पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१३
विंशः सर्गः ।

विंशः सर्गः। ५१३ अथ सस्मितवीक्षितादवज्ञाचलितैकोनमितभ्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ ५२ ॥ अथेति ॥ अथ नागपाशबन्धनानन्तरं माधवेन कृष्णेनावज्ञया अकिंचिकरत्वादनादरेण चलिता प्रेरिता एका उन्नमिता उत्क्षिप्ता च धूर्यस्मिन्कर्मणि तत्तथा । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति हस्वत्वम् । सस्मितं चैद्यचापत्न्यदर्शनात्समन्दहासं वीक्षितात् निजकेतुशिरःश्रितः निजध्वजाग्रस्थितात् । श्रयतेः क्विप् । सुपर्णात्पक्षिणां राजः राजानः तेषां पक्षिराजां पक्षिराजानां गरुत्मताम् । 'राजा राद पार्थिवः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' (३।२।१७८) इति क्विप् । अयुतानि अयुतसंख्या उदपप्तन्नुत्पेतुः । 'पुषादि-' (३।१।५५) इति लुङि च्लेरडादेशः । 'पतः पुम्' (७।४।१९) इति पुमागमः । 'उदभूवन्' इति पाठे 'भुवो वुक्' (६।४।८८) इति वुगागमः । माधवस्य सुपर्णवीक्षणावस्थोचितभूविक्षेपादिचेष्टाविवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च' इति । 'जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्' इति च ॥ ५२ ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघुदीरितनादमुत्पतन्तः । क्षणमैक्षिपतोचकैश्चमूभिर्बलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ ५३॥ द्रुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा । अलघूच्चैरुदीरितनादं उच्चरितघोषं यथा तथा खगेन्द्राद्रुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽग्नेरुच्चकैरूवं प्रसृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः । ईक्षतेः कर्मणि लुङ् । अत्रोपमयोः संकरः ॥५३॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ ५४॥ उपमानमिति ॥ गगनमर्णव इव गगनार्णवस्तमन्तरा । तस्य मध्ये इत्यर्थः । 'अन्तरान्तरेणयुक्ते' (२।३।४) इति द्वितीया । अत्रार्णवस्यैकत्वेऽपि तदेकदेशा- पेक्षया भेदवत्त्वेन मध्यमप्रतियोगित्वसंभवान्न द्वितीयानुपपत्तिः । लोलैः पक्षैः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव यैस्तैर्गरुडैर्गरुत्मभिः सुमेरोः कुलजानां हेमाद्विवंश्यानाम् । अन्येषामहिरण्मयतया गरुडसाम्यासंभवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्चराणामित्यर्थः । 'गौरिला कुम्भिनी क्षमा' इति कोषः । उपमानं सादृश्यमलाभि अलम्भि । लभेः कर्मणि लुङि 'विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पान्नुमभावः । अत्रेलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्यामङ्गाङ्गिभावेन संकरः ॥ ५४ ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदि्ग्मुखैर्मयूखैः । सुतरामभवदुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ ५५ ॥

पततामिति ॥ परिस्फुरद्भिः स्वविषयसंक्रमात्समन्तादुल्लसद्भिः अत एव परि-