पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोद्धातः । इह खड निखिलेऽपि भारते वर्षे महाकविपदवीमारुरुक्षुभिश्छात्रैः सत्खपि हरवि- जयादिषु परः शतेषु काव्यरत्नेषु लघुत्रयीति नाम्ना प्रसिद्धं कालिदासप्रणीतं काव्यत्रयं बृहत्रयीति नाम्ना प्रथितं किरातार्जुनीयं, शिशुपालवधं, नैषधीयचरितं चौ० भव्य- त्रयमहरहः क्रमेणाभ्यस्यते सर्वत्र । तत्र वृहत्रय्यां निखिलमहाकाव्यलक्षणाक्रान्त- तयातिप्रसन्नगम्भीरतयात्युपयुक्तव्याकरण प्रयोगप्राचुर्येणातिव्युत्पादकतया च कविमू- र्धन्य - माघप्रणीतं शिशुपालवधकाव्यमेव नायकायते । तस्य च प्रणेता दत्तकसूनुर्माघकविः कस्मिन्समये कतमं जनपदं जन्मना भूषयां- चकारेति विचारः प्रस्तूयते – तत्र तावद्वल्लालपण्डितसंकलिते भोजप्रबन्धे - “ततोऽन्यदा राजनि सिंहासनासीने श्रीभोजे द्वाःस्थः प्रणम्य राजानं प्राह - 'राजन्, गुर्जरदेशादागत्य माघनामा पण्डितवरो दुर्भिक्षेणाति विडम्बितो देवस्य नगराद्वहिस्ति- ष्ठति । तेन च दारिद्र्य विड़म्बितेन पण्डितेन खपत्नी प्रेषिता । सा च भवनद्वारि वर्तते । राजा – 'प्रवेशय' । ततो माघपण्डितस्य पत्नी प्रविश्य राज्ञे पत्रं प्रयच्छति । राजा तदादाय वाचयति – 'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलुकः प्रीति- मांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिल सितानां ही विचित्रो विपाकः ॥' ( शिशुपालवधे १११६४) राजा तदद्भुतगुणं प्रभातवर्णनमाकर्ण्य लक्ष- त्रयं दत्त्वा माघपत्नीं प्रति प्राह — 'मातः, इदं मया भोजनाय दीयते । प्रातरहं माघपण्डितं नमस्कर्तुमागमिष्यामि' । ततः सा माघपत्नी तदादाय स्वस्थान मागच्छन्ती याचकव्रातात्स्वभर्तुः शारदचन्द्र किरणगौरान्गुणाञ्श्रुत्वा तेभ्यो याचकेभ्यो निखिलमपि धारेन्द्रदत्तं वित्तं दत्तवती । दत्त्वा च माघपण्डितं प्राह - 'नाथ, राज्ञा भोजेनाहं बहु- मानिता, धनं चातिभूरि दत्तम् । मया च मार्गे आयान्त्या याचकमुखेभ्यो लोकोत्त- रांस्तांस्तांस्तव गुणानाकर्ण्य तन्निखिलमपि वित्तं याचकेभ्यो दत्तम्' । माघः प्राह - 'देवि, साधु कृतम् । परमन्ये याचका आयान्ति तेभ्यः किं दातव्यम् ।' ततो माघ- पण्डितं वस्त्रावशेषं विदित्वा कोऽप्यर्थी प्राह — ‘आश्वास्य पर्वतकुलं तपनोषमतप्तमुद्दा- मदावविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमा श्रीः ॥’ ततो माघः पत्नीं प्राह - ‘अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे । यात्रा च लाघवकरी स्वदधे च पापं प्राणाः स्वयं व्रजत किं नु विलम्बितेन | दारिद्र्यानलसंतापः शान्तः संतोषचारिणा । याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥' देवि, किंबहुना । चित्ते कष्टं किमपि नास्ति । परं तथाप्युच्यते - 'न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विजपरिवृढान्कारयति कः । अदत्त्वैव ग्रासं ग्रहपतिरसाव स्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः ॥' ततस्तथाविधामवस्थां माघस्य लोक्य सर्वे — १ सुभाषितावलौ भट्टप्रद्युम्ननाम्ना समुद्धृतोऽयं श्लोकः.