पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यद्वा उप समीपेऽवस्थितोऽवति रक्षतीत्युपावीः पशोर्द्वितीयः सखा त्वमसीत्यर्थः । तेन पशुमुपस्पृशत्युपदेवानिति' (का. ६।३ । २०)। गृहीतेन तृणेन पुरस्तात्प्रत्यञ्चं स्थितं पशुं स्पृशेदिति सूत्रार्थः । दैवीर्विशः पशवो देवानग्नीषोमादीनुप प्रागुः उपगच्छन्तु । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतेः । 'इण् गतौ' इत्यस्मात् 'छन्दसि लुङ्लङ्लिटः' (पा० ३। ४ । ६) इति । कालमात्रे लुङ् । 'इणो गा लुङि' (पा० २। ४ । ४५) इति गादेशः । किंभूतान्देवान् । उशिजो मेधाविनः । यद्वा हवींषि कामयमानान् वहन्तीति वह्नयः अतिवह्नयो वह्नितमास्तान् । यजमानं स्वर्गं प्रति प्रापयतां देवानां मध्ये श्रेष्ठतमानित्यर्थः । एवं पशून्प्रार्थ्य त्वष्टारमाह । हे देव त्वष्टः, त्वं वसु पशुलक्षणं धनं रम रमय । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकसंज्ञत्वाण्णिचो लोपः। एवं त्वष्टारमुक्त्वा पुनः पशुमाह । हे पशो, ते तव हव्या हवींषि स्वदन्ताम् । 'स्वद स्वाद आस्वादने । स्वादूनि भवन्तु । यद्वा हवींषि स्वदन्तामास्वादयन्तु देवा इति शेषः । पूर्ववण्णिचो लोपः ॥ ७ ॥

अष्टमी।
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः ।। ८ ।।
उ० रेवती रमध्वम् । लिङ्गव्यत्ययः। हे रेवन्तो धनवन्तः। पशवः, रता भवत । त्वमपि बृहस्पते धारय निश्चलीकुरु वसूनि पशुलक्षणानि । पशु बध्नाति । ऋतस्य त्वा । ऋतस्य यज्ञस्य पाशेन त्वा त्वां हे देवहविः पशो, पाशेन प्रतिमुञ्चामि । प्रतिपूर्वो मुञ्चिर्बन्धने वर्तते । बध्नामि । एवं पशुं संबोध्याथ मनुष्यस्य शमित्रादेः समर्पयति । धर्षा मानुषः । धर्षेति विकरणव्यत्ययश्छान्दसः । प्रथमपुरुषस्य स्थाने मध्यमः । धृष्णोतु शक्नोतु शामयितुं मानुषः । यद्वा यस्माद् ऋतस्य यज्ञस्य त्वां हे देव हविः, पाशेन प्रतिमुञ्चामि बध्नामि तस्माद् धृष्णोतु त्वां मानुषः ॥ ८॥
म० रयिर्धनं क्षीरादि यासां ता रेवत्यः । लिङ्गवचनव्यत्ययः । रेवन्तः 'रेवन्तो हि पशवः' (३।७।३।१३) इति श्रुतेः हे रेवन्तः क्षीरादिधनवन्तः पशवः, यूयं यजमानगृहे रमध्वं संक्रीडध्वम् । एवं पशुमुक्त्वा बृहस्पतिमाह । हे बृहस्पते, हे ब्रह्मन् , वसूनि पशुलक्षणानि धारया निश्चलीकुरु । ‘ब्रह्म वै बृहस्पतिः पशवो वसु' (३ । ७ । ३ । १३) इति श्रुतेः ।। 'द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वान्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति' ( का० ६ । ३ । २६) । अवयवद्वयोपेतया व्यामद्वयपरिमितया कुशकृतया रज्ज्वा नागपाशं कृत्वा शृङ्गयोरन्तराले पशुं बध्नाति कथम् । अभिदक्षिणं दक्षिणशृङ्गमभिमुखं पाशं प्रतिमुञ्चेदिति सूत्रार्थः । हे देवहविः देवानां हवीरूप पशो, ऋतस्यावश्यंभाविफलोपेतत्वात्सत्यस्य यज्ञस्य पाशेन त्वा त्वां प्रतिमुञ्चामि बध्नामि । प्रतिपूर्वो मुञ्चतिर्बन्धने वर्तते । एवं पशुं संबोध्य शमित्रे समर्पयति मानुषो धर्षा । ‘ञिधृषा प्रागल्भ्ये' विकरणपुरुषव्यत्ययः । मानुषः शमिता धृष्णोतु शमयितुं शक्नोतु पाशेन बद्धत्वादिति भावः । संहितायां 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति सूत्रेण धर्षेत्यत्र दीर्घः ॥ ८॥

नवमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौ॑षधी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।। ९ ।।
उ० यूपे बध्नाति पशुम् । देवस्य त्वा व्याख्यातः । अग्नीषोमाभ्यां जुष्टमभिरुचितं नियुनज्मि निबध्नामि । | पशुं प्रोक्षति । अद्भ्यस्त्वौषधीभ्यः । हे पशो, अद्भ्यः त्वामारभ्य ओषधीभ्यश्च आरभ्य आदितः सर्वं संपद्यते । अग्नीषोमाभ्यां त्वां जुष्टमभिरुचितं पशुं प्रोक्षामि मेध्यं करोमि । अमुमेवार्थं श्रुत्या स्पष्टयति 'इदᳪहि यदावर्षत्यथौषधयो जायन्ते' इत्यादिकया । अनुत्वेति व्याख्यातम् । इह त्वेवं संबन्धः। अद्भ्य आरभ्य अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि हे पशो, प्रोक्षमाणं त्वां मात्रादयोऽनुमन्यन्तामिति ॥ ९॥ .
म० 'देवस्य त्वेति यूप इति' (का० ६ । ३ । २७) यूपे पशुं बध्नातीति शेष इति सूत्रार्थः । अग्नीषोमदेवताभ्यां जुष्टमभिरुचितं पशुं नियुनज्मि निबध्नामि । व्याख्यातमन्यत् । 'अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षतीति' (का० ६।३।३०) हे पशो, अद्भ्यः ओषधीभ्यः । अत्र विभक्तिव्यत्ययः । अद्भिरोषधिभिश्च । त्वा त्वां प्रोक्षामि मेध्यं करोमि । किंभूतं त्वाम् । अग्नीषोमाभ्यां जुष्टं प्रीतं दर्भैरपामुत्पूतत्वादोषधीनामपि प्रोक्षणसाधनत्वमस्त्येव । स्वमातृभक्षिताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वात्तेनोभयेन प्रोक्षणं युक्तम् । तदाह तित्तिरिः 'अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति' । किंच हे पशो, एवं प्रोक्षितं त्वां माता भूमिरनुमन्यतां, तथा पिता द्यौरनुमन्यताम् , सगर्भ्यः समानगर्भे उदरे भवः सोदरो भ्राता अनुमन्यताम् । सयूथ्यः समानयूथे भवः सखा सुहृत् अनुमन्यताम् ॥ ९ ॥

दशमी।
अ॒पां पे॒रुर॒स्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सद्दे॑वह॒विः । सं ते॑ प्रा॒णो वाते॑न गच्छता॒ᳪ समङ्गा॑नि॒ यज॑त्रै॒: सं य॒ज्ञप॑तिरा॒शिषा॑ ।। १० ।।
उ० आस्ये उपगृह्णाति । अपां पेरुः । अपां पानशील