पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हे वायो, त्वं स्तोकानां वपासंबन्धिनां विप्रुषां वेः कर्मणि षष्ठी । स्तोकान्विद्धि जानीहि ज्ञात्वा च पिबेत्यर्थः । ते ह्यत्र तिष्ठन्ति । 'विद ज्ञाने' इत्यस्य लुङि मध्यमैकवचने 'दश्च' (पा० ८।२।७५) इति दस्य रुत्वे कृते रूपम् । अडभाव आर्षः। वेः विद्धि । 'वपाᳪस्रुवेणाभिघारयत्यग्निराज्यस्येति' (का. ६i६।१७) । अग्निराहवनीयः आज्यस्य वेतु आज्यं पिबतु स्वाहा सुहुतमस्तु । 'हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृते इति' (का० ६। ६ । २८) वपां हुत्वोत्तरत उपविश्य वपाश्रपण्यावाहवनीय एव क्षिपेत् । तत्प्रकारः विशाखां द्विशृङ्गां प्रागग्रां क्षिपेदितरामेकशृङ्गां प्रत्यगग्रामिति सूत्रार्थः । स्वाहाकारेणाहुतिभावमुपगते सत्यौ युवां मारुतं गच्छतं वायुं प्राप्नुतां । वायुर्हि प्रतिष्ठा यज्ञस्य । किंभूतम् । ऊर्ध्वनभसमूर्ध्वं नभ आकाशो यस्य स ऊर्ध्वनभाः तं नभोमध्ये वर्तमानमित्यर्थः ॥ १६ ॥

सप्तदशी।
इ॒दमा॑प॒: प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत् । यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॑भी॒रुण॑म् ।
आपो॑ मा॒ तस्मा॒देन॑स॒: पव॑मानश्च मुञ्चतु ।। १७ ।।
उ० चात्वाले मार्जयन्ते इदमापः । त्र्यवसाना महापरिङ्क्तिदेवत्या पावमानश्चान्त्यः पादः । हे आपः, इदं पशुसंज्ञपननिमित्तं पापं प्रवहत अपनयत । किंच अवद्यं च अवदनीयं च यत् अभिशापादि मलं च यत् यच्च मलं शरीरसंलग्नं प्रसिद्धं तच्च प्रवहत । यच्चाभिदुद्रोहानृतम् । 'दुह जिघांसायाम्' । यदपि चाभिद्रुग्धवानस्मि असत्यमुच्चार्य । यच्च शेपे अभीरुणम् । आक्रोशेन यच्च शपितवानस्मि अभीरुणमनपराधिनम् । अनपराधी हि न बिभेति । यद्वा अभिलुनाति छिनत्ति कर्माणि यदुच्चरितं सत् तदभीरुणम् । आपः मां तस्मात् एनसः पापात् पवमानश्च मुञ्चतु । पवमानः सोमो वायुर्वा मां मुञ्चतु पृथक्करोतु ॥ १७ ॥
म० 'चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहतेति' (का० ६ । ६ । २९)। सर्वे ऋविजश्चात्वालसमीपेऽद्भिरात्मानमभ्युक्षन्तीति सूत्रार्थः । अब्देवत्या त्र्यवसाना महापङ्क्तिः पावमानश्चान्त्यः पादः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । हे आपः, इदं पशुसंज्ञपननिमित्तं पापं प्रवहत । किंच यच्चावद्यमवदनीयमभिशापादि यच्च मलं शरीरलग्नं प्रसिद्धं तच्च प्रवहत अपनयत। किंच यदहमनृतमसत्यमुक्त्वाभिदुद्रोह द्रुग्धवानस्मि 'द्रुह जिघांसायाम्' यच्चाहमभीरुणं बिभेतीति भीरुर्नभीरुरभीरुस्तमभीरुणमनपराधिनमनपराधिनमपराधी हि बिभेति एवंविधं शेपे शपितवानस्मि । अनपराधिनं प्रति यन्मयाभिशापो दत्तः आपः तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्कुर्वन्तु पवमानश्च सोमो वायुर्वा तस्मात्पापान्मां मुञ्चतु ॥ १७ ॥

अष्टादशी।
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒
सम॑रिण॒न्वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रᳪह्या॑ ऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेष॑: ।। १८ ।।
उ० पशुहृदयमभिधारयति । सं ते मनः । संगच्छतां ते तव मनः मनसा । अनेन पृषदाज्येनाभिघारितम् । संगच्छतां च प्राणः प्राणेन पृषदाज्येनाभिघारितस्य पशोः प्राणः । वसां गृह्णाति रेडसि । रिषतिर्हिंसार्थः । या त्वं रिष्टासि हिंसितेवाभासि अल्पत्वात् । अल्पत्वं च पूष्णः श्रुतिः प्रतिपादयति । रेडसीति लेलयेव हियूः । लेलयशब्दश्चाल्पवचनः अग्निष्ट्वा श्रीणातु । यां च त्वामग्निः श्रपयन् श्रीणाति भूयसीकरोति । आपः त्वा समरिणन् । यां च त्वामापः समरिणन्समभरन् । रिणातिर्बिभर्त्यर्थे । आपो हि पच्यमानेभ्यः पश्वङ्गेभ्यः यं रसमाददते सा वसेत्युच्यते । तां त्वां वातस्य ध्राज्यै । गृह्णामीति शेषः । ध्राजिर्गतिः । वातस्यान्तरिक्षेण गतिर्भवत्विति । पूष्णो रᳪह्यै । पूषा आदित्यः । रंहतिर्गत्यर्थः । आदित्यस्य द्युलोकेन गतिर्भवत्विति गृह्णामि । ऊष्मणो व्यथिषत् । ऊष्मा अन्तरिक्षम् । तद्धि ब्रह्मण ऊष्मेव । अन्तरिक्षार्धं च वसा गृह्यते । होममन्त्रे अन्तरिक्षस्य हविरसीति लिङ्गात् । ऊष्मणोऽन्तरिक्षस्य या भोक्त्री शक्तिस्ता व्यथिषत् व्यथतु । इयं वसान्तरिक्षस्य तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे च तृप्ते तत्प्रभवत्वाद्वायुसूर्ययोरपि स्वकर्मक्षमता भवति । तस्मादुच्यते वातस्य त्वा ध्राज्या इत्यादि । प्रयौति । प्रयुतं द्वेषः । 'द्विष अप्रीतौ' । निवृत्तं पृथग्भूतं । वसाया द्वेषः ॥ १८॥
म०. 'सं ते मन इति हृदयमभिघार्य सर्वमिति' (का० ६।८।६) जुहूस्थेन पृषदाज्येन पूर्वं हृदयमभिघार्य तूष्णीं सर्वं पशुमभिघारयेदिति सूत्रार्थः । हृदयदेवत्यम् । हे हृदय, ते तव पशोर्मनः देवानां मनसा सङ्गच्छताम् पृषदाज्येनाभिघारितं सत् । ते तव प्राणोऽपि देवानां प्राणेन सङ्गच्छतां सङ्गतोऽस्तु अभिघारितः । 'रेडसीति वसां गृहीत्वेति' (का० ६। ८ । १२) । मांसपाकभाण्डे स्थितः स्नेहात्मको द्रवविशेषो वसा तां गृह्णीयादिति सूत्रार्थः । वसादेवत्यम् । हे वसे । त्वं रेट् असि । रिषतिर्हिंसार्थः कर्मणि विच् । रिष्टासि हिंसितेवाभासि अल्पत्वात् । पूष्णोऽल्पत्वं श्रुत्योक्तम् । 'रेडसीति लेलयेव हि यूरिति' (३ । ८ । ३ । २०) लेलयाशब्दश्चाल्पवाचकः । अग्निः त्वा त्वां श्रीणातु 'श्री पाके' क्र्यादिः । श्रपयन् भूयसीं करोति । यद्वाग्निराहवनीयस्त्वां श्रीणातु स्वीकरोतु । किंच आपः त्वा त्वां समरिणन् ‘रो बधे गतौ' क्र्यादिः । अत्र | रिणातिर्बिभर्त्यर्थे । समभरन्नपुष्णन् । यद्वा आपः त्वां समरिणन् सम्यक् प्राप्नुवन्तु । तव शोषो मा भूदित्यर्थः । आपो हि