पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
शिशुपालवधे

 समूलेति ॥ मानिनोऽभिमानिनः परान् शत्रून् समूलं हत्वा समूलघातम् , अघ्नन्तः । अनुन्मूलयन्त इत्यर्थः । 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' (३।४।३६) इति णमुल् प्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' (३।४।४६) इति हन्तेरनुप्रयोगः । नोद्यन्ति । किंतु हत्वैवोद्यन्तीत्यर्थः । तत्र हत्वैवोदये अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' (५।४७९) इत्यच्प्रत्ययः। प्रध्वंसितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः । अत्रापि 'दृष्टान्तोऽत्र महार्णवः' (२।३१) इतिवदुपमालंकारो न तु दृष्टान्त इति द्रष्टव्यम् ॥ ३३ ॥

 किंचानुच्छिन्नशत्रोः प्रतिष्ठैव दुर्घटेत्याह-

  विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
  अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥

 विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथा हि-उदकं कर्तृ । धूलिम् । स्वपरिभाविनीमिति भावः । पङ्कतामनीत्वा । नाधःकृत्येत्यर्थः । नावतिष्ठते । किंतु नीत्वैव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' (१।३।२२) इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो दृष्टान्तालंकारः ॥ ३४ ॥

 नन्वयं शिशुपाल एकाकी नः किं करिष्यतीत्याशङ्क्याह-

  ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् ।
  पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ ३५ ॥

 ध्रियत इति ॥ एकोऽपि रिपुर्यावद्ध्रियतेऽवतिष्ठते । 'धृङ् अवस्थाने' इति धातोस्तौदादिकात् कर्तरि लट् । 'रिङ्शयग्लिङ्क्षु” (७।४।२८) इति रिङादेशः । तावत् तदवधि सुखं कुतः। यावत्तावच्च साकल्येऽवधौ' इत्यमरः । तथाहि-सिंहिकाया अपत्यं पुमान् सैहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुंतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। असुरद्रुहां देवानां पुरोऽग्रे सोमं क्लिश्नाति धावते । प्राचुर्यात्सोमग्रहणम् । सूर्यं चेति भावः । तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । 'अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्' इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५ ॥ ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रामित्रबलाबलविवेकं तावत्करोति-

  सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।
  स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥ ३६ ॥

 सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । 'ड्वितः क्रिः" (३।३।८८) क्रेर्मम्नित्यम्' (वा०) सखा सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतः- हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यत उपकारापकाररूपकार्यवशात् । निर्वृत्ताविति शेषः।

पाठा०-१ 'अमित्रे मित्रौ च'. विशेषयोः

उक्तिरबिर: स्यात्सामान्य