पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
यूपः.

तोऽक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति' (का० ६ । ३ । ३-४)। अध उपरि चाज्येन लिप्तं चषालं यूपाग्रे स्थापयेदिति सूत्रार्थः। हे चषाल, त्वां यूपस्याग्रे प्रतिमुच्चामीति शेषः । किमर्थम् । ओषधीभ्यः व्रीह्याद्योषधिनिष्पत्त्यर्थम् । किंभूताभ्य ओषधीभ्यः । सुपिप्पलाभ्यः शोभनफलयुक्ताभ्य इत्यर्थः । ( का. ६ । ३ । ७) द्यामणेत्युच्छ्रयतीति । उन्नतं कुर्यादित्यर्थः । यूपदेवत्यम् । यूपस्य महिमोच्यते । हे यूप, त्वमग्रेणाग्रभागेन द्यां दिवमस्पृक्षः स्पृष्टवानसि । स्पृशतेर्लुङि ‘शल इगुपधादनिटः क्सः' ( पा० ३ । १।४५ ) इति क्सप्रत्ययः । मध्येन मध्यभागेनान्तरिक्षमा अप्राः आपूरितवानसि । 'प्रा पूरणे' । अपरेणाधोभागेन अनिष्टप्रदेशेन पृथिवीं भूमिमदृंहीः दृढीकृतवानसि ॥२॥

तृतीया।
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यास॑: । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णो॑: पर॒मं प॒दमव॑ भारि॒ भूरि॑ ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह ॥ ३ ॥
उ० मिनोति या ते धामानि । 'डुमिञ् प्रक्षेपणे'। त्रिष्टुप् यूपदेवत्या । यूप उच्यते । यानि ते तव संबन्धीनि धामानि । स्थानजन्मज्योतिर्वचनो वा धामशब्दः । स्थानानीहाभिप्रेतानि । उश्मसि कामयामहे । गमध्यै गमनाय । यानि त्वदीयानि स्थानानि कामयामहे । वयं गमनायेति यदवृत्तयोगादिह तदनुप्रयोगो भवितुमर्हति । तत्र तेषु स्थानेषु । गावो रश्मयः । भूरिशृङ्गा बहुदीप्तयः । ज्वलन्नामसु शृङ्गाणीति पठितम् । अयासः अयनाः गन्तारः । अत्राह तदुरुगायस्य विष्णोः । अत्रशब्दस्तत्रशब्दस्यार्थे परोक्षत्वात् । अह इति विनिग्रहार्थीयः । तत्र चैतद् उरुगायस्य महागतेर्विष्णोः संबन्धि परममुत्कृष्टं पदमादित्यमण्डलाख्यमर्वाचीनं भारि भाति । तकारस्य स्थाने छान्दसो रेफः । भूरि बहुप्रकारम् । पांसुभिः पर्यूहति । ब्रह्मवनि त्वा व्याख्यातम् । पर्यूषति । ब्रह्मदृᳪह व्याख्यातम् ॥ ३॥
म०. 'या त इति मिनोतीति' ( का० ६ । ३ । ८ ) अवटे यूपं प्रक्षिपेदित्यर्थः । यूपदेवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे यूप, या यानि ते तव धामानि स्थानानि गमध्यै गन्तुं वयमुश्मसि उश्मः कामयामहे । 'तुमर्थे से-' (पा० ३ । ४ । ९) इत्यादिना । गच्छतेस्तुमर्थे कध्यैन्प्रत्ययः नित्त्वादाद्युदात्तः । उश्मसि 'वश कान्तौ' लटि उत्तमबहुवचने शपो लोपे संप्रसारणे 'इदन्तो मसि' (पा० ७ । १ । ४६) इति इकारः । यानि तव स्थानानि गन्तुं वयमिच्छाम इत्यर्थः । किंच यत्र येषु तव स्थानेषु गावो रश्मयः । अयासः अयन्तीति अयाः 'अय गतौ' गन्तारो वर्तन्ते । सर्वे किरणा येषु स्थानेषु गता इत्यर्थः । किंभूता गावः । भूरिशृङ्गाः भूरि बहु शृङ्गं दीप्तिर्येषां ते भूरिशृङ्गाः । प्रज्वलन्नामसु शृङ्गाणीति पठितम् । | अहेत्येवार्थे । विष्णोः व्यापकस्य ब्रह्मणः तत् परममुत्कृष्टं पदं भूरि महत् आदित्यमण्डललक्षणमत्रैव अवभारि अवभाति । तकारस्थाने छान्दसो रेफः । यद्वा भूरि बहुप्रकारं यथा तथा अत्राह अत्रैव एष्वेव स्थानेषु अवभाति शोभते । किंभूतस्य विष्णोः। उरुगायस्य 'गाङ् गतौ' गानं गायः उरुर्गायो गतिर्यस्य । महागतेरित्यर्थः । यद्वा उरुभिर्महात्मभिर्गीयते स्तूयतेऽसावुरुगायस्तस्य । तादृशस्थानप्राप्तिहेतुभूतकर्मणे हे यूप, त्मत्रावटे तिष्ठेत्याशयः। 'ब्रह्मवनि त्वेति पाᳪसुभिः । ब्रह्म दृᳪहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति' (का० ६।३ । १०-११)। द्वे यजुषी औदुम्बरीविषये (अध्या० ५ क० २७) व्याख्याते ॥ ३ ॥

चतुर्थी ।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ४ ।।
उ० वाचयति । विष्णोः कर्माणि । द्वे गायत्र्यौ वैष्णव्यौ। हे ऋत्विजः, विष्णोः यज्ञस्य कर्माणि वीर्याणि पश्यत यतः। तसिप्रकरणे आद्यादिभ्य उपसंख्यानं वक्तव्यम् । यतो यैर्वीर्यैः । व्रतानि । व्रतमिति कर्मनाम । आधानपशुसोमप्रभृतीनि कर्माणि आत्मनि । पस्पशे 'स्पश बन्धने' बद्धवान् । विष्णुर्हि अधिष्ठात्री देवता यज्ञानाम् । यद्वा विष्णोर्वीर्याणि पश्यत । यैर्वीर्यैस्तानि व्रतानि कर्माणि अग्निवायुसूर्याणां स्वानि स्वान्यप्रमत्ताः एतानि कुरुतेत्येवं पस्पशे निबद्धवान् । किंच यश्च विष्णुः इन्द्रस्य सखा वृत्रवधादिषु कर्मसु । कथंभूतः सखा । युज्यः 'युजिर् योगे'। योगार्हः अनुरूप इत्यर्थः ॥४॥
म० 'विष्णोः कर्माणीति वाचयति यूपमन्वारब्धमिति' (का० ६ । ३ । १२)। यूपं स्पृष्टवन्तं यजमानं वाचयेदिति सूत्रार्थः । द्वे वैष्णव्यौ गायत्र्यौ मेधातिथिदृष्टे । हे ऋविजः, विष्णोः यज्ञाधिष्ठातुः कर्माणि सृष्टिसंहारादिचरितानि यूयं पश्यत । यतो यैः कर्मभिः व्रतानि भवदीयानि लौकिकवैदिककर्माणि पस्पशे बद्धवान् निर्मितवानित्यर्थः । ‘स्पश बन्धने' स विष्णुरिन्द्रस्य युज्यः वृत्रवधादिकर्मसु योज्योऽनुरूपः सखा मित्रम् । यद्वा विष्णोः यज्ञस्य कर्माणि वीर्याणि पश्यत यतो यैर्वीर्यैर्व्रतानि आधानपशुसोमादीनि कर्माणि पस्पशे आत्मनि बद्धवान् । यद्वा यैर्वीर्यैर्व्रतानि कर्माणि अग्निवायुसूर्याणां स्वानि स्वानि एतान्यप्रमत्ताः कुरुतेत्येवं पस्पशे निबद्धवान् । शिष्टं समानम् ॥ ४ ॥