पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ शिशुपालवधे याचका यथास्थानमगुः । याचकेषु यथास्थानं गच्छत्सु माघः प्राह - 'व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क्व सार्थः पुनरीदृशः ॥' ततो माघपत्नी स्वामिनि परलोकं प्राप्ते प्राह – 'सेवन्ते स्म गृहं यस्य दासवद्भूभुजः पुरा । हाऽद्य भार्यासहायोऽयं मृतो वै माघपण्डितः ॥' ततो राजा माघपण्डितं विपन्नं विदित्वा निजन गराहाह्मणशतावृतो मौनी पद्भ्यामेत्र तत्रागात् । ततो माघपत्नी राजानं वीक्ष्य प्राह – 'राजन्, यदि पण्डितस्तव देशं प्राप्त स्तर्हि गृहमेव प्राप्तः । ततो देवेन कार्यशेषं सम्यक्संपादनीयम् ।' राजा तं विपन्नं माघपण्डितं नर्मदातीरं प्रापयामास । सा च माघपत्नी तेन सह वहिप्रवेशं कृतवती । ततो राजा माघस्योत्तरक्रियां पुत्र इव चक्रे । ततो दिवं गते माघे राजा शोकाकुलो विशेषेण कालिदास विरहेण तथा सकलविद्वत्प्रवसनेन च दिने दिने कार्येन प्रतिपच्चन्द्राकृतिरासीत् ।" इत्ययं प्रबन्धः समुपलभ्यते । जैनमेरुतुङ्गाचार्येण १३६१ संवत्सरे प्रणीते प्रबन्धचिन्तामणौ च – "अथ श्रीभोजः श्रीमाघपण्डितविद्वत्तां पुण्यवत्तां च सततमाकर्ण्य तद्दर्शनोत्सुकतया राजादेशै: सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान्दर्शयन् रात्रावारात्रिकावसरानन्तरं संनिहिते स्वसंनिभे पल्यङ्के माघपण्डितं नियोज्य तस्मै स्वशीतरक्षामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुष्वाप । प्रातर्माङ्गल्यतूर्यघोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन्नहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्न सदन्नवार्ताभिरलं शीतभारेण श्रान्तं विज्ञपयन्खिद्यमानेन राज्ञा कथंकथंचिदनुज्ञातः पुरोपवनं यावद्भू- भुजानुगम्यमानो माघपण्डितेन स्वागमनप्रसादेन संभावनीयोऽहमिति विज्ञप्तो नृपा- नुज्ञातः स्वं पदं भेजे । तदनु कतिपयदिनैः श्रीभोजस्तद्विभवभोगसामग्री दिदृक्षया श्रीश्रीमालनगरं प्राप्तः । माघपण्डितेन प्रत्युद्गमादियथोचितभत्त्यावर्जितः ससैन्यस्तन्म- न्दुरायां ममौ । स्वयं तु माघपण्डितस्य सौधमध्यास्य संचारकभुवं काञ्चनबद्धामव- लोक्य स्नानादनु देवतावसथोव्य मणिमरकत कुट्टिमशैवलवल्लरीयुग्जलभ्रान्त्या धौता- म्बरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवतार्चानन्तरं निवृत्ते मन्त्रावसरे अशनसमयसमागतां रसवतीमास्वादयन्नाका लि कैरदेश जैर्व्यञ्जनैः फलादिभिश्चित्रीयमा- णमानसः संस्कृतपयःशालिशालिनीं रसवतीमाकण्ठमुपभुज्य भोजनान्ते चन्द्रशालाम- विरुह्याश्रुतादृष्टापूर्वकाव्यकथाप्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः शिशिरसमयेऽपि संजाताक- स्मिकग्रीष्मभ्रान्त्या संवी तसित स्वच्छवसन स्तालवृन्तकरैरनुचरैवज्य मानोऽमन्दचन्द - नालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिःखनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापित इति प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय स्वदेशगमेनायापृच्छत् । स्वयं करिष्यमाणनव्यभोजस्वामिप्रसाद- प्रद उप्यो मालव मण्डलं प्रति प्रतस्थे । तथा निजजन्मदिने जनकेन नैमित्ति- काज्जात के कार्यमाणे 'पूर्वमुदितोदितसमृद्धिर्भूला प्रान्ते गलितविभवः किंचिच्चरणयो ।