पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नाम । सा प्रकाशयति अर्थान् । मधुमती मधुब्राह्मणोपनिषत् प्रशंसायुक्ता । सूनृतावती शोभना प्रिया ऋतावती सत्यवती च या वाक् सा सूनृतावती । तया यज्ञं मिमिक्षतम् । 'मिह सेचने'। सिञ्चतम् । अश्विनौ हि यज्ञे अध्वर्यू अत एवमुच्यते । उपयाम गृहीतोऽस्यश्विभ्यां त्वा गृह्णामि । एष ते योनिः माध्वीभ्यां त्वा सादयामि । 'दध्यङ् ह वा आभ्यामाथर्वणो मधुनामब्राह्मणमुवाच इत्युपक्रम्य तस्मान्मधुमत्यर्वाक् गृह्णाति माध्वीभ्यां त्वेति सादयति' इत्याह श्रुतिः । अतएवं व्याख्येयम् । मधु ब्राह्मणं यावधीयाते तौ माध्वी इत्युच्येते । इकारोऽत्र तद्धितः ॥ ११ ॥
म० 'आश्विनं गृह्णात्यन्वारब्धे वा या वामिति' (का० ९। ७ । ८)। यजमानेऽन्वारब्धे वाश्विनं ग्रहं गृह्णाति । आश्विनी गायत्री मेधातिथिदृष्टा यजुरन्ता । हे अश्विना अश्विदेवौ, वां युवयोर्या कशा । कशेति वाङ्नामसु पठितम् । काशयति प्रकाशयति वाङ्मयमिति कशा वाक् । किंभूता । मधुमती मधु ब्रह्म तद्वती मधुब्राह्मणोपनिषत्प्रशंसायुता । तथा सूनृतावती प्रियं सत्यं वचः सूनृतं तद्वती सत्यप्रियवचनोपेता । हे अश्विनौ, तया वाचास्मदीयं यज्ञं मिमिक्षतं 'मिह सेचने' सनन्तः । सेक्तुमिच्छतम् । निष्पादयतमित्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि अश्विभ्यामर्थे त्वां गृह्णामीति शेषः । (का० ९ । ६ । ८) साधयत्येष ते हे ग्रह, एष ते योनिः स्थानं माध्वीभ्यां मधुब्राह्मणाध्येतृभ्यामश्विभ्यामर्थे त्वां सादयामीति शेषः । मधुब्राह्मणं यावधीयाते तौ माध्व्यौ ताभ्याम् । तद्धित ईप्रत्ययः । 'दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच' (४ । १।५। १८) इति श्रुतेः ॥ ११ ॥

द्वादशी।
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्येष्ठ॒ता॑तिं बर्हि॒षद॑ᳪ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्ट॒: शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्र ण॑य॒न्त्वना॑धृष्टाऽसि ।। १२ ।।
उ० शुक्रं गृह्णाति । तस्य पुरोरुक् । तं प्रत्नथा । जगती अनिरुक्ता प्रकरणाच्च शुक्रोभिधीयते । अत्र च व्यवहितैः पदैः वाक्यं प्रायशः कल्प्यते । हे सोम, तमिन्द्रं ज्येष्ठतातिम् उत्कृष्टतातिं उत्कृष्टविस्तारम् । अथवा 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति तद्धितः प्रशंसायाम् । ज्येष्ठतातिं ज्येष्ठप्रशस्यम् । बर्हिषदम् यज्ञेषु बर्हिषि सीदतीति बर्हिषदम्। स्वर्विदम् । स्वशब्देन द्युलोकोऽभिधीयते । द्युलोकं जानाति तत्र हि तस्स निवासः । धुनिम् । 'धूञ् कम्पने' । कम्पयितारं शत्रूणाम् । आशुं जयन्तम् शीघ्रं जयन्तं जेतव्यानि वस्तूनि । तमेवंगुणविशिष्टमिन्द्रं हे सोम, यासु अनु वर्धसे । यासु विक्षु येषु यजमानेषु वर्धसे पुनःपुनः संस्क्रियसे तासु तासु क्रियासु त्वमवस्थितः तत्र प्रतीचीनं वृजनं दोहसे । प्रतीचीनमात्मनोऽभिमुखमिन्द्रमवस्थाप्य स्ववीर्येण तर्पयित्वा अस्मे यजमानाय वृजनम् । वृजनमिति बलनाम । बलवच्च यज्ञफलं दोहसे प्रक्षारयसि । कथं पुनर्दोहसे प्रत्नथा । था उपमार्थीयः । प्रत्नशब्दः पुराणवचनः । चिरन्तनानामिव ऋषीणां भृगुप्रभृतीनां दोहसे । इमथा । इदानीन्तनानामिव यजमानानां दोहसे । अस्य यजमानस्य । उपयामगृहीतोसि शण्डाय त्वा गृह्णामि । शण्डोऽसुरः । एष ते योनिः वीरतां वीरत्वं पाहि गोपाय । सादयामीति शेषः । यूपशकलेनाभिमार्ष्टि । अपमृष्टः शण्डः अपमार्जनीकृतोऽस्य ग्रहस्य शण्डोऽसुरः। निष्क्रामति । देवास्त्वा । देवास्त्वां हे ग्रह, शुक्रपायिनः यजतिस्थानं प्रापयन्तु दक्षिणस्यां वेदिश्रोणावासादयति । अनाधृष्टासि अनुपहिंसितासि ॥ १२ ॥
म० 'शुक्रं बैल्वेन वा तं प्रत्नथेति' (का० ९ । ६ । १०) बिल्वपात्रेण वैकङ्कतेन वा शुक्रं ग्रहं गृह्णाति । जगती वैश्वदेवी काश्यपावत्सारदृष्टा द्वादशार्णचतुःपादा जगती उपयामेत्यन्ते यजुः । हे इन्द्र, त्वं यासु यज्ञक्रियासु अनुवर्धसे पुनः पुनः सोमपानेन वृद्धिं प्राप्नोषि तासु । वृजनमिति बलनाम । बलं बलवद्यज्ञफलं दोहसे क्षारयसि ददासीत्यर्थः । यजमानायेति शेषः । कथं दोहसे तत्र दृष्टान्तमाह । प्रत्नथा । 'प्रत्नपूर्व-' (पा० ५। ३ । १११) इत्यादिना थाल्प्रत्यय उपमार्थीयः। प्रत्नशब्दः पुराणवचनः । चिरन्तनानां भृग्वादीनामिव फलं दोहसे । पूर्वथा पूर्वेषामिव ऋषीणां साध्यादीनामिव । विश्वथा विश्वेषां सर्वेषामृषिपुत्राणामिव । इमथा इदानीन्तनानां यजमानानामिवास्य फलं दोहसे तं त्वां स्तुम इति शेषः । किंभूतं तम् । ज्येष्ठतातिम् तननं तातिः विस्तारः । ज्येष्ठा उत्कृष्टा तातिर्विस्तारो यस्य तम् । यद्वा 'वृकज्येष्ठाभ्याम्-' (पा० ५ । ४ ।४१) इत्यादिना प्रशंसायां तातिल्प्रत्ययः । प्रशस्तो ज्येष्ठो ज्येष्ठेषु प्रशस्यो वा ज्येष्ठतातिः । तथा बर्हिषदं यज्ञेषु बर्हिषि सीदतीति बर्हिषदस्तम् । स्वर्विदम् । स्वः द्युलोकं वेत्ति जानातीति स्वर्वित्तम् । तत्र हि तस्य निवासः । प्रतीचीनमात्मनोऽभिमुखं धुनिम् । 'धूञ् कम्पने' । कम्पितारं शत्रूणाम् आशुं शीघ्रं जयन्तं जेतव्यानि वस्तूनि । यद्वास्या ऋचोऽर्थान्तरम् । हे इन्द्र, यस्त्वं प्रतीचीनं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयमालस्याश्रद्धादिकं दोहसे रिक्तीकरोषि विनाशयसि । 'दुह प्रपूरणे' प्रपूरणं रिक्तीकरणमिति क्षीरस्वामी। किंच यासु क्रियासु धुनिं त्वदनुग्रहाच्छत्रून्कम्पयन्तमाशुं क्षिप्रकारिणं जयन्तं सम्यगनुष्ठानेन यजमानान्तराण्यतिशयानमेनं यजमानमनु सोमपानेन स्तुत्या च यः त्वं वर्धसे तासु क्रियासु तं त्वां स्तुम इति शेषः । कथमिव । प्रत्नथा थाप्रत्यय | उपमार्थः । प्रत्नाः पुरातना भृग्वादयो यथा त्वामस्तुवन् पूर्वथा