पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शतशाखो विरोह । वयं च सहस्रवल्शाः बह्वङ्कुराः पुत्रपौत्रादिभिः । विरुहेम प्रजायेमहीत्याशीः ॥ ४३ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चमोऽध्यायः ॥५॥
म० 'द्यां मा लेखीरिति पतन्तमभिमन्त्रयते' (का० ६ । १।१६) इति । हे यूपवृक्ष, द्यां द्युलोकं त्वं मा लेखीः माहिंसीः । 'लिख अक्षरविन्यासे' इह तु हिंसार्थः । अन्तरिक्षं च मा हिंसीः। पृथिव्या सह संभव सङ्गतो भव । यूपस्य वज्ररूपत्वाल्लोकानां शान्तिराशास्यत इति भावः । 'अयᳪहि त्वेति शोधनमभिमन्त्रणशेषो वा सविशेषोपदेशादिति' (का० ६ । १ । १८-१९) हि यस्मात् हे छिन्नवृक्ष, तेतिजानोऽतितीक्ष्णोऽयं स्वधितिः कुठारो महते सौभगाय सौभाग्याय दर्शनीयत्वाय । यद्वा सुभगो यज्ञः स एव सौभगः स्वार्थेऽण् । यज्ञाय त्वां प्रणिनाय प्रणयति यूपत्वं प्रापयति । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति वर्तमाने लिट् । 'तिज निशाने' अस्माद्यङन्ताच्छानचि तेतिजान इति रूपम् । अतस्त्वया छेदान्न भेतव्यमिति भावः । अतस्त्वमित्यावृश्चने जुहोति यूपे वेति' ( का० ६।१। २०-२१)। हे देव वनस्पते, अतोऽस्मात्स्थाणोः त्वं शतवल्शः बह्वङ्कुरः सन् विरोह विशेषेण जायस्व । वयं च सहस्रवल्शाः पुत्रपौत्रादिभिर्बहुशाखोपेता विरुहेम प्रजायेमहि ॥ ४३ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे। आतिथ्यात्स्थाणुहोमान्तः पञ्चमोऽध्याय ईरितः ॥५॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पञ्चमोऽध्यायः ॥५॥

षष्ठोऽध्यायः।
तत्र प्रथमा।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः ।
पि॑तृ॒षद॑नमसि ।। १ ।।
उ० अभ्रिमादत्ते । देवस्य त्वा । परिलिखति इदमहम् । यवानावपति यवोऽसि । प्रोक्षति दिवे त्वा । शेषमासिञ्चति शुन्धन्तां लोकाः पितृषदनाः। दर्भान् क्षिपति पितृषदनमसि। एतानि षट् यजूंषि व्याख्यातानि ॥ १॥
म० सौमिकवेदिप्रधाने पञ्चमाध्याये आतिथ्यमारभ्य यूपनिर्माणपर्यन्ता मन्त्रा उक्ताः अग्नीषोमीयपशुप्रधाने षष्ठेऽध्याये यूपसंस्कारमारभ्य सोमाभिषवोद्योगपर्यन्ता मन्त्रा उच्यन्ते । .'देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमहमिति' (का. .. ६ । २ । ८ ) यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादवटे शेषमासिञ्चति शुन्धन्तामिति बर्हीᳪषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति' (६ । २ । १५-१८)। एतानि षड् यजूंषि औदुम्बरीविषये (अ० ५ क० २६) व्याख्यातानि ॥१॥

द्वितीया।
अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सु॑पिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः ।
द्यामग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृᳪहीः ।। २ ।।
उ० प्रथमशकलं प्रास्यति । अग्रेणीरसि । अग्रे प्रथम यूपस्य छिद्यमानस्यापनीयत इत्यग्रेणीः यूपावयवभूत इत्यर्थः। यद्वा अग्रेऽवस्थितो यूपमवटंप्रति नयतीत्यग्रेणीः पुरःसर इत्यर्थः । यस्त्वमग्रेणीरसि । स्वावेशमुन्नेतॄणाम् ऊर्ध्वं नेतॄणामध्वर्यूणां स्वावेशः । ते ह्येवमस्मिन्यूपावटे सुखेनावेशयन्ति स्थापयन्ति । स हि लघुप्रमाणो भवति । स त्वं हे यूपशकल, एतस्य वित्तात् । 'विद ज्ञाने' । एतस्य कर्मणो विद्धि विदितार्थो भव । कतमं तत्कर्म चेत् । अधि त्वा स्थास्यति । अधीत्युपरिभावमैश्वर्यं वा । अधि उपरि यूपस्त्वां स्थास्यति । यूपमनक्ति । 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु'। देवस्त्वा । देवः त्वां हे यूप, सवित्रा मध्वा मधुस्वादेन आज्येन आनक्तु म्रक्षयतु । चषालं प्रतिमुञ्चति । सुपिप्पलाभ्यः । पिप्पलं फलम् । शोभनफलाभ्य ओषधीभ्योर्थाय त्वाम् प्रतिमुञ्चामीति वाक्यशेषः । उच्छ्रयति । द्यामग्रेण । यूपस्य महिमोच्यते । द्यां द्युलोकम् अग्रेण अपस्पृशः पृष्टवानसि । आ अन्तरिक्षं मध्येनाप्राः । 'प्रा पूरणे'। आ अप्राः । आपूरितवानसि अन्तरिक्षं मध्येन । पृथिवीं उपरेण । उपरमित्यधस्तनेन प्रदेशेन, यूप इत्यपरशब्देन तेन प्रदेश उच्यते यूपस्य । अदृᳪहीः दृढीकृतवानसि ॥२॥
म० 'प्रथमशकलं चाग्रेणीरसीति' ( का० ६।२ । १९)। यूपावटे प्रथमशकलं निक्षिपेदिति सूत्रार्थः । हे यूपशकल, त्वमग्रेणीरसि अग्रे प्रथमं यूपस्य छिद्यमानस्य नीयतेऽपनीयत इत्यग्रेणीः । यूपस्य प्रथमावयवभूतो भवसीत्यर्थः । यद्वा अग्रे प्रथमं यूपमवटं प्रति नयतीत्यग्रेणीः पुरःसरः । किंभूतस्त्वम् । उन्नेतॄणामुन्नयनकर्तॄणामध्वर्यूणां स्वावेशः सुखेनावेशयितुं शक्यः ते ह्येनं यूपावटे सुखेनावेशयन्ति लघुत्वात् । स त्वमेतस्य कर्मणो वित्तात् । कर्मणि षष्ठी । एतत्कर्म विद्धि जानीहि । किं तत्कर्म । यत् यूपः त्वामधि स्थास्यति त्वदुपर्यवस्थानं करिष्यति तत्त्वया बोद्धव्यमित्यर्थः । 'देवस्य त्वेत्यनक्तीति' (का. ६ । ३ । २) यूपमिति शेषः । यूपदेवत्यम् । हे यूप, सविता देवः मध्वा मधुना मधुरेणाज्येन वा त्वामनक्तु । मध्वा । अनित्यमागमशासनमिति नुमभावः । 'चषालमुभय