातम् २९
म० 'कोऽसीति द्रोणकलशमिति' (का० ९ । ७ । १४)। द्रोणकलशमवेक्षते । प्राजापत्या वर्धमानोष्णिक् । यस्याः प्रथमः पादः षडक्षरो द्वितीयः सप्ताक्षरस्तृतीयोऽष्टार्णश्चतुर्थो नवाक्षरः सा त्रिंशद्वर्णा वर्धमानोष्णिक् । अध्यस्तप्रजापतिं द्रोणकलशमाह हे द्रोणकलश, त्वं कः प्रजापतिरसि । कतमोऽतिशयेन प्रजापतिरसि । तथा कस्य प्रजापतेरसि । को नाम प्रजापतिनामासि । प्रजापतेरनन्यभूतोऽसीत्यर्थः । किंच वयं यस्य ते तव नाम अमन्महि विजानीमः 'मन ज्ञाने'। च पुनर्यं द्रोणकलशरूपं त्वां वयं सोमेन अतीतृपाम तर्पितवन्तः स त्वमस्मान् विदितनाम्नः कुरु तर्पय च कामैरिति शेषः । 'भूर्भुवः स्वरिति जपतीति' (का० ९ । ७।५) हे भूर्भुवःस्वः अग्निवायुसूर्याः, प्रजाभिः अहं सुप्रजाः शोभनप्रजायुक्तः स्यां भवेयम् । वीरैः पुत्रैः सुवीरः स्यां पोषैः धनादिपुष्टिभिः सुपोषः शोभनपोषो भवेयम् ॥ २९ ॥

त्रिंशी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्या॒य त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वोपया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॒य त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वोपया॒मगृ॑हीतोऽस्यᳪहसस्प॒तये॑ त्वा ।। ३०।।
उ० ऋतुग्रहांस्त्रयोदश गृह्णाति त्रयोदशभिर्मन्त्रैः। मन्त्राणां नामान्येव । उपयाम गृहीतोऽसि मधवेत्वा । उपयाम गृहीतोऽसि माधवायत्वा । वासन्तिको श्रुत्युक्तौ व्युत्पत्तय उच्यन्ते । मधुप्रमुखमन्नं वसन्ते उत्पद्यत इति मधुमाधवौ मासौ । शुक्राय शुचये ग्रैष्मौ मासौ । उभावपि शोचतेः शुष्यत्यर्थस्य । नभसे नभस्याय वार्षिकौ मासौ । नह्यत्र सूर्यो भाति मेघप्रचुरत्वात् तस्मान्नभो नभस्यश्च । इषे ऊर्जे शारदौ मासौ । इषमन्नमूर्जं तदुपसेचनं दध्यादि तदिह प्रचुरं भवति इति मतुब्लोपादभेदोपचारात् द्वौ मासावुच्येते। सहसे सहस्याय हैमन्तिको मासौ । राहतेः प्रसहनार्थस्य । अभिभवति ह्यसौ शीतेन । तपसे तपस्याय शैशिरौ मासौ। एतयोर्हि बलिष्ठं तपति सूर्यः । अᳪहसस्पतये त्रयोदशो मासः । अंहः पापं तस्य पतिः । अयं च द्वादशस्वपि पतति ॥ ३० ॥ ।
म० 'ऋतुग्रहैश्चरतो द्रोणकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रमध्वर्योः पूर्वः पूर्वो मन्त्र उत्तर उत्तरः प्रतिप्रस्थातुरिति' (का० ९ । १३ । १-४) । अध्वर्युप्रतिप्रस्थातारावृतुग्रहैर्द्वादशभिरनुतिष्ठतः उपयामेत्यादयो द्वादश - मन्त्राः तत्र षट्सु मन्त्रयुग्मेषु पूर्वः पूर्वो मन्त्रोऽध्वर्योः उत्तर उत्तरः प्रतिप्रस्थातुरिति मन्त्रविवेकः । द्वादश लिङ्गोक्तानि । । हे ऋतुग्रह, त्वमुपयामेन गृहीतोऽसि मधवे मधुनाम्ने चैत्रमासाय त्वां गृह्णामीति शेषः । माधवाय वैशाखाय त्वां गृह्णामि । मधुमाधवौ वासन्तौ मधुप्रमुखमन्नं वसन्ते प्रपद्यते । शुक्राय ज्येष्ठाय त्वां गृह्णामि । शुचये आषाढमासाभिमानिदेवार्थं त्वां गृह्णामि । शुक्रशुची ग्रीष्ममासौ 'शुच शोषणे' इत्यस्य धातोः । नभसे श्रावणमासाय सोम, त्वां गृह्णामि । नभस्याय भाद्रपदमासाभिमानिने त्वां गृह्णामि । नभोनभस्यौ वार्षिकौ मासौ मेघबाहुल्यान्न भात्यत्र सूर्य इति नभा नभस्यश्च इषे आश्विनमासाय त्वां गृह्णामि ऊर्जे कार्तिकमासाय त्वां गृह्णामि । इषमन्नम् ऊर्ज तदुपसेचनं दध्यादि तदत्र प्रचुरं भवति मतुपो लोपादभेदोपचाराद्वा ऊर्क्शब्देन शारदौ मासावुच्येते । सहसे मार्गशीर्षमासाय । सहस्याय पुष्यमासाय । सहःसहस्यौ हैमन्तिकौ मासौ । सहतेः प्रसहनार्थस्य प्रयोगः । प्रसहनमभिभवनम् । यतो हेमन्तः शीतेन नरानभिभवति । तपसे माघमासाय तपस्याय फाल्गुनाय । तपस्तपस्यौ शैशिरौ मासौ । तपति सूर्यो यत्रात्यन्तं स तपास्तपस्यश्च । 'त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यᳪहसस्पतये त्वा' (का० ९। १३ ।१८) इति इच्छन्नध्वर्युस्त्रयोदशमृतुग्रहं गृह्णीयात् ऐच्छिको विकल्पः । हे ग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि तादृशं त्वामंहसः पतयेऽधिकमासाधिष्ठात्रे गृह्णामीति शेषः । अंहः पापं तस्य पतिः । मलमासत्वादयं द्वादशस्वपि पतति यद्वांहतेर्गतिकर्मणोऽसुन्प्रत्ययान्तस्य रूपमंह इति । अंहनमंहो गतिस्तस्य पतिः त्रयोदशो मासः आदित्यगतिवशेन जायते ॥ ३० ॥

एकत्रिंशी।
इन्द्रा॑ग्नी॒ आ ग॑तᳪ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ।। ३१ ।।
उ० ऐन्द्राग्नं ग्रहं गृह्णाति । इन्द्राग्नी आगतम् । गायत्री ऐन्द्राग्नी । हे इन्द्राग्नी, आगतम् आगच्छतम् सुतमभि- षुतं सोमं प्रति । गीर्भिर्नभोवरेण्यम् । गीर्भिस्त्रयीलक्षणाभिर्वाग्भिः । नभोवरेण्यम् । 'नभ आदित्यो भवति नेता भासां ज्योतिषां प्रभवः' । लुप्तोपमं चैतत् । नभ इव आदित्यमिव वरणीयम् । सोममागत्य च अस्य सोमस्य पातं