पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रुच्यते । मा सर्पाकारा भूयाः। मा च पृदाकुर्भूयाः। पृदाकुरजगरः । पत्नीं पशुंप्रति नयन्वाचयति । नमस्त आतान । पत्नी नमस्कारादिराशीर्भिर्यज्ञं पूजयति । नमस्तव हे आतान यज्ञ । 'यज्ञो वा आतानो यज्ञं हि तन्यते' इति श्रुतिः । अनर्वा प्रेहि। अनर्वा अपृच्यतोऽन्यस्मिन् अनाश्रितोऽन्यस्मिन् प्र इहि प्रेहि प्रगच्छ आसमाप्तेः। घृतस्य कुल्या उप । कुल्या नद्यः घृतनदीरुपतिष्ठमानाः प्रेहि । बह्वत्र घृतमित्यभिप्रायः । ऋतस्य पथ्या अनु । ऋतस्य यज्ञस्य पथ्याः पथिभवाः पथ्याः घृतकुल्याः। सन्नाज्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । अनु प्रगच्छ ॥ १२ ॥
म० 'वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भूरिति' (का० ६ । ५ । २६) वपा श्रप्यते याभ्यां ते वपाश्रपण्यौ काष्ठविशेषौ ताभ्यां कृत्वा नियोजनीं पशुबन्धनरज्जुं द्विगुणां चात्वाले क्षिपेदिति सूत्रार्थः । रज्जुदेवत्यम् । हे रज्जो, त्वमहिः सर्पाकारा मा भूः मा भूयाः । पृदाकुः अजगराकारापि मा भूः । 'पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति' (का. ६।६।१)। पादौ निज्येते क्षाल्येते येन स पान्नेजनः पादनेजनार्थ उदककलशः । पादग्रहणमन्यावयवोपलक्षणम् । पान्नेजनो मुखाद्यवयवशोधनार्थो जलकलशो हस्ते यस्याः सा पान्नेजनहस्ता तां पत्नीं नयन् गार्हपत्यसमीपात्पशुशोधनाय नयन्सन् प्रतिप्रस्थातामुं मन्त्रं तां वाचयेदिति सूत्रार्थः । यज्ञदेवत्यम् । आ समन्तात्तन्यते विस्तार्यते इत्यातानो यज्ञः । 'यज्ञो वा आतानो यज्ञᳪहि तन्वते' (३।८।२।२) इति श्रुतेः । हे आतान यज्ञ, ते तुभ्यं नमः । त्वमनर्वा शत्रुरहितः सन् प्रेहि समाप्तिपर्यन्तं प्रकर्षेण गच्छ । इयर्ति वधार्थमित्यर्वा नास्त्यर्वा यस्यासावनर्वा । 'अनर्वा प्रेहीत्यसपत्नेन प्रेहि' इति श्रुतेः । 'अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै' इति तित्तिरिवाक्यात् । किंच ऋतस्य यज्ञस्य पथ्याः पयि भवाः घृतस्य कुल्याः घृतनदीः अनुलक्ष्य उप प्रेहि गच्छ । सान्नाय्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । अत्र यज्ञे बहु घृतमाहुतमित्यभिप्रायः ॥ १२ ॥

त्रयोदशी।
देवी॑रापः शु॒द्धा वो॑ढ्व॒ᳪ सुप॑रिविष्टा दे॒वेषु॒ सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ।। १३।।
उ० एवं यज्ञं स्तुत्वाथेदानीमपः प्राह । हे देव्यः आपः, शुद्धाः सत्यः वोढ्वं वहत यज्ञम् । सुपरिविष्टाः साधु सर्वतो निविष्टाः पान्नेजनीपात्रे देवेषु पशुं प्रापयतेति संबन्धः । किंच वयं सुपरिविष्टाः देवेष्वितीहाप्यनुवर्तते । देवेषु मध्येऽवस्थिताः तैरेव सुपरिविष्टा देवैः तेषामेव देवानां मध्यतः परिवेष्टारो भूयास्म वयमित्याशीः ॥ १३ ॥
म० एवं यज्ञं स्तुत्वेदानीमापः स्तूयन्ते । अर्धमब्देवत्यमर्धमाशीर्देवत्यम् । हे आपो देव्यः, यूयं देवेषु वोढ़्वं पशुमिति | शेषः । एनं पशुं देवान्प्रति वहत प्रापयत । 'वह प्रापणे' अस्य लुङि तङि मध्यमबहुवचने अडभावे रूपम् । किंभूता यूयम् । शुद्धाः स्वभावतः तथा सुपरिविष्टाः साधु परितः सर्वतो निविष्टाः पान्नेजनीपात्रे । किंच वयमपि सुपरिविष्टाः देवेष्विति पदमिहाप्यनुवर्तते । वयमपि देवेषु मध्येऽवस्थितास्तैरेव देवैः सुपरिविष्टाः तर्पिताः संतस्तेषामेव देवानां परिवेष्टारः परिवेषणकर्तारो भूयास्मेत्याशीः ॥ १३ ॥

चतुर्दशी ।
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि॒ नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि ।। १४।।
उ० पशोः प्राणान् शुन्धयति पत्नी यथालिङ्गम् । वाचं ते शुन्धामि वाचं तव शोधयामि उदकेन उन्दनेन । एवं सर्वत्र व्याख्येयम् । मेढ्रशब्देन शिश्नमुच्यते । पायुशब्देन हदनप्रदेशः । चरित्राः पादाः। सुपरिचरन्ति गच्छन्त्येभिरिति चरित्राः । चरित्रशब्देन पादा उच्यन्ते ॥ १४ ॥
म० 'पशोः प्राणाञ्छुन्धति पत्नी मुखं नासिके चक्षुषी कर्णौ नाभिं मेढ्रं पायुं पादान्सᳪहृत्य वाचं ते शुन्धामीति प्रतिमन्त्रमिति' (का० ६ । ६ । २-३)। पत्नी पशुसमीप उपविश्य मृतस्य पशोः प्राणान्मुखादीन्यष्टौ प्राणायतनानि प्रतिमन्त्रं शुन्धति शोधयति अद्भिः स्पृशतीति सूत्रार्थः । पशुदेवत्यानि । हे पशो, अहं ते तव वाचं वागिन्द्रियं शुन्धामि | शोधयामि । एवमग्रेऽपि प्राणं प्राणवायुं प्राणेन्द्रियं चक्षुरिन्द्रियं श्रोत्रेन्द्रियं नाभिं नाभिच्छिद्रं मेढ्रं लिङ्गम् पायुं गुदम् चरन्ति गच्छन्त्येभिरिति चरित्राः पादाः एवं त्वदीयानि सर्वेन्द्रियाणि शुन्धामि ॥ १४ ॥

पञ्चदशी।
मन॑स्त॒ आ प्या॑यतां॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्या॑यतां॒ᳪ श्रोत्रं॑ त॒ आ प्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आ प्या॑यतां॒ निष्ट्यायतां॒ तत्ते॑ शुध्यतु शमहो॑भ्यः । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ।। १५ ।।
उ०अध्वर्युयजमानौ पशुमाप्याययतः। मनस्ते मनः ते तव आप्यायतां हे पशो । एवं वागादीन्यपि व्याख्येयान्यङ्गानि । यत्ते क्रूरम् । यत् तव हे पशो, क्रूरं विकृतमशान्तं वा । यच्चावयवरूपमास्थितम् अध्यवसितम् शमित्रा यत्र स्थितः