पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूर्यसमागमनिमित्तं वृष्टिगर्भनिष्पत्त्यर्थं विप्रा इमं सोमं स्तुवन्ति यथा बालं कस्यचिद्वस्तुनो लाभाय यथा कश्चित्स्तौति । ईदृश हे सोम, त्वमुपयामेन ग्रहपात्रेण गृहीतोऽसि । मर्कः शुक्रपुत्रोऽसुरपुरोहितस्तस्मै त्वां गृह्णामीति शेषः ॥ १६ ॥

सप्तदशी।
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनि॑: प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्र ण॑य॒न्त्वना॑धृष्टासि ।। १७ ।।
उ० सक्तुभिः श्रीणाति । मनो न येषु । त्रिष्टुप् शुक्रामन्थिप्रचाराधियज्ञानुवादिनी। मनो न मन इव क्षिप्रम् येषु हवनेषु सोमहवनेषु सोमहोमेषु । तिग्मम् । तेजतेरुत्साहकर्मणः उत्साहयुक्तम् । विपः विपश्चितौ मेधाविनौ अध्वर्यू। छान्दसः प्रातिपदिकैकदेशलोपः । शच्या । शचीति कर्मनाम । कर्मणा निमित्तभूतेन । वनुथः प्रथमपुरुषस्य स्थाने मध्यमपुरुषश्छान्दसः । वनुतः व्याप्नुवतो युगपत् । शुक्रामन्थिहोमं द्रवन्तौ गच्छन्तौ तेष्वेव होमेषु कर्तव्येषु ।आयःशर्याभिस्तुविनृम्णो अस्याश्रीणीत।योध्वर्युः अश्रीणीत शर्याभिरङ्गुलीभिः। तुविनृम्णः । तुवीति बहुनाम नृम्णमितिधननाम बहुधनो महादक्षिणः। अस्येति गृहनिर्देशः। अस्य मन्थितः अश्रीणीत। आदिशं प्रतिदिशम् । क्वावस्थितस्य सतः । गभस्तौ पाणौ । यद्यप्यत्राध्वर्युप्रतिप्रस्थातारौ समानकर्माणौ तथापि यः श्रपणं करोति स एव प्रधानमित्याशयः। एष ते योनिः प्रजाः पाहि । यजमानसंबन्धिनीः प्रजाः गोपाय । यूपशकलेनोपमार्ष्टि । अपमृष्टो मर्कः अपमार्जनीकृतो मर्कोऽसुरः । निष्क्रामति । देवाः त्वा मन्थिपाः प्रणयन्तु प्रापयन्तु यजतिस्थानम् ।। मन्थीति ग्रहनाम । अनाधृष्टासि । निर्विशेषम् ॥ १७ ॥
म०. 'सक्तुभिः श्रीणात्येनं मनो न येष्विति' ( का० ९ । ६ । १३)। एनं मन्थिग्रहं यवपिष्टैर्मिश्रीकुर्यात् । त्रिष्टुप् सोमस्तुतिः । विपः विपश्चितौ मेधाविनौ अध्वर्युप्रतिप्रस्थातारौ । विप इत्यत्र छान्दसः प्रातिपदिकैकादेशलोपः । येषु हवनेषु सोमहोमेषु शच्या कर्मणा कृत्वा । शचीति कर्मनाम । मनो न मन इव तिग्मम् । 'तिग्मं तेजतेरुत्साहकर्मणः' ( नि० १०।६)। इति यास्कः। मनोवदुत्साहयुक्तं यथा तथा वनुथः। प्रथमपुरुषस्थाने मध्यमपुरुषश्छान्दसः । वनुतः व्याप्नुतः युगपत् शुक्रामन्थिग्रहाविति शेषः । शच्येति निमित्ततृतीया वा । कर्मनिमित्तं व्याप्नुत इत्यर्थः । किंभूतौ । विपश्चितौ द्रवन्ता द्रवन्तौ गच्छन्तौ हवनेषु तेष्वेव कर्तव्येषु होमेषु प्रचरन्तौ । योऽध्वर्युः शर्याभिः अङ्गुलीभिर्गभस्तौ पाणौ स्थितस्यास्य मन्थिग्रहस्य । कर्मणि षष्ठी । इमं मन्थिनमादिशं प्रतिदिशमा अश्रीणीत समन्तात् श्रीणीते सक्तुभिर्मिश्रयति । किंभूतो यः । तुविनृम्णः तुवि नृम्णं यस्य बहुधनः महादक्षिणः । तुवीति बहुनाम । नृम्णमिति धननाम । यद्यप्यत्राध्वर्युप्रतिप्रस्थातारौ समानकर्माणौ तथापि यः सक्तुभिः श्रपणं करोति स एव प्रधान इत्याशयः । एष त इति सादयति । हे मन्थिग्रह, ते तव एष योनिः प्रदेशः । त्वं प्रजाः यजमानसंबन्धिनीः पाहि पालय । 'अपमृष्टो मर्क इति प्रतिप्रस्थातेति' (का० ९।१०।५) प्रतिप्रस्थाता प्रोक्षितेन यूपशकलेन मन्थिनमाच्छाद्याप्रोक्षितेनापमार्ष्टि । अपमार्जनीकृतो मर्को नामासुरपुरोहितः (का. | ९ । १० । ६) देवास्त्वेति निष्कामतो यथालिङ्गमिति । प्रतिप्रस्थाता हविर्धानान्निष्क्रामेत् । मन्थिदैवतम् हे मन्थिग्रह, मन्थिनं ग्रहं पिबन्तीति मन्थिपाः देवाः त्वा प्रणयन्तु यजतिस्थानं प्रापयन्तु । अनाधृष्टासीति मन्त्रो विनियोगसहितः पूर्व व्याख्यातः ॥ १७ ॥

अष्टादशी।
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒न्थिशो॑चिषा निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ।। १८ ।।
उ० पूर्वेण गच्छति । सुप्रजाः । यतस्त्वं सुप्रजाः । हे | मन्थिन् , सुप्रजाः । अतस्त्वं सुप्रजाः यजमानस्य प्रजनयन्परीहि परिगच्छ । किंच अभि गच्छस्व धनस्य पोषेण यजमानम् । परीहीत्यनुवर्तते । अपरेण यूपमरत्नी संधत्तः । संजग्मानः संगच्छमानो दिवा द्युलोकेन संगच्छमानश्च पृथिव्या पृथिवीलोकेन । कोऽसौ मन्थी मन्थिशोचिषा च । मन्थिनः शोचिर्दीप्तिः मन्थिशोचिः तेन मन्थिशोचिषा । संजग्मान इति वर्तते । यूपशकलं प्रास्यति । निरस्तो मर्कोऽसुरः । आहवनीये प्रास्यति । मन्थिनोऽधिष्ठानमसि । मन्थी ग्रहः । अधिष्ठानमधिकरणम् ॥ १८॥
म० 'सुप्रजा इति प्रतिप्रस्थातोत्तरमिति' (का० ९ । १० " ९)। प्रतिप्रस्थातोत्तरं यूपदेशं गच्छति । मन्थिदैवतम् । हे मन्थिग्रह, शोभना प्रजा यस्य स सुप्रजास्त्वं यजमानसंबन्धिनोः प्रजाः प्रजनयन्नुत्पादयन्सन् रायस्पोषेण धनस्य पुष्ट्या | सह यजमानमभि यजमानसंमुखं परीहि परिगच्छ आगच्छ । 'अपरेण यूपमरत्नी संधत्तः संजग्मान इति' ( का० ९ । १० ।१०)। प्रतिप्रस्थातारत्नी संधत्त इत्युक्तम् । मन्थी नाम ग्रहो दिवा पृथिव्या द्युलोकभूलोकाभ्यां संजग्मानः संगच्छमानः 'सन्मन्थिशोचिषा मन्थिनः स्वस्यैव दीप्त्या यूपं बिभर्तीति शेषः 'निरस्तो मर्क इति प्रतिप्रस्थातेति' (का० ९ । १० । ११)। प्रतिप्रस्थाता अप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकम् । मर्कनामासुरपुरोहितो निरस्तो निराकृतः । 'मन्थिन इति प्रति