पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमानेभ्यः पश्वङ्गेभ्यो यं रसमुत्पादयन्ति सा वसेत्युच्यते । तां त्वां गृह्णामीति शेषः । किमर्थम् । वातस्य ध्राज्यै गत्यै वातस्यान्तरिक्षे गतिर्भवत्विति । तथा पूष्णो रंह्यै आदित्यस्य गत्यै । रंहतिर्गत्यर्थः । आदित्यस्य द्युलोके गतिर्भवत्विति वाय्वादित्ययोरप्रतिहतगमनसिद्ध्यर्थं त्वां गृह्णामीत्यर्थः । किंच ऊष्मणो व्यथिष्यत् । ऊष्मान्तरिक्षं तद्धि ब्रह्मण ऊष्मेव ऊष्माणमन्तरिक्षं वसा व्यथरतु कर्मणि षष्टी । यद्वा व्यत्ययेन प्रथमार्थे षष्ठी । ऊष्मा व्यथिष्यत् व्यथतां । वसां पीत्वा तृष्णाधिक्येन यथा सीदति । वसारूपं हविस्तथाविधं भवत्वित्यर्थः । हि वसा गृह्यते होममन्त्रे अन्तरिक्षस्य हविरसीति लिङ्गात् । इयं वसाऽन्तरिक्षस्य तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे च तृप्ते तत्प्रभवत्वाद्वायुसूर्ययोरपि स्वकर्मक्षमता भवति तस्मादुच्यते वातस्य ते ध्राज्या इत्यादि । 'व्यथ भयचलनयोः' अस्य 'लिङर्थे लेट्' (पा. ३ । ४ । ७) इति । लेटि 'सिब्बहुलं लेटि' (पा० ३ । ४ । ३४) इति । सिप्प्रत्यये 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति । तिप इकारलोपे 'लेटोऽडाटौं' (पा० ३ । ४ । ९४) इति अडागमे व्यथिषदिति रूपम् । 'द्विरभिघार्य प्रयुतमिति पार्श्वेन सᳪसृजत्यसिना वेति' ( का०६। ८ । १२) वसां द्विरभिघार्य पार्श्वेनासिना वाज्यं वसां च मिश्रयेदिति सूत्रार्थः । द्वेषो दौर्भाग्यं प्रयुतं पृथग्भूतं वसायाः सकाशाद्घृतमिश्रणेन ॥ १८ ॥

एकोनविंशी।
घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ।
दिश॑: प्र॒दिश॑: आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ।। १९ ।।
उ० वसां जुहोति । घृतं घृतपावानः । वसायां हि घृतं विद्यते द्विरभिघारणस्य विहितत्वात् । अतएवमाह । घृतं पिबत हे घृतपावानः । 'धेट् पाने' । 'आतो मनिन्क्वनिप्' इत्यादिना वनिप् । पातार उपभोक्तारः । वसां पिबत हे वसायाः पातारः । हे वसे, त्वम् अन्तरिक्षस्य हविरसि स्वाहा सुहुतमेतद्धविर्भवतु । दिशो व्याघारयति । दिशः प्रदिशः । अत्र स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति कात्यायनः । अतएवं व्याख्या । दिग्भ्यः स्वाहा प्रदिग्भ्यः स्वाहा । आदिग्भ्यः स्वाहा । विदिग्भ्यः स्वाहा । उद्दिग्भ्यः स्वाहा । दिग्भ्यः स्वाहा इति ॥ १९॥
म०. 'वसैकदेशं जुहोमि घृतं घृतपावान इति' ( का० ६। ८ । १७) । वसाहोमहवन्या वसाया एकदेशं जुहुयादिति सूत्रार्थः । वैश्वदेवं यजुः । वसाया द्विरभिघारितत्वाद्धृतमस्ति तत्र । अत एवमाह । हे घृतपावानः, घृतं पिबन्तीति घृतपावानः 'पा पाने' । 'आतो मानिन्' (पा० २ । २ । ७४ ) इत्यादिना वनिप् । घृतस्य पातारो देवाः, यूयं घृतं पिबत । हे वसापावानः वसायाः पातारो देवाः, यूयं वसां पिबत । एवं देवानुक्त्वा वसामाह हे वसे, त्वमन्तरिक्षस्य हविरसि स्वाहा सुहुतमस्तु । 'दिशो व्याघारयति वसाशेषेण वाजिनवदिति' (का० ६ । ८ । २१)। यथा वाजिनशेषेण दिग्व्याघारणमुक्तं तथेत्यर्थः । तद्यथा 'दिशो व्याघारयति दिश इति प्रतिमन्त्रं प्रदक्षिणं पुरस्तात्प्रथममुत्तमाभ्यां मध्ये पूर्वार्धे चेति' ( का० ४ । ४।१६-१७)। षट् दिग्देवतानि अत्र 'स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति' (का० ४ । ४ । १८) वचनात् स्वाहा सर्वत्र युज्यते । दिग्भ्यः स्वाहा प्रदिग्भ्यः स्वाहा आदिग्भ्यः स्वाहा विदिग्भ्यः स्वाहा उद्दिग्भ्यः स्वाहा सर्वाभ्यो दिग्भ्यः सुहुतमस्त्वित्यर्थः ॥ १९ ॥

विंशी।
ऐ॒न्द्रः प्रा॒णो अङ्गे॑ अङ्गे॒ नि दी॑ध्यदै॒न्द्र उ॑दा॒नो अङ्गे॑ अङ्गे॒ निधी॑तः । देव॑ त्वष्ट॒र्भूरि॑ ते॒ सᳪ स॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति ।
दे॑व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ।। २० ।।
उ० पशुं संमृशति । ऐन्द्रः प्राणः । इन्द्र आत्मा तस्य स्वभूतः प्राणः ऐन्द्रः प्राणः। अस्य पशोः अङ्गे अङ्गे। वीप्सा। यावन्ति पशोरङ्गानि तेषु सर्वेषु । निदीध्यत् 'दीधीङ् दीप्तिदेवनयोः' इत्यस्य धातोर्दधात्वर्थे वर्तमानात्कर्मणि लकारश्छान्दसः । निधीयते निहितः । ऐन्द्रश्चास्य उदानः अङ्गे अङ्गे निधीतः निहितः । एवं तावदनेन यजुषा पश्वङ्गेषु प्राणं दत्वा अथेदानीं देवत्वष्टरित्यादिकायास्त्रिष्टुभोर्धर्चेन त्वष्टारमाह । त्वष्टा हि रूपाणामीष्टे । हे देव त्वष्टः, भूरि ते सᳪसमेतु । बहुप्रकारं तव संबन्धि रूपं यद्विकृतमसिना तत्संगत्य एकीभवतु । कथंभूतम् । सलक्ष्म समानलक्षणं सत् यद्विषुरूपं भवति तत्समेत्विति संबन्धः। एवं त्वां हे पशो, प्राणैश्चाङ्गैश्चानेन मन्त्रेण कृत्स्नीकृतं सन्तं दृढीकृतं सन्तं देवत्रा यन्तम् देवान् प्रति गच्छन्तम् । अवसे अवनाय प्रीत्यै । सखायः समानख्यानाः पशवः अनुमदन्तु अभ्यनुजानन्तु त्वां मातापितरश्च । बहुवचनं पूजार्थम् ॥ २० ॥
म० 'ऐन्द्रः प्राण इति पशुᳪसंमृशतीति' ( का० ६ । ९।१) पशुरूपं हविः स्पृशेदिति सूत्रार्थः । इन्द्र आत्मा तत्संबन्धी प्राणः प्राणवायुरस्य पशोरङ्गे अङ्गे सर्वेष्वङ्गेषु निदीध्यत् निहितः । 'दीधीङ् दीप्तिदेवनयोः' । अस्य धातोर्दधात्यर्थे वर्तमानात्कर्मणि लेट् परस्मैपदं व्यत्ययेन 'लेटोऽडाटौ' (३ । ४ । ९४ ) इत्यट् । तथा ऐन्द्रः इन्द्रसंबन्धी उदानवायुः पशोः सर्वेष्वङ्गेषु निधीतः निक्षिप्तः ‘धीङ् आदरानादरयोः' । 'अङ्ग इत्यादौ च' (पा० ६ । १ । ११९) इत्यङ्गशब्दस्य एङ् अति प्रकृत्या ॥ एवमनेन यजुषा पश्वङ्गेषु प्राणान्दत्वा त्वष्टारमाह । त्वाष्ट्री त्रिष्टुप् हे त्वष्टः त्वष्टृनामक देव, यत् पश्वङ्गजातं सलक्ष्मा