पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मतिं पर्याप्तमतिं पृथिव्या अन्तरिक्षलोकस्याहुः । तत्र ह्यसौ स्थितो यथाकालं वृष्ट्या पुष्णाति भूतानि । वैश्वानरमृत आजातमग्निम् । यं वैश्वानरम् ऋते यज्ञे आजातमुत्पन्नम् अरणिद्वयाद् अग्निमाहुः । यं च कविं क्रान्तदर्शनमाहुः । सम्राजं सम्यगैश्वर्येण युक्तमाहुः । यं च अतिथिं जनानामाहुः । विज्ञायते हि अग्निरतिथिरूपेण गृहान्प्रविशति तस्मात्तस्योदकमाहरन्ति । आसन्ना पात्रं जनयन्त देवाः । योयमुक्तगुणो वैश्वानरस्तमासन् । आस्यशब्दस्य 'पद्दन्-' इत्यादिना आसन् आदेशः । सप्तम्याश्छान्दसो लोपः । देवानामासनि आस्ये मुखे । आ आभिमुख्येन । पात्रं पीयतेऽनेनेति पात्रम् । विज्ञायते हि चमसो देवपान इति । 'चमसेन ह वा एतेन भूतेन देवा भक्षयन्तीति' । जनयन्त देवा इन्द्रादयः ॥२४॥
म० 'ध्रुवं मूर्धानं दिव इति' (का० ९ । ६ । २१) ध्रुवसंज्ञं ग्रहं गृह्णीयात् । वैश्वानरदेवत्या त्रिष्टुब्भरद्वाजदृष्टा । वैश्वानरश्चात्र सर्वात्मना स्तूयते । देवा ईदृशमग्निं जनयन्त उत्पादितवन्तः । अडागमाभाव आर्षः । किंभूतमग्निम् । दिवो मूर्धानं द्युलोकस्य शिरोवदुन्नतप्रदेशे सूर्यरूपेणावस्थाय भासकम् । तथा पृथिव्या अरतिम् रतिरुपरतिस्तद्रहितम् । नहि पृथिव्या उपरि कदाचिदप्यग्निरुपरमते किंतु दाहपाकप्रकाशैः सर्वाननुगृह्णन् सर्वदा वर्तत एव । यद्वा पृथिवीशब्देनान्तरिक्षमुच्यते । आकाशं आपः पृथिवीत्यन्तरिक्षनाममु पठितत्वात् पृथिव्या अन्तरिक्षस्यारतिमलमतिं पर्याप्तमतिं पूरकमित्यर्थः । तत्र स्थितोऽसौ यथाकालं वृष्ट्या भूतानि पुष्णाति तथा वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितो वैश्वानरस्तम् । जठराग्निरूपेणान्नपाचकत्वात् । तथा ऋते यज्ञे यज्ञनिमित्तं आजातम् उत्पन्नमरणिद्वयात् । तथा कविं क्रान्तदर्शनं स्वभक्ताननुग्रहीतुमभिज्ञमित्यर्थः । तथा सम्राजं सम्यग्दीप्यमानमैश्वर्येण युक्तमित्यर्थः । तथा जनानां यजमानानामतिथिं हविर्भिः सत्कारयोग्यम् । विज्ञायते हि अग्निरतिथिरूपेण गृहान्प्रविशति तस्मात्तस्योदकमाहरन्ति । आसन् आपात्रम् आस्यशब्दस्य सप्तम्येकवचने 'पद्दन्न-' (पा० ६ । १ । ६३) इति सूत्रेणासन्-आदेशः 'सुपां सुलुक' (पा० ७१ । ३९) इति सप्तमीलोपः । आसन् आसनि आस्ये मुखे आपात्रम् आभिमुख्येन पीयतेऽनेनेत्यापात्रम् । 'विज्ञायते हि चमसो देवपान इति चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति' (१।४ । २ । १४ ) इति श्रुतेः । ईदृशमग्निं देवा इन्द्रादयोऽजनयन्तेत्यर्थः ॥ २४ ॥

पञ्चविंशी।
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॒ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा । ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त् ।। २५ ।।
उ० उपयामगृहीतोऽसि ध्रुवोसि नाम्ना । क्रियाजमेतत्तवनामेति प्रशंसा । ध्रुवक्षितिर्ध्रुवाणाम् । 'क्षि निवासगत्योः'।
ध्रुवाणामपि त्वं ध्रुवक्षितिः ध्रुवनिवासः ध्रुवतमोऽच्युतानाम्। अच्युतानामपि त्वमेव ध्रुवतमः । अच्युतक्षित्तमः अच्युते क्षियतीत्यच्युतक्षित् अतिशयेन अच्युतक्षित् अच्युतक्षित्तमः । । सादयति । एष ते योनिः वैश्वानराय त्वा। सादयामीति शेषः । 'ध्रुवं निनयति ध्रुवं ध्रुवेण । बृहती । पूर्वोऽर्धर्चो ध्रुवदेवत्यः उत्तर ऐन्द्रः । ध्रुवं त्वाम् अवनयामि अवसिञ्चामि । ध्रुवेण एकाग्रेण मनसा वाचा च तन्मन्त्रोच्चारणप्रवणया सोमं प्रति । स हि होतृचमसे अवसिच्यते द्वादशे शस्त्रे । अथा नः अथास्माकमवसिक्तसोमानाम् । इन्द्र इत् । इच्छब्द एवार्थे । इन्द्रएव विशः मनुष्यान् असपत्नाः सपत्नरहितान् । समनसः 'समनस्कान् वृत्त्या युक्तानकरत् करोतु ॥ २५ ॥
म० ध्रुवदैवतं यजुः ध्रुवग्रहण एव विनियुक्तम् । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि ध्रुवोऽसि ध्रुवनामकोऽसि । कीदृशस्त्वम् । ध्रुवा स्थिरा क्षितिनिवासो यस्य स ध्रुवक्षितिः । 'क्षि निवासगत्योः' स्थिरनिवासः आ वैश्वदेवीशंसनप्रस्थानात् । तथा ध्रुवाणामादित्यस्थाल्यादीनां मध्ये ध्रुवतमः अतिशयेन स्थिरः । तथा अच्युतानां च्युतिरहितानां क्षरणशून्यानां मध्ये अच्युतक्षित्तमः । अच्युते च्युतिरहिते पात्रे क्षियति निवसतीति अच्युतक्षित् अतिशयेनाच्युतक्षित् अच्युतक्षित्तमः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानं वैश्वानरायाग्नये ' त्वा त्वां सादयामि । 'ध्रुवᳪ होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति' । ध्रुवपात्रस्थं सर्व सोमं होतृचमसे सिञ्चेत् । बृहती पूर्वोऽर्धर्चो ध्रुवदैवतः उत्तर ऐन्द्रः । प्रथमतृतीयावष्टाक्षरौ पादौ द्वितीयचतुर्थौ दशाक्षरौ सा बृहती 'वैराजौ गायत्रौ च' इति पिङ्गलोक्तेः । ध्रुवेणैकाग्रेण मनसा वाचा तन्मन्त्रोच्चारणप्रवणया ध्रुवं ध्रुवग्रहेऽवस्थितं सोममवनयामि होतृचमसेऽवसिञ्चामि । यद्वा ध्रुवं ग्रहं सोमं होतृचमसस्थं प्रत्यवनयामि । अथा अनन्तरमिन्द्र इत् । इदेवार्थे । इन्द्र एव नोऽस्माकं विशः प्रजाः ईदृशीः करत् । 'इतश्च लोपः परस्मैपदेषु' (पा० ३।४ । ९७) इतीलोपः . 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । कीदृशीर्विशः । असपत्नाः नास्ति सपत्नो यासां ताः सपत्नरहिताः शत्रुशून्याः । तथा समनसः समानं मनो यासां ताः स्थिरमनस्काः । धृतियुक्ता इत्यर्थः ॥ २५॥

षड़्विंशी। ।
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒ᳪशुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जु॑होमि॒ मन॑सा॒ वष॑ट्कृत॒ᳪ स्वाहा॑ दे॒वाना॑मु॒त्क्रम॑णमसि ।। २६ ।।
उ० विप्रुषां होमः । यस्ते द्रप्सः । सौमी त्रिष्टुप् यजुरन्ता । स्वाहादेवानामुपक्रमणमिति यजुः । हे सोम, यस्ते