पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शमितेत्यर्थः । तत् आप्यायताम् निष्ट्यायताम् । 'ष्ट्यै संघाते' । संहतं भवतु संहननं भवतु । तत्ते शुध्यतु । तच्च तव शुध्यतु । जघनेन पशुमुदकं निनयतः । शमहोभ्यः शं सुखम् अहरादिभ्यः कालविशेषेभ्यः अस्माकमस्त्विति शेषः। पशोर्वा अहरादिभ्यः सुखं भवतु । अग्रेण नाभिं तृणं निदधाति । ओषधे त्रायस्व व्याख्यातः । प्रज्ञातयाऽभिनिदधाति । स्वधिते मैनम् । व्याख्यातः ॥ १५॥
म० शेषेण यजमानस्य शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिर इति' (का० ६ । ६ । ४-५)। पान्नेजनशेषेण यजमानः चकारादध्वर्युश्च पशोः शिरआद्यङ्गान्यनुषिञ्चतः । तत्र शिरसो मन्त्रमाह मनस्त इति शिर इति सूत्रार्थः । पशुदेवतानि हे पशो, ते तव मनः आप्यायतां शाम्यतु । विलिङ्गत्वादस्य विनियोग उक्तः । वाक्त आप्यायतामित्यादिमन्त्राणां लिङ्गादेव विनियोगः सिद्ध इति सूत्रकृता नोक्तः । वाक्त इति मुखं प्राणस्त इति नासिके चक्षुस्त इति चक्षुषी श्रोत्रं त इति कर्णौ एतानि मुखादीनि तव शाम्यन्तु । 'यत्ते क्रूरमित्यङ्गानीति' (का० ६।६।६)। सर्वाङ्गान्यवशिष्टान्यनुषिञ्चत इत्यर्थः । हे पशो, यत्ते तव क्रूरं बन्धननिरोधादिकं क्रूरमस्माभिः कृतं यच्च आस्थितं छेदादिकं कर्तुमुपस्थितं शमित्रा तत्सर्वं ते तवाप्यायतां शाम्यतु । किंच तत्सर्वं निष्ट्यायतां संहतं भवतु। 'ष्ठ्यै संघाते' अनुन्नं भवत्वित्यर्थः । तत्सर्वं तव शुध्यतु शुद्धं भवतु। 'शमहोभ्य इति पश्चात्पशोर्निषिञ्चत इति' (का० ६।६।७) पशोर्जघनदेशे पान्नेजनशेषमुभावपि निषिञ्चतामिति सूत्रार्थः । अहोभ्यः दिवसादिकालविशेषेभ्यः शं सुखमस्माकं पशोर्वा भूयादिति शेषः । 'उत्तानं पशुं कृत्वाग्रेण नाभिं तृणं निदधात्योषध इति' (का० ६ । ६ । ८)। नामेरग्रेऽङ्गुलचतुष्टये तृणं निदध्यादिति सूत्रार्थः । मन्त्रो व्याख्यातः (अ० ४ क. १)। 'स्वधित इति प्रज्ञातयाभिनिधाय छित्त्वेति' । (का० ६।६।९)। प्रज्ञातया प्रस्तुतया कृतचिह्नया घृताक्तयासिधारयाभिनिधाय तृणोपर्यसिधारां निधाय तूष्णीं सतृणामुदरत्वचं छिन्द्यादिति सूत्रार्थः । एनं पशुं स्वधिते मा हिंसीः ॥ १५॥

षोडशी।
रक्ष॑सां भा॒गो॒ऽसि॒ निर॑स्त॒ᳪ रक्ष॑ इ॒दम॒हᳪ रक्षो॒ऽभिति॑ष्ठामी॒दम॒हᳪ रक्षोऽव॑बाध इ॒दम॒हᳪ रक्षो॑ऽध॒मं तमो॑ नयामि ।
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां॒ वायो॒ वेस्तो॒काना॑मग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ।। १६ ।।
उ० रक्षसां भागः । व्याख्यातम् । अपास्यति । निरस्तᳪ रक्षः । 'असु क्षेपणे' निक्षिप्तं रक्षः । यजमानोऽभितिष्ठति । इदमहम् । यदेतत्तृणमभितिष्ठामि तदिदमहं रक्षः अभितिष्ठामि । न केवलमभितिष्ठामि किंतर्हि, इदमहं रक्षः अवा चीनं बाधे । एवमेव इदमहं रक्षः अधमम् अध्यानलक्षणं निकृष्टं तमो नयामि । वपाश्रपण्यावाच्छादयति वपया । घृतेन द्यावापृथिवी । वपाश्रपण्यौ द्यावापृथिव्यावध्यास्ते उच्येते। हे द्यावापृथिव्यौ, युवां घृतेन उदकेन आत्मानं प्रोर्णुवाथाम् । 'ऊर्णुञ् आच्छादने' । आच्छादयेथां परस्परम् । आहुतिपरिमाणाभिप्रायमेतत् । तथाचोक्तम् । 'ते वा एते आहुती हुते उत्क्रामतः' इत्युपक्रम्य 'आहुतिपरिमाणमिदं जगदिति' । तृणाग्रमध्वर्युराहवनीये प्रास्यति । वायो वेः तोकानाम् । हे वायो, वेः । 'विद ज्ञाने' अस्य 'दश्च' इति रुत्वे कृते रूपम् । विद्धि अवगतार्थो भव । स्तोकानां विप्रुषां वपासंबन्धिनाम् । ते ह्यत्र प्रतिष्ठन्ति । वपामभिघारयति । अग्निराज्यस्य । आहवनीयोऽग्निः आज्यस्य घृतस्य वेतु पिबतु स्वाहा सुहुतमेतद्धविर्भवतु । वपाश्रपण्यावनुप्रास्यति । स्वाहाकृते । हे वपाश्रपण्यौ युवां स्वाहाकृते सत्यौ आहुतिभावमुपगते सत्यौ ऊर्ध्वनभसम् ऊर्ध्वं नभ आकाशो यस्य स ऊर्ध्वनभाः तमूर्ध्वनभसं आकाशं मारुतं वायुं वा गच्छतम् प्राप्नुतम् । वायुर्हि प्रतिष्ठा यज्ञस्य ॥ १६ ॥
म० 'अग्रᳪसव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति | लोहितेन रक्षसामिति' (का० ६ । ६ । ९) । यत्तृणं नाभ्यग्रे | स्थापितं तस्य छिन्नस्य तृणस्याग्रं वामहस्तेन धृत्वा दक्षिणहस्तेन मूलं धृत्वा तद्विगुणीकृत्याग्रे मूले च पशुच्छेदननिष्पन्नेन रक्तेनाञ्ज्यादिति सूत्रार्थः । रक्षोदेवत्यम् । हे लोहिताक्त तृण, त्वं रक्षसां भागोऽसि । 'निरस्तमित्यपास्यतीति' (का० ६।६।१०)। लोहिताक्तं तृणमुत्करे त्यजेदिति सूत्रार्थः । यद्यज्ञविघातकं रक्षोऽस्ति तन्निरस्तं परित्यक्तम् । 'इदमहमित्यभितिष्ठति यजमान इति' (का० ६ । ६ । ११) । उत्करे क्षिप्तं रुधिराक्तं तृणं यजमानोऽभितिष्ठतीति सूत्रार्थः । यत्तृणरूपं रक्षोऽध्वर्युणा निरस्तं तदिदं रक्षोऽहं यजमानोऽभितिष्ठामि अभितः पादेनोत्क्रम्य तिष्ठामि । न केवलमभितिष्ठामि किंतु अहमिदं रक्षोऽवबाधे अवाचीनं यथा भवति तथा नाशयामि । किंच अहमिदं रक्षोऽधममत्यन्तनिकृष्टं तमो नरकं नयामि प्रापयामि । 'वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णोति घृतेन द्यावापृथिवी इति' ( का० ६ । ६ । १२) । पशूदराद्वपां निष्काश्य तया वपया वपाश्रपण्यावाच्छादयेदिति सूत्रार्थः । वपाश्रपण्योर्द्यावापृथिव्यावध्यस्ते उच्यते । हे द्यावापृथिवी, युवां घृतेनोदकेनात्मानं प्रोर्णुवाथामाच्छादयेथां परस्परम् । 'ऊर्णुञ् आच्छादने' । आहुतिपरिणामाभिप्रायमेतत् । तथा चोक्तं ते वा एते आहुती हुते उत्क्रामत इत्युपक्रम्याहुतिपरिणाममिदं जगदिति । तृणाग्रं चाध्वर्युर्वायो वेरिति' ( ६ । ६ । १५)। वामहस्तधृतं तृणाग्रमाहवनीये क्षिपेदिति सूत्रार्थः । वायुदेवत्यम्।