पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मागच्छतम् । यद्वा प्रयःशब्द 'इण् गतौ' इति धातोः शतृप्रत्ययान्तस्य रूपम् । प्रेतीति प्रयन् । इणो यण् तस्य भिसि परे तकारस्य छान्दसः सकारः तस्य रुत्वादौ प्रयोभिरिति सिध्यति । प्रयोभिः प्रयद्भिः शीघ्रैरश्वैरागच्छतम् । हि यस्मादिन्दवः सोमा वां युवामुशन्ति कामयन्ते तस्मादागच्छतमित्यर्थः । सोममाह हे सोमरस, त्वमुपयामेन पात्रेण गृहीतोऽसि वायवे वायुदेवतार्थं इन्द्रवायुभ्यां इन्द्रवायुदेवतार्थं च त्वां गृह्णामीति शेषः । 'दशापवित्रेण परिमृज्यैष ते योनिरिति ग्रहसादनमिति' (का. ९ । ५। २५)। दशापवित्रेण गृहीतं ग्रहं परिमृज्य पात्राद्बहिर्निर्गतं सोमं मार्जयित्वा एष ते योनिरिति मन्त्रेण ग्रहस्य सादनं करोति । वीप्सा सर्वग्रहार्था । इति सूत्रार्थः । हे पात्र, एष खरस्यैकदेशः ते योनिः तव स्थानम् । अतोऽत्र सजोषोभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यामर्थं त्वां सादयामीति शेषः ॥ ८॥

नवमी।
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ ᳪ हव॑म् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ।। ९ ।।
उ० मैत्रावरुणस्य पुरोरुक् । अयं वाम् । गायत्री मैत्रावरुणी । हे मित्रावरुणौ, अयं वां युवयोः अयमभिषुतः सोमः हे ऋतावृधौ सत्यवृधौ वा यज्ञवृधौ वा अतः कारणात् मम इत् इह श्रुतं हवम् । इदिति निपात एवार्थे । ममैव इह यजमानानां मध्ये श्रुतम् आह्वानम् । उपयाम गृहीतोसि मित्रावरुणाभ्यां त्वा । देवतादेशः ॥९॥
म० 'मैत्रावरुणमयं वामिति' ( का० ९।६।७) मैत्रावरुणं ग्रहं गृह्णीयात् । मित्रावरुणदेवत्या गायत्री गृत्समददृष्टा यजुरन्ता । हे मित्रावरुणौ, विभक्तेराकारः । हे ऋतावृधा, ऋतं यज्ञं सत्यं वा वर्धयत इति ऋतवृधौ ऋतस्य वर्धयितारौ वां युवयोरर्थायायं सोमः सुतः अभिषुतः तस्मादिहास्मिन् यज्ञे ममेत् । इत् एवार्थे । ममैव यजमानानां मध्ये ममैव हवमाह्वानं श्रुतं युवां शृणुतम् । हे सोमरस, त्वमुपयामेन मैत्रावरुणग्रहपात्रेण गृहीतोऽसि । मित्रावरुणाभ्यामर्थे त्वा त्वां गृह्णामीति शेषः ॥९॥

दशमी।
रा॒या व॒यᳪ स॑स॒वाᳪसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गाव॑: ।
तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फ़ुरन्तीमे॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ।। १० ।।
उ० पयसा श्रीणाति । राया वयम् । मैत्रावरुणी त्रिष्टुप्। उपरितनेर्धर्चे तदः श्रवणादिह पदोध्याहारः । इह कामदुघां प्रार्थयते मन्त्रदृक् । यया धेन्वा गृहेसत्या । राया वय ᳪससवा ᳪसो मदेम । राया धनेन वयं ससवांसः। 'वन षण संभक्तौ' । संभक्ताः सन्तो हृष्टाः स्याम । कथमिव । हव्येन देवाः यथा हविषा संभक्ता देवा हृष्यन्ति । यथाच यवसेन गवाह्निकादिना गावो हृष्टा भवन्ति तां तथाभूतां धेनुं हे मित्रावरुणौ, युवं युवां नः अस्मभ्यं विश्वाहा सर्वदा। धत्तं दत्तं । अनपस्फुरन्तीम् । स्फुरतिर्गत्यर्थः । अपेत्यापेत्य या पुरुषान्तरात्पुरुषान्तरं गच्छति सा अपस्फुरन्ती अपस्फुरन्ती न भवतीत्यनपस्फुरन्ती ताम् । अनन्यगामिनीं दत्तमित्यर्थः । विश्वाहेति सततं दानक्रियार्थम् । एष ते योनिः ऋतायुभ्यां त्वा । सादयामीति शेषः । ऋतशब्देनात्र मित्रोऽभिधीयते । अयुशब्देन वरुणः। | अयंतावत् श्रुत्यभिप्रायः येनैवमाह । 'ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ह्यृतं वरुण एवायुरिति'। पदकारस्तु ऋतायुवाभ्यामित्येकं पदं कृतवान् तस्यायमभिप्रायः । ऋतं सत्यं यज्ञं वा यौ कामयेते तौ ऋतायू ताभ्यामृतायुभ्याम् ॥ १० ॥ -
म० ‘पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति' । (का० ९।६। ८ ) मैत्रावरुणपात्रे कुशद्वयं व्यवधाय तत्र स्वं सोमरसं क्षीरेण मिश्रीकुर्यात् । मित्रावरुणदेवत्या त्रिष्टुप् त्रसदस्यदृष्टा । उत्तरार्धे तामिति तदःश्रवणादिह यदोऽध्याहारः । मन्त्रदृक्कामदुघां प्रार्थयते । यया धेन्वा गृहे सत्या वयं राया धनेन ससवांसः । 'वन षण संभक्तौ' इत्यस्य वसौ रूपम् । धनेन संभक्ताः संपन्नाः सन्तो मदेम हृष्टाः स्याम । कथमिव । हव्येनेव । यथा हविषा संभक्ता देवा हृष्यन्ति, यथाच यवसेन घासेन गवाह्निकादिना गावो हृष्यन्ति हे मित्रावरुणौ, युवं युवां तां धेनुं नोऽस्मभ्यं विश्वाहा सर्वदा धत्तं दत्तम् । किंभूतां धेनुम् । अनपस्फुरन्तीम् । स्फुरतिर्गत्यर्थः । अपस्फुरति पुरुषान्तरं गच्छतीत्यपस्फुरन्ती न अपस्फुरन्ती अनपस्फुरन्ती ताम् । अनन्यगामिनीं दत्तमित्यर्थः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानम् ऋतायुभ्यां मित्रावरुणाभ्यामर्थे त्वां सादयामीति शेषः । 'ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं वरुण एवायुः' (४ । १।४ । १०) इति श्रुतेः ऋतशब्देन मित्रः आयुशब्देन वरुणः इति श्रुतिव्याख्या । पदकारस्तु ऋतयुभ्यामिति पदं कृतवान् तेन ऋतं सत्यं यज्ञं वा कामयेते तौ ऋतयू ताभ्यामृतयुभ्याम् । संहितायां दीर्घः । यज्ञमिच्छद्भ्यां मित्रावरुणाभ्यामित्यर्थः पदकारस्य ॥ १० ॥

एकादशी।
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ।। ११ ।।
उ० आश्विनस्य पुरोरुक् । या वां कशा । गायत्री आश्विनी । हे आश्विनौ या वां युवयोः कशा । कशेति वाङ्