पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तस्तस्मादुद्ध्रियते । प्राजनितम् । अहिरसि बुध्न्यः । अहिः अयनः शालाद्वार्यादिभिर्भावैरिति बुध्नमादिरुच्यते तत्र भवो बुध्न्यः। स हि प्रथमं मथ्यते । नाम्नैवात्र धिष्ण्यानां स्तुतिः। उक्तंच 'स्तुतिः स्वनाम्ना वाथ कर्मरूपैः' । सदोऽभिमृशति । वागस्यैन्द्रमसि । वाचास्मिन्कुर्वन्तीति वाक्शब्देनाभेदोपचारेण सदोऽभिधीयते। ऐन्द्रमसीति देवताभिप्रायं । सदोसीति नामव्युत्पत्त्यभिप्रायम् । सीदन्त्यस्मिन्ब्राह्मणा इति. सदः । द्वार्ये ऋतस्य द्वारौ ऋतस्य यज्ञस्य ये युवां द्वारौ द्वारदेशस्थायिनौ ते मां मा संताप्तम् । संतापश्च प्रवेशनिष्क्रमणस्खलनाभिप्रायः । अभिमन्त्रणमुत्तरैः । सूर्यमभिमन्त्रयते । अध्वनाम् । हे सूर्य, अध्वपते मार्गपते । अध्वनां संचाराणां मध्ये वर्तमानमिति शेषः । प्रमातिरः वर्धयस्व माम् । संचारेण हि गच्छतो वृद्धिर्भवत्येव । किंच त्वत्प्रसादात् स्वस्ति अविनाशः मे मम अस्मिन् पथि मार्गे । देवयाने देवयानप्रापके भूयात् भवेत् ॥ ३३ ॥
म० ब्रह्मासनम् हे ब्रह्मासन, त्वं समुद्रः विश्वव्यचाश्चासि । सर्वे देवाः सम्यगुत्कर्षेण द्रवन्त्यत्रेति समुद्रः समुद्र इवागाधो ज्ञानेन, ब्रह्मा यत्र तिष्ठतीति वा । विश्वं सर्वं यज्ञं व्यचति गच्छति कृताकृतप्रत्यवेक्षणायेति विश्वव्यचाः । शालाद्वार्यम्, हे प्राचीनवंशशालाद्वारवर्तिन्नग्ने, त्वमजोऽसि । अजति आहवनीयरूपेण यज्ञप्रदेशे गच्छतीत्यजः । यद्वा परब्रह्मत्वमुपचर्यते । न जायत इत्यजः । एकः पातीत्येकपात् । यद्वा एकः पादः सर्वाणि भूतानि यस्येत्येकपात् । 'पादोऽस्य विश्वा भूतानि' इति श्रुतेः।। प्राजहितम् पत्नीशालापश्चिमभागवर्ती पुरातनो गार्हपत्योऽग्निः प्राजहित उच्यते । हे प्राजहित, त्वमहिरसि । न हीयत इत्यहिः शालाद्वारीये नूतने गार्हपत्ये उत्पनेऽपि अयमग्निः स्वरूपेण न हीयते । बुध्नो मूलं तत्र भवो बुध्न्यः। आधानकाले प्रथममाहितत्वान्मूलभावित्वम् । स हि प्रथमं मथ्यते । नामभिरेवात्र धिष्ण्यानां स्तुतिः । उक्तं च । 'स्तुतिः स्वनाम्ना कर्मणा वाथ रूपैरिति' (का० ९ । ८ । २२) । वागसीति सदोऽभिमर्शनमिति । हे सदः, त्वं वागसि वाचास्मिन्कर्म कुर्वन्तीति वाक्शब्देनाभेदोपचारेण सद उच्यते । ऐन्द्रमिन्द्रदेवताकं चासि ।। सीदन्त्यस्मिन्निति सदः । 'ऋतस्य द्वाराविति द्वार्ये (का. ९।८।२३) इति । द्वार्ये सदोद्वारशाखे अभिमृशतीति सूत्रार्थः । हे ऋतस्य यज्ञस्य द्वारौ द्वारदेशस्थायिन्यौ शाखे, युवां मा मां मा संताप्तं मा संतापयतं प्रवेशनिःक्रमणे स्खलनादिना । तपतेर्लुङि मध्यमैकवचने 'झलो झलि' (पा० ८।२। २६) इति सिलोपे रूपम् । 'अभिमन्त्रणमुत्तरैरध्वनामध्वपत | इति सूर्यम्' (का० ५। ८ । २४-२५)। उत्तरैस्त्रिभिर्मन्त्रैस्त्रयाणामभिमन्त्रणं दर्शनमित्यर्थः । तत्राध्वनामिति सूर्यमभिमन्त्रयत इति सूत्रार्थः । अध्वपते मार्गपालक रवे, अध्वनां मार्गाणां मध्ये वर्तमानं मा मां त्वं प्रतिर प्रवर्धय । तिरतिर्वृद्ध्यर्थः । किंच अस्मिन् देवयाने देवयानप्रापके पथि यज्ञमार्गे मे मम स्वस्ति कल्याणं भूयात् ॥ ३३ ॥

चतुस्त्रिंशी।
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ऽग्नयः पिपृ॒त मा॑ऽग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिᳪसिष्ट ।। ३४ ।।
उ० ऋत्विजः मित्रस्य मा । मित्रस्यादित्यस्य चक्षुषा मामीक्षध्वम् । मित्रस्य हि शान्तं चक्षुः। धिष्ण्यान् । अग्नयः सगराः । 'गृ स्तुतौ' । हे अग्नयः, सगराः समानगराः समानस्तुतयः । ये यूयं समानस्तुतयो भवथ ते सगरेण नाम्ना समानस्तुतिनाम्नाभिहिताः सन्तः । समानं हि नाम धिष्ण्या इति । ते वै द्विनामानो भवन्ति' इति द्विनामता च। रौद्रेण रुद्रदैवत्येन अनीकेन मुखेन पातं पालयतं मा माम् । हे अग्नयः, पिपृतं पूरयत धनैर्माम् । हे अग्नयः, गोपायत रक्षत माम् । किंच हे अग्नयः, नमो वोस्तु । अयं नमस्कारो वो युष्मभ्यं भवतु । मा मा हिंसिष्ट । 'तृह हिसि हिंसायाम्' । मा हिंसिष्ट माम् । यदत्र पुनरुक्तं तत् 'अभ्यासेन भूयांसमर्थं मन्यन्ते' इति परिह्रियते ॥ ३४ ॥
म० मित्रस्येत्यृत्विजः' (का. ९। ८ । २६) इति । अभिमन्त्रयत इति शेषः । हे ऋत्विजः, मित्रस्यादित्यस्य चक्षुषा नेत्रेण मा मामीक्षध्वं पश्यत सख्युर्नेत्रेण वा सखा यथा सखायं हितचक्षुषा पश्यति तथा मां पश्यध्वमित्यर्थः । 'अग्नयः सगरा इति धिष्ण्यानि' ( का० ९ । ८।२७) इति । अभिमन्त्रयत इति शेषः । हे अग्नयः सगराः । 'गृ स्तुतौ' गरेण स्तुत्या सहिताः सगराः यूयं सगरेण नाम्ना स्तुतिसहितेन नाम्ना धिष्ण्या इति नाम्ना व्यवह्रियमाणत्वात्सगराः स्थ समानस्तुतयो भवथ । समानो गरो येषां ते सगराः । हे अग्नयः, ते यूयं रौद्रेणानीकेन शत्रुविनाशकत्वादुग्रेण भवदीयेन सैन्येन मा मां पात रक्षत । यद्वा रुद्रदेवत्येन मुखेन मां पात अनीकं मुखं सैन्यं च । हे अग्नयः, मा मां पिपृत धनादिभिः पूरयत । मा मां गोपायत रक्षत । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु०१०। ४२) इति यास्कोक्तेः निरन्तरं रक्षतेत्यर्थः । वो युष्मभ्यं नमोऽस्तु । मा मां मा हिंसिष्ट मा वधिष्ट । निर्विघ्नं यज्ञं कारयतेत्यर्थः ॥ ३४॥

पञ्चत्रिंशी।
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ᳪ स॒मित् । त्वᳪ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ᳪ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ।। ३५ ।।