पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उक्थं गृह्णाति। उपयामगृहीतोसि। इन्द्राय त्वां गृह्णामीति संबन्धः । कथंभूताय ।बृहद्वते बृहदितिसामाभिप्रायम्। वयस्वते विशिष्टं यौवनलक्षणवीर्यसमेतं सदाकालं वयो यस्य स तथोक्तः तस्मै वयस्वते । कथंभूतं त्वां गृह्णामि । उक्थाव्यं उक्थानि मैत्रावरुणब्राह्मणाच्छᳪस्यच्छावाकसंबन्धीनि अवति गोपायतीत्युक्थाव्यम् । तत्र ह्यस्य विनियोगः । यत्ते तव हे इन्द्र, बृहत् महत् ऊर्जितं वयो यौवनलक्षणं तस्मै त्वां गृह्णामि । अत्र च ते इन्द्रेति युष्मदामन्त्रिताभ्यां प्रत्यक्षमिन्द्र उच्यते । त्वेति युष्मदादेशोऽपि प्रत्यक्ष एव । तयोः सामर्थ्यं कथमितिचेत् । यस्येन्द्रस्य बृहद्वयस्तस्मै त्वां गृह्णामीति पदद्वयस्य व्यत्ययेनेति ब्रूमः । ते इत्यस्य पदस्य यस्येत्यनेन पदेन व्यत्ययः । इन्द्र इत्यस्य पदस्य इन्द्रस्येत्यनेन व्यत्ययः। विष्णवे यज्ञाय च त्वां गृह्णामीति शेषः । एष ते योनिः उक्थेभ्यः त्वां सादयामीति शेषः । विगृह्णाति । देवेभ्यस्त्वा । देवेभ्योऽर्थाय त्वां देवाव्यं देवतर्पणम् । यज्ञस्यायुषे । अनवच्छिन्ना आकस्मिकभ्रेषरहिता परिसमाप्तिः यज्ञस्यायुः । यज्ञस्यायुषे यज्ञस्य समाप्तये गृह्णामि । यद्वा यज्ञो यजमानस्य शरीरमिति यजमानस्यायुराशास्यते ॥ २२ ॥
म० 'उक्थ्यमुपयामगृहीत इति' (का० ९ । ६ । २०) उक्थ्यं ग्रहं गृह्णीयात् । उपयामग्रहदेवतानि यूजंषि । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि । हे उक्थ्यग्रह, त्वा त्वामिन्द्रार्थं गृह्णामि स्वीकरोमि । किंभूतायेन्द्राय । बृहद्वते बृहत्साम तद्वते । बृहत्सामप्रियायेत्यर्थः । तथा वयस्वते वयः सोमरूपमन्नं तद्वते । यद्वा वयो यौवनलक्षणं वीर्यसमेतं सदा तद्वते । किंभूतं त्वाम् । उक्थाव्यं उक्थानि मित्रावरुणब्राह्मणाच्छंस्यच्छावाकसंबन्धीनि शस्त्राणि अवति रक्षतीत्युक्थावीः तम् । तत्र ह्यस्य विनियोगः । किंच एवं सोममुक्त्वा इन्द्रमाह । हे इन्द्र, यत् ते तव बृहत् महत् वयोऽन्नं सोमरूपमस्ति तस्मै तत्पानार्थं त्वां प्रार्थये इति शेषः । हे सोम, विष्णवे विष्णुदेवतार्थं त्वां गृह्णामि । यद्वा हे इन्द्र, यत् ते तव बृहत् महत् ऊर्जितम् वयः यौवनलक्षणं तस्मै सोम, त्वां गृह्णामि । अत्र च ते इन्द्रेति युष्मदामन्त्रिताभ्यां प्रत्यक्ष इन्द्र उच्यते । त्वेति युष्मदा सोम उच्यते । प्रत्यक्षतः तयोः सामर्थ्यं नास्ति । ततस्ते इत्यस्य पदस्य अस्येत्यनेन व्यत्ययः । इन्द्रेत्यस्येन्द्रस्येत्यनेन पदेन व्यत्ययः । ततश्चायमर्थः । हे सोम, यदस्येन्द्रस्य बृहद्वयः तस्मै त्वां गृह्णामि । विष्णवे यज्ञाय च त्वां गृह्णामि । एष त इति सादनम् । हे ग्रह, एष ते तव योनिः स्थानमुक्थेभ्योऽर्थाय त्वां सादयामीति शेषः । 'उक्थं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्य इति' ( का० ९ । १४ । ८)। उक्थस्थालीस्थं सोमं त्रेधा विभज्य गृह्णाति । सर्वेभ्यः प्रशास्तृब्राह्मणाच्छंस्यच्छावाकेभ्यस्तत्कृतया गार्थमित्यर्थः । हे सोम, देवेभ्योऽर्थाय त्वां गृह्णामि । किंभूतं त्वाम् । देवाव्यं देवानवति तर्पयतीति देवावीस्तम् । किमर्थम् । यज्ञस्यायुषे अनवच्छिन्ना कर्मैकदोषरहिता परिसमाप्तिर्यज्ञस्यायुस्तस्मै यज्ञसमाप्तये फलपर्यन्तमवस्थानाय च गृह्णामि । यद्वा यज्ञो यजमानस्य शरीरमिति यजमानस्यायुषे गृह्णामि ॥ २२ ॥

त्रयोविंशी। :
मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॑य त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि ।। २३ ।।
उ० उक्थ्यविग्रहणेषु द्वितीयो मन्त्रविकल्पो मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां यथासंख्यम् । मित्रावरुणाभ्यां त्वा इन्द्राय त्वा इन्द्राग्निभ्यां त्वा एवमादयो मन्त्रा ऋजवः । चरकाणां मन्त्रविकल्पाः । इन्द्रावरुणाभ्यां त्वा इन्द्राबृहस्पतिभ्यां त्वा इन्द्राविष्णुभ्यां त्वा । एतेपि ऋजवः ॥ २३ ॥ ।
म० 'मित्रावरुणाभ्यां त्वेति वा प्रशास्त्र इति' ( ९ । १४ । '९) । मैत्रावरुणायोक्थ्यविग्रहे मन्त्रविकल्पः । मित्रावरुणाभ्यामर्थे देवाव्यं देवतर्पकं वां यज्ञस्यायुषे गृह्णामि । एवं प्रतिप्रस्थातोत्तराभ्यामिन्द्राय त्वेति ब्राह्मणाच्छᳪसिन इन्द्राग्निभ्यां त्वेत्यच्छावाकायेति' (का० ९ । १४ । १५) ब्राह्मणाच्छंस्यच्छवा
काभ्यां मन्त्रविकल्पावेवम् । इन्द्राय त्वां गृह्णामि इन्द्राग्निभ्यामर्थे त्वां गृह्णामि । शेषं पूर्ववत् । 'उत्तरेष्विन्द्रावरुणाभ्यामिन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यामिति' (का० १०।७।११) उक्थ्यादिसोमसंस्थेषु मैत्रावरुणादीनां तृतीयसवने उक्थ्यविग्रहमन्त्राः। इन्द्रावरुणयोरर्थे त्वां देवाव्यं यज्ञस्यायुषे गृह्णामि । एवमिन्द्रबृहस्पतिभ्यामर्थे त्वां गृह्णामि । इन्द्राविष्णुभ्यामर्थे त्वां गृह्णामि । मित्रावरुणाभ्यामित्यादौ ‘देवताद्वन्द्वे च' (पा० ६।३ । २६) इति पूर्वपदान्तस्य दीर्घः ॥ २३ ॥

चतुर्विशी।
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विᳪ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। २४ ।।
उ० ध्रुवं गृह्णाति । मूर्धानं दिवः वैश्वानरी त्रिष्टुप् । 'वैश्वानरर्चात्र सर्वात्मा स्तूयते । यं वैश्वानरमित्थंभूतं जनयन्त । देवाः । मूर्धानं दिवः द्युलोकस्य सूर्यात्मनावस्थितं मूर्धानं शिरः आहुर्ब्रह्मविदः । यं च अरतिं पृथिव्याः । पृथिवीशब्देनात्रान्तरिक्षमभिधीयते । पठितं चैतदन्तरिक्षनामसु । एतद् अन्तरिक्षम् आकाशम् आपः पृथिवीति । अरतिम् अल