पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्रप्सः विप्रुड् रसैकदेशः स्कन्दति भूमौ वा अन्यत्र वा पतति । यश्च तव अंशुः स्कन्दति ग्रावच्युतः ग्राव्णश्च्युतः पतितः । अधिषवणयोरुपस्थात् अधिषवणफलकयोः उपस्थाद् उत्सङ्गात् । अध्वर्योर्वा यः स्कन्दति । परि वा यः पवित्रात् । परिस्कन्दति वा यः पवित्रात् । यतः कुतश्चित्स्कन्दतीत्यभिप्रायः । तं ते जुहोमि तं विप्रुषं ते तव संबन्धिनमंशुं वा अग्नौ जुहोमि । मनसा संकलय्य वषट्कृतं स्वाहा । वषट्कारेण स्वाहाकारेण वेत्यर्थः । तृणं चात्वाले प्रास्यति देवानामुत्क्रमणमसि । चात्वालमुच्यते । अतो हि देवाः स्वर्गं लोकमुपोदक्रामन् ॥ २६ ॥
म० 'यस्त इति विप्रुषाᳪ होमं जुह्वतीति' ( का० ९ । । २८) अभिषवे ग्रहणे च पतितानां सोमबिन्दूनां ग्रहणाशक्यत्वात्तत्प्रत्यवायपरिहाराय घृतहोमस्य विप्रुड्ढोम इति संज्ञा तमध्वर्य्वादयो जुह्वति । सौमी त्रिष्टुप् स्वाहेति यजुरन्ता देवश्रवोदृष्टा । हे सोम, ते तव यो द्रप्सः रसैकदेशः स्कन्दति भूमावन्यत्र वा पतति । यश्च ते तवांशुः खण्डः । ग्रावच्युतः ग्राव्णः सकाशात्पतितः। यश्च अधिषवणयोः अधिषवणफलकयोरुपस्थादुत्सङ्गात्स्कन्दति । वाथवा य अंशुरध्वर्योः सकाशात्स्कन्दति । वाथवा यः अंशुः पवित्रात्परिस्कन्दति । यतः कुतश्चित्परिस्कन्दतीति भावः । हे सोम, ते तव तं द्रप्समंशुं च स्वाहाकारेण जुहोमि । किंभूतं तम् । मनसा वषट्कृतं संकल्पितं वषट्कारेण च स्वाहाकारेण च जुहोमीत्यर्थः । 'अन्यतरत्तृणं चात्वाले प्रास्यतीति' (का० ९ । ६ । ३२)। अध्वर्युणा वेदार्थे तृणे गृहीते तयोरेकं चात्वाले क्षिपेत् । चात्वालदैवतम् । हे चात्वाल, त्वं देवानामुत्क्रमणमसि उत्क्रामन्ति गच्छन्ति स्वर्गं यस्मात्तदुत्क्रमणं देवास्त्वत्तः स्वर्गं गच्छन्ति 'अतो हि देवाः स्वर्गमुपोदक्रामन्' (४ । २ । ५ । ५) इति श्रुतेः ॥ २६ ॥

सप्तविंशी।
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व॒ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व॒ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।। २७ ।।
उ० ग्रहान्दर्शयत्यवकाशान्वाचयन् यज्ञस्यैते प्राणा यजमानस्य वानूचानस्य उपांशुं प्राणरूपेण दर्शयति । प्राणाय मे चर्चादाः । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदास्तं त्वां ब्रवीमि । प्राणाय मे मदीयाय वर्चसे पवस्व प्रवर्तयस्व । अनेन तुल्यव्याख्याना अवकाशमन्त्राः । उपांशुसवनम् । व्यानाय मे । अन्तर्यामम् । उदानाय मे । ऐन्द्रवायवम् । वाचे मे । मैत्रावरुणम् । क्रतूदक्षाभ्यां मे । कामः क्रतुरुच्यते । तस्य समृद्धिर्दक्षः आश्विनम् । श्रोत्राय मे । शुक्रामन्थिनौ युगपत् । चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् । शुक्रामन्थिविषयं द्विवचनम् ॥ २७ ॥
म० 'ग्रहानवेक्षयति यथागृहीतमवकाशान् वाचयन् प्राणायाम इति प्रतिमन्त्रमिति (का० ९ । ७ । ९) प्राणायेत्यादयो मन्त्रा अवकाशसंज्ञास्तान्वाचयेत् । ग्रहणक्रमेण ग्रहान्यजमानं दर्शयति । लिङ्गोक्तदेवतान्येकादश । यज्ञस्यैते प्राणास्तान्प्राणरूपेण दर्शयति । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदाः तेजसो दाता सः वं मे मम प्राणाय हृदयस्थितवायोर्वर्चसे पवस्व प्रवर्तस्व । उपांशुसवनम् । व्यानाय मे सर्वशरीरगतवायवे पवस्व । अन्यत्पूर्ववत् । अन्तर्यामं कण्ठदेशस्थो वायुरुदानः ऐन्द्रवायवम् । वागिन्द्रियाय मैत्रावरुणम् । क्रतुः कामः दक्षस्तस्य समृद्धिः तद्द्व्यसाधनरूपाय वर्चसे प्रवर्तस्व । आश्विनं श्रोत्राय श्रोत्रेन्द्रियाय । शुक्रामन्थिनौ युगपत् हे शुक्रामन्थिनौ, मे मम चक्षुषोः पाटवाय तद्रूपाय वर्चसे युवां पवेथां प्रवर्तेथाम् ॥ २७ ॥

अष्टाविंशी।
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पवस्वौज॑से मे वर्चो॒दा वर्च॑से पवस्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।। २८ ।।
उ० आग्रयणम् । आत्मने मे । उक्थ्यम् । ओजसे मे । ओजो जेप्यामीत्याशंसा । ध्रुवम् । आयुषे मे । पूतभृदाहवनीयौ च युगपत् । विश्वाभ्यां मे । यौ युवां स्वभावत एव वर्चोदसौ तौ ब्रवीमि । विश्वाभ्यः सर्वाभ्यो मे मम प्रजाभ्यो वर्चोदसौ वर्चसे पवेथां प्रवृत्तिं कुरुतम् ॥ २८ ॥
म० आग्रयणम् । ममात्मने जीवस्य स्वास्थ्याय वर्चसे पवस्व उक्थ्यम् । ओजः सर्वेन्द्रियपाटवं शारीरं बलं वा तद्रूपाय वर्चसे पवस्व । ध्रुवम् आयुर्निर्दुष्टजीवनं तद्रूपाय वर्चसे पवस्व । पूतभृदाहवनीयौ युगपदवेक्षते । हे पूतभृदाहवनीयौ, सर्वाभ्यो मम प्रजाभ्यः प्रजार्थं यद्वर्चस्तेजस्तदर्थं युवां पवेथाम् । किंभूतौ युवाम् । वर्चो दत्तस्तौ वर्चोदसौ । | सर्वत्र ददातेरसुन्प्रत्ययः । यद्वात्र प्राणायेत्यादिचतुर्थीनां षष्ठ्या | विपरिणामः । प्राणव्यानादीनां यद्वर्चस्तदर्थं पवस्वेत्यर्थः । यद्वा यस्तं प्राणाय वर्चोदाः स मे वर्चसे ब्रह्मवर्चसाय पवस्व एवं सर्वत्र ॥ २८ ॥

एकोनत्रिंशी।
को॑ऽसि कत॒मो॒ऽसि॒ कस्या॑सि॒ को नामा॑सि । यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॑नाती॑तृपाम । भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।। २९ ।।
उ० अथ द्रोणकलशम् । कोसि । वर्धमान उष्णिक् अनुष्टुप्