पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मैत्रावरुणधिष्ण्य, त्वं श्वात्रः प्रचेताश्चासि शु क्षिप्रमततीति श्वात्रो मित्रः । प्रकृष्टे चेतो ज्ञानं यस्य स प्रचेताः वरुणः तद्रूपोऽसि । ब्राह्मणाच्छंसिनः हे ब्राह्मणाच्छंसिधिष्ण्य, त्वं तुथो विश्ववेदाश्चासि । 'ब्रह्म वै तुथः' (४ । ३ । ४ । १५) इति श्रुतेः ब्रह्मरूपोऽसि । विश्वं वेत्ति विश्ववेदाः सर्वज्ञः । यद्वा तुथशब्देन देवान्प्रति दक्षिणानां विभागकर्ता पुरुष उच्यते । तदाह तित्तिरिः । तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजतीति ॥ ३१॥

मार्जालीयः.

द्वात्रिंशी।
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीय॑: स॒म्राड॑सि कृ॒शानु॑: परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो॒ऽसि हव्य॒सूद॑न ऋ॒त॒धा॑माऽसि॒ स्व॒र्ज्योतिः ।। ३२ ।।
उ० पोतुः । उशिगसि कविः । 'वश कान्तौ' । तस्य कृतसंप्रसारणस्योशिक् । कान्तोसि । कविः क्रान्तदर्शनः । नेष्टुः । अङ्घारिरसि बम्भारिः । अंहःशब्दः पापवचनः । तस्य हकारस्य घकारश्छान्दसः । तस्यारिः अङ्घारिः । बम्भारिः । 'डुभृञ् धारणपोषणयोः' । भर्ता । अच्छावाकस्य । अवस्यूरसि दुवस्वान् । अवसमन्नं तदिच्छति क्विप ऊप्रत्यय औणादिकः । स हि पुरोडाशबृगलमिच्छति । दुवस्वान् दुव इति हविर्नाम । दुवस्वान् हविष्मान् । अच्छावाको हि पुरोडाशबृगलं लभते । मार्जालीयः शुन्ध्यरसि । शोधनः मार्जालीयः। 'मृजूष् शुद्धौ' । तत्र हि पात्राणि प्रक्षाल्यन्ते । इत उत्तरमनुदिशति आहवनीयम् । सम्राडसि। सम्राट् संगतदीप्तिः। कृशानुः कृशो यजमानः पयोव्रतैरुपक्षीणः एनमनुगच्छतीति कृशानुः बहिष्पवमानदेशः । परिषद्योसि पवमानः । परिषदनीयः उद्गातृप्रभृतिभिः पवमानः । प्रसिद्ध्या चात्वालम् । नभोसि प्रतक्वा न भातीति नभः । यद्वा नभ आकाशः आकाशरूपः । प्रतक्वा । तक्वतिर्गत्यर्थः । प्रदक्षिणमेनं तक्वन्ति निर्गच्छन्ति ऋत्विजः स शामित्रदेशः। मृष्टोसि हव्यसूदनः । मृष्टो मृष्टकारी । शृतं हविर्मृष्टं भवति । हव्यसूदनः । सूदः सूपकार उच्यते । हविषः पक्ता । औदुम्बरी ऋतधामासि स्वर्ज्योतिः । ऋतो यज्ञस्तस्य धाम स्थानं जन्म वा । तत्र हि उद्गातारो यज्ञस्य कारणभूतान्तिष्ठन्ति । जनयन्ति वा यज्ञम् । स्वर्योधातिः आदित्यज्योतिः ॥ ३२ ॥
म० पोतुः । हे पोतृधिष्ण्य, त्वमुशिक् कमनीयः कविः विद्वांश्चासि ॥ नेष्टुः अङ्घस्यांहसः पापस्यारिरङ्घारिः । बिभर्तीति बम्भारिः त्वं तद्रूपोसि हे नेष्टृधिष्ण्य । दिवि सोमरक्षकौ द्वावङ्घारिबम्भारी । तथाच सोमरक्षकमन्त्रे स्वानभ्राजाङ्घारे बम्भारे (अध्या० ४ क० २७) इत्याम्नातम् । अच्छावाकस्य । हे अच्छावाकधिष्ण्य, त्वमवस्यूः दुवस्वान् चासि । अवोऽन्नमिच्छतीत्यवस्युः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) . 'क्याच्छन्दसि' (पा० ३।२। १७०) इति क्यजन्तादुप्रत्ययः दीर्घश्छान्दसः औणादिक ऊप्रत्ययो वा । दुवोऽस्यास्तीति दुवस्वान्हविष्मान् । दुव इति हविर्नाम । अच्छावाको हि पुरोडाशभागं लभते । एवं होत्रादिधिष्ण्यान्सदसि निर्माय वेदेर्दक्षिणभागे मार्जालीयं निर्माति । तदाह 'आग्नीध्राद्दक्षिणांसंप्रति वेद्यन्ते । दक्षिणामुखो मार्जालीयमिति' (का० ८।६।२१)। शुन्धयतीति शुन्ध्यूः । मार्ष्टीति मार्जालीयः । तत्र हि पात्राणि प्रक्षाल्यन्ते । । 'सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरीब्रह्मासनशालाद्वार्यप्रजाहितान् सम्राडसीति प्रतिमन्त्रमिति' (का० ८।६।२३)। सदोद्वारस्य पूर्वभागेऽवस्थायाहवनीयादीन् सम्राडसीत्याद्यष्टमन्त्रैः क्रमेण निर्दिशेदिति सूत्रार्थः । तत्रादावाहवनीयम् । हे उत्तरवेदिगताहवनीय, त्वं सम्राट् कृशानुश्चासि । बहुविधाहुत्याधारत्वेन सम्यग्राजत इति सम्राट् । पयोव्रतादिभिः कृशं क्षीणं यजमानमनुगच्छतीति कृशानुः । बहिष्पवमानदेशम् हे बहिष्पवमानदेश, त्वं परिषद्यः | पवमानश्चासि। स्तोतुं समेता ऋत्विजः परिषत् तद्योग्यः परिषद्यः अतएव शुद्धत्वात्पवमानः । चात्वालं हे चात्वाल, त्वं नभोसि खनने छिद्ररूपत्वादाकाशः, न भातीति वा । तथा प्रतक्वा प्रदक्षिणं तकन्ति गच्छन्ति ऋत्विजो यत्र स प्रतक्वा । तकतिर्गत्यर्थः 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति वनिप् । शामित्रम् पशुविशसनप्रदेशः शामित्रशब्देनोच्यते । हे शामित्र, त्वं मृष्टोऽसि पशुविशसनस्य विहितत्वेनाशुद्धिहेतुत्वाभावात्सत्यपि विशसने शुद्धोऽसि । यद्वा मृष्टः शृतत्वान्मिष्टः पक्वं हविर्मृष्टं भवति । तथा हव्यस्य हृदयजिह्वादिरूपस्य हविषः सूदनः पाकहेतुश्चासि । औदुम्बरीम् हे औदुम्बरि, त्वमृतधामा ऋतं सामगानं धामोपवेशनस्थानं यस्याः सा । 'औदुम्बरीं स्पृष्ट्वोद्गायति' इत्युक्तेः । स्वर्ज्योतिः उन्नतत्वेन स्वर्गे प्रकाशकः यद्वा सूर्यज्योतिः ॥ ३२॥

त्रयस्त्रिंशी।
स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चा अ॒जोऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो वाग॑स्यै॒न्द्रम॑सि॒ सदो॒ऽस्यृत॑स्य द्वारौ॒ मा मा॒ सनता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन्प॒थि दे॑व॒याने॑ भूयात् ।। ३३।।
उ० ब्रह्मासनम् । समुद्रोसि विश्वव्यचाः समुद्र इव त्वमसि सर्वव्यधनः तत्र हि समुद्र इवाऽगाधो ज्ञानेन ब्रह्मणि तिष्ठति । विश्वं च यज्ञं च व्यञ्चति कृताकृतप्रत्यवेक्षणेन । शालाद्वार्यम् । अजोऽस्येकपात् । अजः । 'अज गतिक्षेपणयोः' । अजनः अयमेवाहवनीयादिभावेन अजति गच्छति। एकपात् । एकः प्राजहितः । एकं पाति एकपात् । सह्यनुग