पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
तृतीयः सर्गः ।

 तस्येति ॥ तस्य हरेरुर उरस्थलमुल्लसन्त्या काञ्चनकुण्डलाग्रयोः प्रत्युप्तानां खचितानां गारुत्मतरत्नानां मरकतमणीनां भासा दीप्त्या । उरसि प्रसरन्त्येति भावः । बाल्यं शैशवम् । ब्राह्मणादित्वात्ष्यञ् । तत्रोचितमभ्यस्तं यन्नीलकण्ठपिच्छं मयूरबर्हम् । 'अभ्यस्तेऽप्युचितं न्याय्ये' इति यादवः । 'पिच्छबर्हे नपुंसके' इत्यमरः । तेन निर्मितावचूडा मालिका तस्याः कलनामामोचनमवमोचनं वा अवापेवेत्युत्प्रेक्षा । 'यत्रान्यधर्मसंबन्धादन्यदेवोपतर्कितम् । प्रकृते हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥' इति लक्षणात् ॥ ५ ॥

 तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
 बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥६॥

 तमङ्गदे इति ॥ तं हरिं मन्दरकूटकोटिव्याघट्टनं मन्दराचलशिखराग्रसंघर्षणं सैवोत्तेजना शाणोल्लेखना तया बंहीयसा बहुतरेण । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना बहुलशब्दस्येयसुनि बंहादेशः । मणीनां दीप्तिवितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । 'आच्छीनद्योर्नुम्' (७।१।८०) इति नुमागमः । अङ्गदे केयूरे । 'केयूरमङ्गदं तुल्ये' इत्यमरः। चकासयामासतुः शोभयांचक्रतुः। अङ्गदे धृतवानित्यर्थः । चकास्तेर्ण्यन्ताल्लिटि आम्प्रत्ययेऽस्तेरनुप्रयोगः । अत्राङ्गदयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोक्तिमुत्प्रेक्ष्य तयोर्मन्दरकूटकोट्यसंबन्धेऽपि संबन्धोक्त्या द्वयोरतिशयोक्त्योः संकरः ॥६॥

 निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
 व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥७॥

 निसर्गेति ॥ असौ हरिर्निसर्गरक्तैः स्वभावलोहितैः । किंच वलये कटके 'कटकं वलयोऽस्त्रियाम्' इत्यमरः । तयोरवनद्धानां प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः अत एवाद्यापि सुरारेर्हिरण्यकशिपोर्वक्षसो विक्षोभेण विदारणेन जाता याऽसृक्तया स्नपितैः सिक्तैरिव स्थितैरित्युत्प्रेक्षा। स्नातेर्ण्यन्तात् क्तः । 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमः । मितां ह्रस्वः । नखाग्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः ॥ ७ ॥

 उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
 तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥८॥

 उभाविति ॥ तमालवन्नीलं आमुक्ते आसञ्जिते मुक्तालते लतादीर्घत्वसाम्येन मौक्तिकहारौ यस्मिंस्तदस्य हरेर्वक्ष आकाशगङ्गायाः पयस उभौ प्रवाहौ व्योम्नि यदि पृथक् पतेतां प्रवहेतां चेत् । संभावनायां लिङ् । तेन व्योम्नोपमीयेत समीक्रियेत । नास्योपमानं किंचित्पश्याम इति भावः । मुक्ताहारं धृतवानित्यर्थः । अत्र व्योम्नो गङ्गाप्रवाहद्वयासंबन्धेऽपि संभावनायां संबन्धकथनादतिशयोक्तिः । तदेतत् 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्याद्युदाहृत्यालंकारसर्वस्वकारः स्पष्टीचकार ॥८॥

 तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः।
 अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥९।।