पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रिति मध्यमं छदिरारोपयति' (का० ८।६।१०) औदुम्बरीनिखननादूर्ध्वं सदोनामकं मण्डपं निर्माय तस्योपरि प्रावरणाय मध्यं कटमारोपयेदिति सूत्रार्थः । छदिःशब्देन तृणनिर्मितः कट उच्यते । हे तृणमय कट, त्वमिन्द्रस्य छदिरसि इन्द्रसंबन्धी कटो भवसि । अतस्त्वं विश्वजनस्य छाया भवेति शेषः । सदोमध्यवर्तिनः सर्वजनस्य यजमानर्त्विग्रूपस्य प्राणिनः प्रावरणाय छाया भवेत्यर्थः । सदस इन्द्रदेवताकत्वेन तदीयच्छदिष इन्द्रसंबन्धित्वम् ॥ २८ ॥

एकोनत्रिंशी।
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑:। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।। २९ ।।
उ० परिश्रयति । परि त्वा अनुष्टुबैन्द्री अनिरुक्ता । परिभवन्तु परिगृह्णन्तु त्वां हे गिर्वणः, 'इन्द्रो वै गिर्वा' इति श्रुतिः। गिरो वाचः इमा ऋग्यजुःसामलक्षणाः । विश्वतः सर्वतः । कथंभूतं त्वां परिगृह्णन्तु । वृद्धायुम् वृद्धा आयवो मनुष्या ऊरुलक्षणा यस्य स तथोक्तः । यद्वा वृद्धायुरिति समानाधिकरणः । वृद्धश्चायुश्च महामनुष्य इत्यर्थः । अनुवृद्धयः सवनक्रमेणानुवृद्धा वाचः । किंच जुष्टा भवन्तु त्वां परिगृह्णानाः त्वया परिसेविता भवन्तु । प्रीतिकरा जुष्टयः ॥ २९ ॥
म० 'परि त्वेति परिवार्येति' (का० ८ । ६ । १२ ) परितः कुड्यवदावरणं कृत्वेति सूत्रार्थः । ऐन्द्र्यनुष्टुबनिरुक्ता मधुच्छन्दोदृष्टा । गीर्भिः स्तुतिभिर्वननीयो भजनीयो गिर्वण इन्द्रः सदोऽभिमानी । हे गिर्वण इन्द्र, स्तोत्रशस्त्ररूपा गिरः त्वा त्वां विश्वतः सर्वतः कटरूपेण परिभवन्तु परिगृह्णन्तु । किंभूतं त्वाम् । वृद्धायुं वृद्धा आयवो मनुष्या यजमानादयो मरुतो वा यस्य तम् । यद्वा वृद्धः श्रेष्ठश्चासावायुश्च तं महामनुष्यम् । किंभूताः गिरः। अनुवृद्धयः अनु सवनक्रमेण वृद्धिर्यासां ताः शनैः प्रातःसवनं तत उच्चैर्माध्यन्दिनं सवनं तारस्वरेण तृतीयं सवनमिति क्रमः । किंच जुष्टयोऽस्मत्सेवास्तव जुष्टाः प्रियाः भवन्तु 'जुषी प्रीतिसेवनयोः' जोषणं जुष्टिः ॥ २९ ॥

त्रिंशी।
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो॑ऽसि । ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ।। ३० ।।
उ० परिषीवनग्रन्थिकरणाभिमर्शनानि सदसः इन्द्रोपलक्षितानि भवन्ति । आग्नीध्रं स्पृशति । वैश्वदेवमसि ॥३०॥
म० परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैरिति' (का० ८ । ६ । १२) । इन्द्रदेवताकैस्त्रिभिर्मन्त्रैः परिषीवणादित्रयं कुर्यादिति सूत्रार्थः । तत्र प्रथमः । हे रज्जो, त्वमिन्द्रस्य सदोऽभिमानिदेवस्य संबन्धिनी स्यूः सीवनमसि । सीव्यतेऽनया सा स्यूः क्विप् 'छ्वोः शूडनुनासिके च' (पा० ६ । ४ । १९) इति ऊडादेशः । द्वितीयः । हे ग्रन्थे, त्वमिन्द्रसंबन्धी भूत्वा ध्रुवः स्थिरो भवसि। अथ तृतीयः । हे सदः, त्वमिन्द्रसंबन्धि भवसि । 'हविर्धानापरान्तमुत्तरेणाग्नीध्रमग्न्यगारद्वारमन्तवेद्यर्थं भूयः सर्वं वा निष्टाप्य वैश्वदेवमसीत्यालभते' (का० ८ । ६ । १३-१४) इति हविर्धानमण्डपस्यापरान्तो वायव्यकोणस्तस्योत्तरभागे किंचिदाग्नीध्रनामकमग्निस्थानं कृत्वा तस्य स्पर्शं कुर्यादिति सूत्रार्थः । हे आग्नीध्र, त्वं सर्वदेवसंबन्धि भवसि ॥ ३० ॥

उत्तरवेदी
धिष्ण्य

एकत्रिंशी।
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॒ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः ।। ३१ ।।
उ०. अत उत्तरं षोडश धिष्ण्यमन्त्राः । तत्र श्रुतिः 'ते वै द्विनामानो भवन्तीति' । आग्नीध्रं विभूरसि प्रवाहणः । विभवतीति विभूः । प्रवाहयति गमयतीति प्रवाहणः । तस्य हि दक्षिणत उत्तरतश्च ऋत्विजो गच्छन्ति। यस्त्वं विभूश्च नामतः प्रवाहणश्चासि तं त्वां स्थापयामीति शेषः । एवमुत्तरेष्वपि योज्यम् । होतुर्धिष्णम् । वह्निरसि हव्यवाहनः प्रशास्तुः । श्वात्रः शु क्षिप्रमततीति श्वात्रः । प्रचेताः प्रकृष्टज्ञानः । ब्राह्मणाच्छंसिनः । तुथोसि विश्ववेदाः । 'ब्रह्म वै तुथः' इति श्रुतिः । विश्ववेदाः सर्वज्ञः सर्वधनो वा ॥११॥
म० इत उत्तरं षोडश धिष्ण्यमन्त्राः । तदाह ‘धिष्ण्यान्निवपत्युद्धतावोक्षिते पुरीषं निवपति स्फ्येनान्वारब्ध उदङ् उपविश्य विभूरसीति प्रतिमन्त्रमिति' ( का० ८।६ । १५)। अग्नीनामाश्रयभूता मृदा निर्मिताः स्वल्पवेदिका धिष्ण्यान्युच्यन्ते । 'आग्नीध्रीयं पूर्वमिति' (का० ८।६।१६)। विभूशब्दप्रवाहणशब्दावाग्नीध्रीयधिष्ण्यस्य नामनी । 'ते वै द्विनामानो भवन्ति' ( ३ । ६ । २ । २४ ) इति श्रुतेः । अष्टयजुषां धिष्ण्या अग्नयो देवताः । हे आग्नीध्रीय धिष्ण्य, त्वं विभूः प्रवाहणश्चासि । विविधं भवतीति विभूः एतस्मादेव धिष्ण्यादितरधिष्ण्येष्वग्निविहरणादेतस्य विभुत्वम् । प्रवाहयतीति प्रवाहणः । तस्य हि दक्षिणोत्तरत ऋविजो गच्छन्ति । हविषः प्रवाहयितृत्वाद्वा प्रवाहणत्वम् । धिष्ण्यगतानग्नीन् प्रत्यन्ये देवा ऊचुः प्रत्येकं स्वं नामधेयं संपादयतेति । तदाह तित्तिरिः 'तान् देवा अब्रुवन् द्वे द्वे नामनी कुरुतेति' । मैत्रावरुणहोतृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्यान् सदसि कुर्यात् । तदाह 'षट् सदसि प्रत्यङ्मुखो द्वारमपरेण होतुर्दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्राच्छावाकानामिति' (का. ८ । ६ । १८ -२१)। होतुर्धिष्ण्यं हे होतृधिष्ण्य, वह्निर्हव्यवाहनश्चासि । वहति यज्ञकर्म निर्वहतीति वह्निः । हव्यं वहति देवान् प्रति प्रापयतीति हव्यवाहनः । यथाग्नीध्रीयधिष्ण्यस्य नामद्वयमुक्तं तथा होत्रादिधिष्ण्यानामपि बोध्यम् । मैत्रावरुणधिष्ण्यं हे