पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति श्रुतेरुपांशुग्रहः प्राणः । हे प्राणरूपोपांशुग्रह, त्वं स्वांकृतो भवसि स्वयं स्वेनैव कृतो भवसि । छान्दसो यलोपः । स्वयमुत्पन्नोऽसि । केभ्यः । विश्वेभ्यः सर्वेभ्यः इन्द्रियेभ्यः सकाशात दिव्येभ्यः दिवि भवा दिव्या देवास्तेभ्यश्च सकाशात् पार्थिवेभ्यः पृथिवीभवेभ्यो द्विपदचतुष्पदेभ्यः सकाशात्स्वयमुत्पन्न इत्यनुवर्तते । यस्त्वमेवमकृतकः स्वतन्त्रस्तं त्वां मनः प्रजापतिरष्टु व्याप्नोतु । 'अशूङ् व्याप्तौ' पदविकरणव्यत्ययः । 'प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुताम्' (४ । १ । १। २२) इति श्रुतेः । शोभनो भव उत्पत्तिर्यस्य तत्संबोधनं हे सुभव उत्तमजन्मन् ग्रह, सूर्याय सूर्यार्थं त्वा त्वां स्वाहाकारेण जुहोमि । यद्वास्य होममन्त्रस्यायमर्थः । हे प्राणरूप ग्रह, त्वं स्वांकृतोऽसि मया स्वीकृतोऽसि । किमर्थम् । दिव्येभ्यः देवजन्मनि स्थितेभ्यः पार्थिवेभ्यः मनुष्यजन्मनि स्थितेभ्यः सर्वेभ्य इन्द्रियेभ्यः इन्द्रियाणां हितायेत्यर्थः । मनश्च तेषामिन्द्रियाणामधीशं त्वामष्टु व्याप्नोतु । हे सुभव प्राणरूपोपांशुग्रह, तादृग्रूपं त्वां बहिःप्राणरूपाय सूर्याय स्वाहाकारेण जुहोमि । 'आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीत' इत्याथर्वणिकश्रुतेः सूर्यस्य बहिःप्राणत्वम् । स्वांकृतशब्देन प्राणरूपग्रहस्य स्वाधीनत्वं दिव्यपार्थिवशब्दाभ्यां च जन्मद्वयं विवक्षितमिति तित्तिरिणोक्तम् । 'स्वांकृतोऽसीत्याह प्राणमेव समकृत विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान् दधातीति' । 'प्रथमे परिधावुत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति' (का. ९ । ४ । ३८) । पश्चिमस्थे परिधौ सोमलिप्तमूर्ध्वाभिमुखं हस्तं कृत्वा प्रागभिमुखं यथा तथा मार्जनं कुर्यात् । दैवं यजुः । हे लेप, मरीचिपेभ्यः मरीचिपालकेभ्यो देवेभ्योऽर्थाय त्वा त्वां परिधौ मार्ज्मि इति शेषः । 'वास उरोबाहुषु श्लिष्टमᳪशुमभिचरन्जुहुयाद्देवाᳪशविति'(का० ९। ४ । ३९) । वस्त्रादिषु श्लिष्टो यः सोमांशुस्तमभिचारार्थं जुहुयात् । आभिचारिकं सोमांशुदेवतं यजुः । हे देव दीप्यमान हे अंशो सोमांशो, यस्मै वधाय त्वामीडे प्रार्थयामि । ईडिरध्येषणकर्मा । तत् वधकर्म सत्यमस्त्विति शेषः । उपरि प्रवते गच्छतीत्युपरिप्रुत् । प्रवतिर्गत्यर्थः । तेनोपरि आगतेन भङ्गेनामर्दनासाविति देवदत्तादिनामनिर्देशः । असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो भवतु । 'ञिफला विशरणे' । अस्य क्विबन्तस्यैतद्रूपम् । फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने फडित्यभिचारे प्रयुज्यते । 'प्राणाय त्वेति पात्रासादनम्' (का० ९ । ४ । ४१)। यस्मिन्प्रदेशे पूर्वमुपांशुपात्रं स्थापितं तत्रैव स्थापयेत् । हे उपांशुपात्र, प्राणदेवतासंतोषार्थं त्वाम् आसादयामीति शेषः । 'उपाᳪशुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति सᳪस्पृष्टमिति' ( का० ९ । ४ । ४२)। येनाश्मना सोमोऽभिषुतः स उपांशुसवनस्तं हस्तेन प्रमृज्योदगभिमुखग्रहसंलग्नं सादयेत् । हे उपांशुसवन, व्यानदेवताप्रीत्यर्थं त्वामासादयामि ॥३॥

चतुर्थी ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य राय॒ एषो॑ यजस्व ।। ४।।
उ० अन्तर्यामं गृह्णाति । उपयामगृहीतोसि । उपयमतीत्युपयामः । उपयामेन गृहीतः त्वमसि । 'इयं वा उपयाम इयं वा इदम्' इत्यादिश्रुतिः । अन्तर्यच्छ मघवन् हे मघवन्, अन्तर्मध्ये ग्रहपात्रे यच्छ निगृह्णीष्व । ततः पाहि गोपाय पात्रस्थं सोमम् । ततोऽनन्तरम् उरुष्य रायः उरुष्यतिर्गोपायनार्थः । 'पशवो वै रायः' इति श्रुतिः। गोपाय पशून् । इषो यजस्व इषोऽन्नानि तत्प्रभवत्वात्प्रजा लक्षणया इष उक्ताः । 'प्रजा वा इषः' इति श्रुतिः । यजस्व यायजूकाः कुरु । । अस्मिन्नर्थे श्रुत्या एतत्पदं व्याख्यातम् ॥ ४ ॥ ।
म० 'उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति' (का. ९ । ६ । १)। सूर्योदयानन्तरमन्तर्यामग्रहं गृह्णीयात् । उपयामयतीत्युपयामो ग्रहस्तेन गृह्यत इत्युपयामगृहीतः पचाद्यच् चित्त्वादन्तोदात्तः । 'यमोऽपरिवेषणे' इति परिवेषणादन्यत्र मित्वाभावाद्वृद्धिः । 'तत्पुरुषे तुल्यार्थ-' (पा० ६ । २ । २) इति पूर्वपदस्वरं बाधित्वा 'थाथघञ्-' (पा० ६ । २ । १४४ ) इति अजन्तस्यान्तोदात्तत्वम् । पुनस्तृतीयासमासे 'तत्पुरुषे तुल्यार्थ-' (पा० ६ । २।२) इत्यादिना तृतीयान्तस्य प्रकृतिस्वरत्वेन तदेव स्थितम् । हे सोमरस, त्वं तादृशोऽसि । हे मघवन् धनवन्निन्द्र, त्वं तादृशं रसमन्तर्ग्रहपात्रमध्ये यच्छ निगृह्णीष्व । । यद्वा शत्रुभ्योऽन्तर्धानं व्यवधानं यथा तथा नियमय । ततः सोमं पाहि पालय । तथा रायो धनानि उरुष्य रक्ष । उरुष्यती रक्षणकर्मा । यद्वा 'पशवो वै रायः' ( ४ । १।१५) इति श्रुतेः पशून्रक्ष । आ इषो यजस्व इषोऽन्नानि आयजस्व समन्ताद्देहि । यद्वान्नप्रभवत्वादिषो लक्षणया प्रजाः । 'प्रजा वा इषः' (४ । १ । २ । १५) इति श्रुतेः । ता यजस्व याजयस्व यायजूकाः कुरु । श्रुत्यैवं व्याख्यातत्वात् ॥ ४ ॥

पञ्चमी।
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् । स॒जूर्दे॒वेभि॒रव॑रै॒: परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ।। ५।।
उ० अन्तस्ते । अन्तर्यामं पुरोरुक् त्रिष्टुप् मघवद्देवत्या । यस्य तव प्राणरूपापन्नस्यान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि स्थापयामि । अन्तर्मध्ये च दधामि उरु विस्तीर्णमन्तरिक्षम् । स त्वं सजूः समानजोषणः सह प्रीयमाणः । देवेभिर्देवैः । 'अतो भिस ऐस्' 'बहुलं छन्दसि' इति भिस् । अवरैः परैश्च । अवरैः पृथिवीस्थानैः परैः द्युस्थानैः अन्त