सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
द्वितीयः सर्गः ।

उक्तकार्योपाधेर्यावज्जीवमनपायादनयोर्मित्रामित्रभावोऽप्यनपायीति गरीयांस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सहजातः सहजः एकशरी- रावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृ- व्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः । पूर्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापद्येते न कृत्रिमशत्रुमित्रे । कृत्रिमः शत्रुः शत्रुरेव, मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ । न तु सहजौ, नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥ ३६॥

 एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्संधातव्यो न तु यातव्य इत्यत आह-

  उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा ।
  उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः॥३७॥

 उपकर्त्रेति ॥ उपकर्त्रा उपकारकारिणा अरिणापि । सहजेन प्राकृतेन चेति शेषः । संधिः कार्यः । अरित्वापवादेन कृत्रिममित्रताया बलीयस्या यावज्जीवभा- विन्यास्तत्रोत्पन्नत्वादिति भावः । एवमपकारिणा मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । संधिर्न कार्यः । मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या याव- ज्जीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । ननु साक्षादरिणा संदध्यात्, मित्रेण कथं विरुन्ध्यादित्याशक्य क्रियया तयोर्वैपरीत्याददोष इत्याह-हि यस्मादुपका- रापकारावेव तयोर्मित्रामित्रयोर्लक्षणं स्वरूपं लक्ष्यं द्रष्टव्यम् । उपकर्तैव मित्रम् , अपकर्तैव शत्रुरित्यर्थः । तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रियया शत्रुत्वात् यातव्य एवेति भावः ॥ ३७॥

 अथ चैद्यस्य कृत्रिमशत्रुत्वं चतुर्भिराह-

  त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ।
  बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥ ३८ ॥

 त्वयेति ॥ हे हरे, रुक्मिणीं हरता । बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वह- तेत्यर्थः । 'राक्षसो युद्धहरणात्' इति याज्ञवल्क्यः (आचाराध्याये ३।६१)। 'गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ' इति मनुः (३।२६) । त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथाहि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महत् प्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३८ ॥

 अथ तेनापि त्वं विप्रकृत इत्याह-

  त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।
  प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥