पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
तृतीयः सर्गः ।

महिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहाभेदाध्यवसायादियमन्यैव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलंकारः ॥ १२ ॥

 अथैनमेवार्थं भङ्ग्यन्तरेणाह-

 कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
 आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥१३॥

 कपाटेति ॥ कपाटवद्विस्तीर्णे मनोरमे च उरःस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरेरानन्दिताशेषजना सर्वाङ्गसङ्गिनी सकलदेहव्यापिनी अत एवापरैवासाधारण्येव श्रीदेव्या अन्यैव लक्ष्मीः शोभा, रमा च बभूव । स एवालंकारः । प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः । यथाह नैषधे-आदावेव 'निपीय-' (१।१) इत्यादिश्लोकद्वयं; तथा 'स्वकेलिलेश-' (१।२३) इत्यादिश्लोकद्वयं चेति ॥ १३ ॥

 अथ देवीसहचरस्यैवास्य यात्रेति सूचयन् प्रसाधनविधेः फलमाह-

 प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
 प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ॥१४॥

 प्राणेति ॥ भूषणतामुपेयुषाम्, न तु प्रहरणवतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदां प्राणमुषां प्राणापहारिणाम् । वज्रादपि कठोराणामित्यर्थः । नखानां क्षतेन व्रणेन प्रकाशो व्यक्तः कार्कश्यमेव गुणो ययोस्तौ स्तनौ । स्तनानित्यर्थः । जातावेकवचने प्राप्ते जातिभूयस्सु स्तनादिषु जातेर्द्वित्वविशिष्टत्वाद्विवचनम् । यथाह वामनः-'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण' इति । दधानास्तरुण्यो युवतयः । 'वयसि प्रथमे' (४।१।२०) इति ङीप् । एनं हरिं परिवव्रुः । अत्र हरिनखानां नरहरिनखभेदेऽप्यभेदोक्त्या स्तनयोश्च तादृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्त्यतिशयोक्ती तयोश्च सापेक्षत्वात्संकरः ॥ १४ ॥

 आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।
 ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां ॥१५॥

 आकर्षतेति ॥ अत्युन्नतत्वाद्धेतोः ऊर्ध्वमाकर्षतेव नमन्तम् । मध्यमुन्नमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरुत्वमतिभारत्वम् , अतिप्रवृद्धत्वं च भजतीति भाक् । 'भजो ण्विः' (३।२।६२) तेनाङ्गनानां कुचमण्डलेनातिक्रशीयानत्यन्तकृशतरः तनीयान् , क्षीणश्च । 'र ऋतो हलादेर्लघोः' (६।४।१६१) इति रेफादेशः । मध्यो नितान्तमाक्रान्तः पीडित इव ननाम नतः, प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीषुराजप्रतीतेः समासोक्तिः । वाच्ययोः प्रतीयमानाभेदेनाक्रमणक्रियाकर्मकर्तृभावसंभावितेयं नमनस्याक्रमणहेतुकत्वोत्प्रेक्षेत्यनयोः संकरः । उत्प्रेक्षयोस्तु नैरपेक्ष्यादसंसृष्टिरेवेति विवेकः ॥ १५॥

पाठा०-१ 'दैत्याधिपप्राणमुषां नखानाम्'.