पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
शिशुपालवधे

 तेनेति ॥ तेन हरिणा दीधितिभिर्दीपिता आशा येन सः । दिगन्तविश्रान्ततेजा इत्यर्थः । पयोधेरम्भसां सारस्य विकारः सारमयो मणिः । समुद्रमन्थनोत्थः कौस्तुभाख्य इत्यर्थः । दध्रे धृतः । धृञ् धारणे । कर्मणि लिट् । यत्र मणौ बिम्बगतः प्रतिबिम्बगतो लोको बाह्यप्रपञ्चस्तदङ्गे तस्य हरेः शरीरे साक्षात् । बहिः प्रत्यक्षेण लक्ष्यमाण इत्यर्थः । अन्तर्वसन्नन्तर्गतो लोक इवालक्ष्यत । यत्र मणौ प्रतिबिम्बितो बाह्यलोकस्तदङ्ग एव नैर्मल्याद्बहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यत इत्युत्प्रेक्षा ॥९॥

 मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य ।
 अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः संततधारमम्भः ॥१०॥

 मुक्तेति ॥ अस्य हरेर्मुक्तामयं मुक्ताप्रचुरम् । 'तत्प्रकृतवचने मयट्' (५।४।२१) सारसने कटिसूत्रेऽवलम्बते इति सारसनावलम्बि । 'क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु' इत्यमरः । आप्रपदीनम् । आ समन्तात् प्रपदं प्राप्नोतीति, खश्प्रत्ययः । 'पादाग्रं प्रपदं पादः' इत्यमरः । दाम मुक्तासरः अङ्गुष्ठेन निष्ठ्यूतम् । विसृष्टमित्यर्थः । गौणार्थत्वादग्राम्यत्वम् । यथाह दण्डी-निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति ऊर्ध्वमूर्ध्वप्रवाहमुच्चैरुन्नतं त्रिस्रोतसो मन्दाकिन्याः संततधारमविच्छिन्नसंपातमम्भ इव भाति स्मेत्युत्प्रेक्षा ॥ १० ॥

 स इन्द्रनीलस्थलनीलमूर्ती रराज कर्चूरपिशङ्गवासाः ।
 विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥

 स इति ॥ इन्द्रनीलस्थलमिम नीलमूर्तिः श्यामाङ्गः । संहितायां रोरि' (८।३।१४) इति रेफलोपः । 'ढ्लोपे पूर्वस्य-' (६।३।१११) इति दीर्घः । कर्चूरं हरितालमिव पिशङ्गं वासो यस्य स पीताम्बरो हरिः । 'हरितालं तु कर्चूरम्' इति वैजयन्ती । स हरिर्विसृत्वरैर्विसृमरैः। 'इण्नशजिसर्तिभ्यः क्वरप्' (३।२।१६३) अम्बुरुहामम्बुजानाम् । रुहेः क्विप् । रजोभिः परागैश्चित्रश्चित्रवर्णो यमस्वसुर्यमुनाया उदकस्य भारः पूर उदभारः स इव रराज । 'मन्थौदन-' (६।३।६०) इत्यादिनोदकस्योदादेशः ॥ ११॥

 प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।
 वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥१२॥

 प्रसाधितस्येति ॥ प्रसाधितस्यालंकृतस्यास्य मधुद्विषो हरेः अन्यैवासदृशी, विभिन्ना च । 'अन्यौ विभिन्नासदृशौ' इति वैजयन्ती । लक्ष्मीः शोभा, पद्मा च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अभूदित्येतद्युक्तम् । कुतः । हि यस्मात् सा प्रसाधनरूपा लक्ष्मीरशेषे वपुषि । वसतीति शेषः । किंचाखिललोकस्य कान्ता प्रिया । इतरा नित्या त्वन्यस्य कान्ता प्रिया न भवतीत्यनन्यकान्ता । किंतु तस्यैवेत्यर्थः । उरसि । उरस्येव वसतीत्यर्थः । अत्र हरेः प्रसाधनादसाधारणी शोभा जातेति पारमार्थिको वाक्यार्थः । अत्र लक्ष्मीशब्देन श्लेष-