पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

र्यामे अस्मिन्ग्रहे होमायोद्यते हे मघवन् , मादयस्व हर्षयस्वात्मानम् ॥ ५॥
म० मघवद्देवत्या त्रिष्टुप् । अन्तर्यामग्रहण एव विनियोगः । हे मघवन् , ते तवानुग्रहात् द्यावापृथिवी अन्तर्दधामि व्यवधायिके करोमि । यद्वा हे अन्तर्याम, प्राणरूपापन्नस्य तवान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि । स्थापयामि । किंच उरु विस्तीर्णमन्तरिक्षमन्तर्मध्ये च दधामि द्यावापृथिव्योर्मध्ये स्थापयामि । हे मघवन्धनवन्निन्द्र, अवरैः पृथिवीस्थानैः देवेभिर्देवैः परैः द्युस्थानैश्च देवैः सजूः समानजोषणः समानप्रीतियुक्तः सन्नन्तर्यामे ग्रहे मादयस्व हर्षयस्वात्मानम् । यद्वा तृप्यस्व 'मद तृप्तौ' चुरादिरात्मनेपदी । देवेभिरित्यत्र 'बहुलं छन्दसि' (पा० ७ । १।१०) इति ऐसोऽभावे 'बहुवचने झल्येत्' (पा० ७ । ३ । १०३) इति एकारः ॥ ५॥

षष्ठी।
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒: पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ उदा॒नाय॑ त्वा ।। ६।।
उ० जुहोति । स्वांकृतोसि । व्याख्यातम् । पात्रमासादयति । उदानाय त्वा ॥ ६ ॥
म०. स्वांकृत इति निःशेषस्यैव होमस्तिष्ठतः । व्याख्यातः । 'प्रथमे च न्युब्जेन पाणिना प्रत्यगिति' ( का० ९ । ६ । ४ )। प्रथमे परिधावधोमुखहस्तेन प्रत्यक्संस्थं मार्ष्टि देवेभ्यस्त्वेति मन्त्रेण । व्याख्यातः । उदानाय त्वेति पात्रासादनम् । हे ग्रह, उदानसन्तोषार्थं त्वां सादयामि ॥ ६ ॥

सप्तमी।
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ।। ७ ।।
उ० ऐन्द्रवायवं गृह्णाति । आ वायो भूष । त्रिष्टुप् वायुदेवत्या । हे वायो, आ अभूष अभ्याक्रमस्व । हे शुचिपाः, पवित्रं सोमं । प्रथमवषट्कारवषट्कृतमप्राप्तमन्यैर्देवताविशेषैः पिबतीति शुचिपाः उप नः उप समीपे नः अस्माकम् अभ्याक्रमस्वेति संबन्धः । केनाहमभ्याक्रम इति चेत् सहस्रं ते नियुतो विश्ववार । बहवः ते नियुद्गुणयुक्ता अश्वा विद्यन्ते । हे विश्ववार, विश्वं सर्वं वृणोति विश्वैः सर्वैर्वा व्रियते प्राणिभिरिति विश्ववारः तस्य संबोधनं हे विश्ववार । किंच उपो ते अन्धो मद्यमयामि । उपगमयामि च ते तव स्वभूतम् अन्धोन्नं मद्यं मदनीयम् । कथंभूतम् । यस्य सोमस्य हे देव, दधिषे धारयसि पूर्वपेयं प्रथमवषट्कारलक्षणम् । पूर्वपानं प्रथमवषट्कार एव ते सोमस्य राज्ञ इत्याशयः । वायवे त्वेति देवतोद्देशः ॥ ७ ॥
म० 'ऐन्द्रवायवं गृह्णात्या वायविति' ( का० ९ । ६।५)। वायुदेवत्या त्रिष्टुप् वसिष्ठदृष्टा वायवे त्वेति यजुरन्ता । हे वायो, हे शुचिपाः शुचिं पवित्रं प्रथमं वषट्कृतमप्राप्तमन्यदेवैः ईदृशं सोमं पिबतीति शुचिपाः पवित्रसोमपान, त्वं नोऽस्माकमुप समीपे आ भूष आक्रमस्वागच्छेत्यर्थः । ‘भूष अलंकारे'. इह गत्यर्थः । केनाहं आक्रमे इति चेत् । सहस्रं ते नियुतो विश्ववार । विश्वं सर्वं वृणोति व्याप्नोति विश्वैर्वा व्रियते प्रार्थ्यते इति विश्ववारस्तत्संबोधनम् हे विश्ववार सर्वव्यापक, ते तव सहस्रं नियुतः सन्ति । 'नियुतो वायोः' इत्युक्तेर्नियुच्छब्देन वायुवाहनभूता मृगा उच्यन्ते । तवासंख्याता वाहनभूता मृगास्तैरागच्छेत्यर्थः । किंच मद्यं मदनीयं तृप्तिजनकमन्धः सोमलक्षणमन्नं ते तव उप समीपे एव अयामि गमयामि । सोमं ते समर्पयामीत्यर्थः । हे देव दीप्यमान वायो, यस्य सोमस्य पूर्वपेयं प्रथमवषट्कारलक्षणं पूर्वपानं त्वं दधिषे धारयसि । दधातेर्लिटि रूपम् । एवं वायुं प्रार्थ्य सोममाह हे सोमरस, वायवे वायुदेवतार्थं त्वां गृह्णामीति शेषः ॥ ७ ॥

अष्टमी।
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ।
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनि॑: स॒जोषो॑भ्यां त्वा ।। ८ ।।
उ० द्वितीया पुरोरुक् । इन्द्रवायू । वायवी गायत्री । हे इन्द्रवायू, इमे अभिष्टुताः सोमाः अतः कारणात् उपप्रयोभिरागतम् । उपेत्ययमुपसर्ग आगतमित्यनेन संबध्यते । उपागतम् उपगच्छतम् । प्रयोभिः । प्रयःशब्दः 'इण् गतौ' इत्यस्य धातोः शतृप्रत्ययान्तस्य । 'इणो यण्' इति यणादेशः | भिस् । ततस्तकारस्य छान्दसः सकारः । ततो रुत्वादि । ततः प्रपूर्वस्य प्रयोभिरिति सिद्ध्यति । प्रयद्भिरश्वैः शीघ्रैरागच्छतम् । किंच । इन्दवो वामुशन्ति हि । हिशब्दो यस्मादर्थे । यस्मादिन्दवः सोमाः वां युवाम् उशन्ति । 'वश कान्तौ' कामयन्ते । यद्यस्मादिन्द्रवायू पिबतमिति । उपयामगृहीतोसि वायव इन्द्रवायुभ्यां च त्वा । गृह्णामीति शेषः। सादयति एष ते योनिः । एष पृथिवीलक्षणः ते तव योनिः स्थानम् । योनिशब्दो हि स्थानवचनः । सजोषाभ्यां सहप्रीतिभ्यां त्वां सादयामीति शेषः ॥ ८॥ .
म० 'अपगृह्य पुनरिन्द्रवायू इतीति' (का० ९ । ६ । ६)। एकवारमर्धमादाय पृथक्कृत्य पुनरैन्द्रवायवं गृह्णाति । ऐन्द्रवायवी गायत्री मधुच्छन्दोदृष्टा । उपयामेति यजुःसहितो मन्त्रः । हे इन्द्रवायू, युष्मदर्थमिमे सोमाः सुता अभिषुताः । प्रयः इत्यन्ननाम। प्रयोभिः एतैः सोमरसरूपैरन्नैर्निर्मितैरुप समीपे युवामागत