पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्वमसि हे पशो । अधस्ताद् प्रोक्षति । आपो देवीः । आपो देव्यः स्वदन्तु आस्वादयन्तु उक्षयन्त्वेनं पशुम् । को गुण इति चेत् । स्वात्तंचित्सद्देवहविः । आस्वादितं हि सत् शोभनं देवानां हविः पशुलक्षणं भूयात् । पशुं समनक्ति । सं ते प्राणः । संगच्छतां ते प्राणः वातेन हे पशो, समङ्गानि यजत्रैः । संगच्छतां हे पशो, तवाङ्गानि यजत्रैः यागैः। संयज्ञपतिराशिषा संगच्छतां यज्ञपतिर्यजमानः आशिषा यज्ञफलेन स्वरुशाखाभ्याम् ॥ १० ॥
म० 'अपां पेरुरित्यास्य उपगृह्णातीति' (का० ६।३।३१) पशोर्मुखे प्रोक्षणीर्धारयेदिति सूत्रार्थः । पशुदैवतम् । हे पशो, त्वमपां जलानां पेरुः पानशीलोऽसि । पिबतीति पेरुः औणादिक एरुप्रत्ययः । उदकपानशीलो भवसि तत इदं पिबेत्यर्थः । 'आपो देवीरित्यधस्तादुपोक्षतीति' (का० ६ । ३ । ३२) पशोरधोभागे हृदि प्रोक्षेदिति सूत्रार्थः । हे पशो, आपोदेवीः अब्रूपा देव्यः स्वदन्तु त्वामास्वादयन्तु भक्षयन्तु । यद्वा आपोदेव्यः स्वदन्तु पशुं भक्षयन्तु । को गुण इति चेत् । स्वात्तं चित् । चिदित्यव्ययं हेरर्थे । हि यतो देवहविः देवानां हविः पशुलक्षणं स्वात्तमास्वादितं सत् शोभनं देवयोग्यं भूयादिति शेषः । अद्भ्यस्त्वेत्यादिमन्त्रत्रयेणोपरिष्टान्मुखेऽधोभागे पशोः प्रोक्षणेन सर्वं मेध्यं करोतीति तित्तिरिणा प्रतिपादितम् । तदाह 'उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वमेवैनं मेध्यं करोतीति' । 'उत्तरमाघारमाघार्य पशुं पूर्वᳪसमनक्ति ललाटाᳪसश्रोणिषु सं त इति प्रतिमन्त्रमिति' (का० ६।४ । २) उत्तराघारहोमानन्तरं ध्रुवासमञ्जनादर्वागेव भाले अंसयोः श्रोण्योश्च जुह्वैव पशुं समनक्ति सं त इति त्रिभिः प्रतिमन्त्रमिति सूत्रार्थः । पशुदैवतयजूंषि । ललाटाञ्जनमन्त्रः - हे पशो, ते तव प्राणो बाह्येन वातेन संगच्छताम् । अथांसयोर्मन्त्रावृत्तिः अङ्गानि अंसादीनि यजत्रैः यागैः संगच्छन्ताम् । इज्यन्त इति यजत्राः । अथ श्रोण्योः यज्ञपतिर्यजमान आशिषा यज्ञफलेन संगच्छताम् ॥ १० ॥

एकादशी।
घृ॒तेना॒क्तौ प॒शूँᳪस्त्रा॑येथा॒ᳪ रेव॑ति॒ यज॑माने प्रि॒यं धा आ वि॑श । उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॒ भव ।
वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धा॒: स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒: स्वाहा॑ ।। ११ ।।
उ० पशोर्ललाटमुपस्पृशति घृतेन । स्वरुशासावुच्येते । घृतेनाक्तौ म्रक्षितौ भवन्तौ युवां पशून् । पूजनार्थं बहुवचनम् । पशूंस्त्रायेथां पालयेथाम् । यजमानं वाचयति । रेवति । वाग्वै रेवती। हे वाक् रेवति धनवति । यजमाने प्रियं धा आविश । अस्मिन् यजमाने प्रियमभिप्रेतं धाः धेहि आविश च यजमानम् । उरोर्महतोऽन्तरिक्षाच्च गोपायेति शेषः । सजूर्देवेन वातेन । समानप्रीतिः देवेन वातेन भूत्वा । किंच अस्य पशुलक्षणस्य हविषः त्मना यज आत्मना यज । 'मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । समस्य तन्वा भव । संभव चास्य पशोः तन्वा शरीरेण । एतदुक्तं भवति । यजमानरूपेण पशुरूपेण वा त्मना भूत्वात्मनैव यज । हे रेवति, पश्चाच्च तृणमुपास्यति । वर्षो वर्षीयसि तृणमुच्यते । हे वर्षों वर्षप्रभव । अथवा विस्तीर्ण । वर्षीयसि विस्तीर्णतरे यज्ञे । यज्ञपतिं यजमानं धाः धेहि। जुहोति । स्वाहा देवेभ्यः । जुहोति देवेभ्यः स्वाहा । द्वे यजुषी ॥११॥
म० 'स्वरुमादायांक्त्वोभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाक्ताविति' (का. ६ । ४ । १२)। विशसित्रा दत्तं शासं गृहीत्वा स्वयमेव यूपात् स्वरुमादाय तावसिस्वरू जुह्वग्रे घृतेनांक्वा ताभ्यामसिस्वरुभ्यां पशोर्ललाटं स्पृशेदिति सूत्रार्थः । स्वरुशासदैवतम् । हे स्वरुशासौ, युवां घृतेनाक्तौ सन्तौ पशून् । बहुवचनं पूजार्थम् । एतं पशुं त्रायेयां पालयेथाम् । 'रेवति यजमान इति वाचयतीति' (का० ६।५। ११)। यजमानं वाचयेदित्यर्थः । वाग्देवतम् 'वाग्वै रेवती' इति श्रुतेः (३। ८।१।१२) हे रेवति धनवति वाग्देवते, यजमानेऽस्मिन् प्रियमभिप्रेतं धाः धेहि । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । आविश ज्ञानप्रदानेन यजमानं प्रविश । किंच हे रेवति, वातेन देवेन सजूः समानप्रीतिर्भूत्वा उरोर्विस्तीर्णादन्तरिक्षाद्यजमानं गोपायेति शेषः । किंचास्य पशुलक्षणस्य हविषा त्मना आत्मना यज । 'मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ । १४१) इति आकारलोपः । किंचास्य पशोस्तन्वा शरीरेण संभव एकीभव । हे रेवति, यजमानरूपेण पशुरूपेण चात्मना भूत्वा त्मना च यजेति तात्पर्यार्थः । ‘पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति' (का० ६ । ५। १५)। शामित्रस्य पश्चात्प्रागग्रं तृणमुपास्यति हस्तस्थतृणद्वयमध्ये एकं क्षिपति विशसनीयस्य पशोर्भूमिस्पर्शपरिहारार्थमिति सूत्रार्थः । तृणदेवतम् । हे वर्षो, वर्षादुत्पन्नं वर्षुः तत्संबोधनं वर्षो वर्षप्रसव हे तृण, यद्वा वर्षो विस्तीर्ण, वर्षीयसि विस्तीर्णतरे यज्ञे यज्ञपतिं यजमानं धाः धेहि । 'देवेभ्यः स्वाहेति जुहोतीति' (का० ६ । ५ । २४) मन्त्रयोरर्थैक्येऽपि पाठभेदतात्पर्यं तित्तिरिराह । 'पुरस्तात्स्वाहाकृतयोऽन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये स्वाहा देवेभ्यो देवेभ्यः स्वाहेति' ॥११॥

द्वादशी।
माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ अनु॑ ।। १२ ।।
उ०. नियोजनीं चात्वाले प्रास्यति । माहिर्भूः । रज्जु-