पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमोऽध्यायः।
तत्र प्रथमा ।
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ अ॒ᳪशुभ्यां॒ गभ॑स्तिपूतः । दे॒वो दे॒वेभ्य॑: पवस्व॒ येषां॑ भा॒गोऽसि॑ ।। १।।
उ०. वाचस्पतये । उपांशुग्रहणस्य पुरोरुक् । अनुष्टुप् प्राणदेवत्या । गृह्णाति । वाचस्पतये पवस्व । 'प्राणो वै वाचस्पतिः' इति श्रुतिः । वाचस्पतये प्राणाय पवस्व । पवनं गमनम् देवतार्था प्रवृत्तिः । वृष्णो अᳪशुभ्यां गभस्तिपूतः। यस्त्वं वृष्णोर्वर्षितुः सोमस्यांशुभ्याम् अध्वर्योर्गभस्तिभ्यां पूतः। 'पाणी वै गभस्ती' इति श्रुतिः । द्वितीयं गृह्णाति । देवो देवेभ्यः पवस्व । देवः सन् देवेभ्योऽर्थाय पवस्व प्रवृत्तिं कुरु । न ह्यदेवो देवांस्तर्पयितुमलम् । केषां देवानाम् । येषां त्वं देवानां भागोऽसि ॥ १॥
म०. षष्ठेऽध्याये यूपसंस्कारादिसोमाभिषवपर्यन्ता मन्त्रा उक्ताः । सप्तमे ग्रहग्रहणमन्त्रा उच्यन्ते । 'उपाᳪशुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति' (का० ९ । ४ । २३) मन्त्रत्रयस्य प्रतीकोपादानात्तत्रैकैकेन मन्त्रेणोपांशुग्रहमेकैकवारं गृह्णीयात् । उपयामगृहीतोऽसीति मन्त्रत्रयस्यादौ योज्यम् । प्राणदेवत्या विराट् नववैराजत्रयोदशैर्नष्टरूपेति लक्षणान्नष्टरूपा विराट् प्रथमोऽष्टार्णस्तेनैकोना । पूर्वोत्तरार्धयोरुपांशुग्रहस्य प्रथमद्वितीयग्रहणे क्रमेण विनियोगः । हे सोम, त्वं वाचस्पतये प्राणाय पवस्व गच्छ । ‘पव गतौ' । 'प्राणो वै वाचस्पतिः' (४।१।१।९) इति श्रुतेः। यद्वा पतये पालकदेवार्थं वाचः वाचा । विभक्तिव्यत्ययः । मन्त्रेण वाचः संबन्धिना मन्त्रेण वा पवस्व शुद्धो भव । किंभूतस्त्वम् । वृष्णः वर्षितुस्तव संबन्धिभ्यामंशुभ्यां तौ हि तत्र क्षिप्येते । तथा गभस्तिपूतः 'पाणी वै गभस्ती' (४।१।१।९) इति श्रुतेरध्वर्योर्गभस्तिभ्यां पाणिभ्यां च पूतः । समासगतः पूतशब्दो विच्छिद्यांशुभ्यामित्यनेनापि योज्यः । द्वितीयं गृह्णाति । हे सोम, देवः सन् देवेभ्योऽर्थाय पवस्व प्रवृत्तिं कुरु । न ह्यदेवो देवांस्तर्पयितुमलम् । केभ्यो देवेभ्यः । येषां देवानां त्वं भागोऽसि तान्प्रति गच्छेत्यर्थः ॥ १॥

द्वितीया।
मधु॑मतीर्न॒ इष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्वन्तरि॑क्ष॒मन्वे॑मि॒ ।। २।।
उ० तृतीयं गृह्णाति । मधुमतीः । मधुरस्वादोपेताः नः अस्माकम् इषः अन्नानि कृधि कुरु । गृह्यमाणः अंशून् सोमे निदधाति । यत्ते सोम । यत् ते तव हे सोम । अदाभ्यं नाम । दभ्नोतिर्हिंसार्थः । अनुपहिंसितं नाम । किं तत् सोमेति । जागृवि जागरणशीलं च अनुपहतं मानुषैर्धर्मैः । तस्मै ते तव हे सोम, सोमाय स्वाहा । स्वाहा इत्युक्त्वा निष्क्रामति । उर्वन्तरिक्षमन्वेमि व्याख्यातम् ॥२॥
म० तृतीयं गृह्णाति । लिङ्गोक्तदेवतम् । हे सोम, त्वं नोऽस्माकमिषोऽन्नानि मधुमतीः मधुररसोपेताः कृधि कुरु । 'यत्त इत्यात्तान्सोमे निदधाति' (का० ९ । ४ । २८) इति स्वीकृतानंशून्सोमे स्थापयेत् । सौम्यम् । हे सोम, ते तव अदाभ्यमहिंस्यम् । दभ्नोतिर्हिंसार्थः । जागृवि जागरणशीलं यन्नामास्ति सोमेति हे सोम, तस्मै तन्नामवते तुभ्यं सोमाय स्वाहा दत्तमस्तु । 'स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणमिति' (का० ९ । ४ । ३४) 'स्वाहेत्यक्षरद्वयमुक्त्वा निष्क्रमेत' । उरु विस्तीर्णमन्तरिक्षमन्वेमि अनुगच्छामि ॥ २॥

तृतीया।
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒: पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑ᳪशो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तोऽसौ॒ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ।। ३।।
उ० जुहोति । स्वांकृतोऽसि स्वयं कृतोऽसि । स्वयं कृतोसीति प्राप्ते छन्दसि यकारलोपः । स्वयमुत्पन्नोसि । 'प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः' इति श्रुतिः । स्वयमुत्पन्नोऽसि विश्वेभ्य इन्द्रियेभ्यः सकाशात् । दिव्येभ्यः देवेभ्यः पार्थिवेभ्यः द्विपदचतुष्पदेभ्यः सकाशात् स्वयमुत्पन्नोऽसि इत्यनुवर्तते । यस्त्वमेवं स्वतन्त्रोऽकृतकः तं मनः त्वाष्टु । मनः प्रजापतिः त्वां व्याप्नोतु । 'प्रजापतिर्वै मनः । प्रजापतिष्ट्वाश्नुताम्' इति श्रुतिः । स्वाहा त्वा सुभव सूर्याय । स्वाहाकारेण त्वां जुहोमीति शेषः । हे शोभन, भव ग्रह । सूर्याय प्रागुपमार्ष्टि मध्यमे परिधौ । देवेभ्यः त्वा । देवेभ्यो मरीचिपेभ्योऽर्थाय त्वामुपमार्ज्मीति शेषः । बाह्वादिश्लिष्टमंशुमभिचारं जुहुयात् । देवोᳪशो। हे देव सोमांशो, यस्मै वधाय त्वाम् ईडे । ईडिरध्येषणाकर्मा । प्रार्थयामि । तत्सत्यमस्त्विति शेषः । उपरिप्लुता प्लवतिर्गत्यर्थः। उपर्युपरिगतेन भङ्गेन आमर्दनेन हतो निहतः। असाविति नामादेशः । फट् । 'ञिफला विशरणे' । क्विबन्तस्यैतद्रूपम् डलयोरेकत्वात् । विशीर्यतु फटिति अभिचारे स्वाहाकारस्य स्थाने प्रयुज्यते । पात्रासादनम् । प्राणाय त्वा । सादयामीति शेषः । उपांशुसवनं सादयति । व्यानाय त्वा ॥३॥
म० स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टीति' (का० ९।४।३७) उपांशुग्रहं हुत्वा पात्रमार्जनं कुर्यात् । ग्रहदैवतम् । 'प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः' (४१।१।२२)
१ उपरिप्रुता इति पाठः.