पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जुहुतः सा प्रथमेत्यध्वर्युः प्रथमं तमनु प्रतिप्रस्थातेति' ( का० ९।११।१) अध्वर्युप्रतिप्रस्थातारौ यूपोभयपार्श्वयोः स्थित्वा पश्चिमाभिमुखौ सन्तौ जुहुयाताम् । अध्वर्युरादौ शुक्रं प्रतिप्रस्थाता ततो मन्थिनं जुहोति । इन्द्रदेवत्या त्रिष्टुप् । सा प्रथमा मुख्या संस्कृतिः सोमसंस्कारो यस्येन्द्रस्य क्रियते इन्द्रार्थं क्रियत इत्यर्थः । सोमक्रये सा देवि देवमच्छेहीन्द्राय सोममित्युक्तत्वात् (अध्या० ४ क. २०)। किंभूता संस्कृतिः । विश्ववारा विश्वैः सर्वैर्ऋत्विग्भिरनृत्विग्भिश्च व्रियते यत्र सोमः सा विश्ववारा । यद्वा विश्वं वृणोति क्रियमाणः सोमो यत्रेति विश्ववारा जगदुत्पत्तिबीजत्वात् । सोमस्य वरुणो मित्रः अग्निश्च स प्रसिद्धो यस्य प्रथमो मुख्यो भृत्य इति शेषः । वरुणमित्राग्नयोऽन्येषामप्युपलक्षकाः । देवगणानां यः प्रभुरित्यर्थः ॥ १४ ॥

पञ्चदशी।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ ।
तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ता॒: सुहु॑ता॒ यत्स्वाहाऽया॑ड॒ग्नीत् ।। १५ ।।
उ० स प्रथमः । स च प्रथमो बृहस्पतिः । चिकित्वान् चेतनावान् उत्कृष्टधीः । अन्येषां मन्त्रिगणानां यस्येन्द्रस्य तस्मै इन्द्राय सुतमभिषुतं सोमम् आजुहोत क्षारयत स्वाहाकारेण हे ऋत्विजः । जपति । तृम्पन्तु होत्राः । होत्राशब्देन होत्रिकयाज्याछन्दांस्यभिधीयन्ते । तृम्पन्तु। 'तृप तृम्प तृप्तौ'। तृम्पन्तु होत्रा याज्याछन्दांसि । मध्वः मधुसोममित्यौपमिकम् । माद्यतेः मधुस्वादस्य सोमस्य । याः स्विष्टा याः शोभनमिष्टाः । याः सुप्रीताः याः साधुप्रीताः । कथमेतज्ज्ञायत इति चेत् सुहुता यत्स्वाहा । साधुहुता यस्मात्स्वाहाकारेण । प्रत्यङ् उपविशति । अयादग्नीत् अग्नीत् एवं होतुराचष्टे ॥१५॥
म० स प्रसिद्धः चिकित्वान् चेतनावानुत्कृष्टधीः बृहस्पतिः यस्येन्द्रस्य प्रथमो मुख्यो मन्त्री इति शेषः । यद्वा संस्कृतिः समीचीना कृतिर्विश्वैर्देवैर्वरणीया सा प्रथमा देवानां मध्ये मुख्या यस्येन्द्रस्य वरुणमित्राग्नयोऽपि स प्रथम इन्द्र एव । चिकित्वान् बृहस्पतिरपि स इन्द्र एव । हे ऋत्विजः, तस्मै तादृशायेन्द्राय सुतमभिषुतं सोमं स्वाहेति स्वाहाकारेणाजुहोत आभिमुख्येन जुहुत स्वाहाकारेण होमं कुरुत । 'तृम्पन्त्विति जपतीति' (का० ९ । ११ । ९) होत्रादैवतम् । ताः होत्राः छन्दोभिमानिन्यो देवताः तृम्पन्तु तृप्ता भवन्तु। 'तृम्प प्रीतौ' । होत्राशब्देन याज्याच्छन्दांस्यभिधीयन्ते । ताः काः । याः मध्वो मधुनो मधुस्वादस्य सोमस्य स्विष्टाः साधु इष्टाः तद्धोमे नियुक्तत्वात् याश्च होत्राः सुष्ठु प्रीताः । कथं ज्ञायन्ते । यद् यस्मात् स्वाहाकारेण सुहुताः साधु हुताः । होमार्थं नियुक्ता इत्यर्थः । ‘होतारं प्रत्यङ्ङुपसीदव्ययाडग्नीदिति' (का० ९।११।१०)। अध्वर्युर्होतृसमीपे प्रत्यङ्मुखस्तिष्ठेत् । होतृदैवतम् । अग्निरयाट् अयाक्षीत् अग्निधा यागः कृत इति होतुः कथयति ॥ १५ ॥

षोडशी।
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पाᳪ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ।। १६ ।।
उ० मन्थिनं गृह्णाति । अयं वेनः। सोम्यानया त्रिष्टुभाधिदैवमधियज्ञं वावस्थितः स्तूयते । अधिदैवं तावच्चन्द्रात्मना संस्तूयते । अयं वेनश्चोदयत्पृश्निगर्भाः । वेनः वेनतेः कान्तिकर्मणः । अयं चन्द्रमा वेनः कान्तः । चोदयत् । 'चुद संचोदने । प्रेरयति पृश्निगर्भाः द्युलोकः पृश्निरादित्यो वा । साधारणत्वाद् द्युलोकगर्भा वा आदित्यगर्भा वा आपः । ज्योतिर्जरायू । ज्योतिरस्य जरायुस्थानीयं भवति चन्द्रमसः। रजसो विमाने । उदंकं रज उच्यते । उदकस्य विनिर्माणकाले प्राप्ते ग्रीष्मान्ते । इदानीमधियज्ञमवस्थितमुच्यते । इममेव च सोमं अपां च सूर्यस्य च संगमे गृहीताभिरद्भिर्वसतीवरीलक्षणाभिरभिषुतं सन्तं शिशुंन शिशुमिव विप्रा मेधाविनो ब्राह्मणाः मतिभिः रिहन्ति स्तुवन्ति स्तोत्रशस्त्रैः । रिहतिर्हि अर्चतेः कर्मसु पठितः। वसतीवर्यश्चापः अपांसंगमे सूर्यस्य च संगमे गृह्यन्ते । तत्र ह्येवं पठ्यते । ता वै स्यन्दमानानां गृह्णीयात् दिवा गृहीयादिति च । उपयामगृहीतोऽसि मर्कायत्वा गृह्णामि । मर्कोऽसुरः ॥ १६ ॥
म० 'मन्थिनमयं वेन इति' ( ९ । ६ । १२)। मन्थिग्रहं गृह्णीयात् । त्रिष्टुप् अनयाधिदैवमधियज्ञं चावस्थितः सोमः स्तूयते । अधिदैवं चन्द्रात्मना स्तूयते । 'वेनो वेनतेः कान्तिकर्मणः' (नि० १० । ३८) इति यास्कः। विनि कान्तौ' इत्यस्य रूपम् । अयं वेनः कान्तश्चन्द्रो रजसो विमाने उदकं रज उच्यते । उदकस्य निर्माणकाले ग्रीष्मान्ते प्राप्ते पृश्निगर्भा अपः चोदयत् चोदयति प्रेरयति वर्षतीत्यर्थः । पृश्निरादित्यो द्युलोको वा गर्भोऽवस्थानं यासां ताः द्युलोकस्था रविस्था वा अपो वर्षति । किंभूतो वेनः । ज्योतिर्जरायुः ज्योतिर्विद्युल्लक्षणं जरायुवद्वेष्टनं यस्य स ज्योतिर्जरायुः । इदानीमधियज्ञं लतात्मना सोमः स्तूयते । विप्रा मेधाविनो ब्राह्मणा इमं सोमं शिशुंन शिशुमिव बालमिव मतिभिः मतिपूर्वाभिर्वाग्भिः रिहन्ति स्तुवन्ति । बालं यथा कश्चिल्लालयति तद्वद्यं सोमं स्तोत्रशस्त्ररूपाभिर्वाग्भिः स्तुवन्ति । रिहतिरर्चनकर्मसु पठितः । अर्चनं स्तवनमेव । किंभूतमिमम् । सूर्यस्यापां च सङ्गमे गृहीताभिरद्भिरभिषुतमिति शेषः । सोमाभिषवार्थं वसतीवर्य आपो अपां सूर्यस्य च सङ्गमे गृह्यन्ते 'ता वै वहन्तीनां स्यन्दमानानां गृह्णीयाद्दिवा गृह्णीयात्' । इति श्रुतेः । यद्वायमर्थः । अपां सूर्यस्य सङ्गमे निमित्ते उदक