पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१२
शिशुपालवधे

५१२ शिशुपालवधे. पृथ्विति ॥ भुजंगमाङ्गमध्ये पृथोर्वारिधिवीचिमण्डलस्यान्तमध्ये विलसन्तः फेना इव वितानपाण्डुरद्युतीनि शुभ्रवर्णानीत्युपमा । ध्वजांशुकानि नवनिर्मोकरुचिं नवकञ्जुकशोभां दधति स्म । 'समौ क्ज्चुकनिर्मोकौ' इत्यमरः । निर्मोंकरुचिमित्यत्रान्यधर्मस्यान्यत्रासंबन्धेन निर्मोकस्येवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धनिदर्शना फेनपाण्डुरोपमयाङ्गेन संकीर्यते ॥ ७ ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचजनता भुजंगभोगैर्दलितेन्दीवरमालभारिणीव ॥४८॥ कृतेति ॥ जनता जनसमूहः । 'ग्रामजन-' (४।२।४३) इत्यादिना सामूहिकस्तल्प्रत्ययः । शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्युरसं उरसि उरसि । 'प्रतेरुरसः सप्तमीस्थात्' (५।४।८२) इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणी विकसितनीलोत्पलमालभारिणीवेत्युप्रेक्षा । व्यरुचध्यरोचिष्ट । 'धुन्यो लुङि' (१॥३।९१) इति विकल्पात्परस्मैपदम् ॥ ४८॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥ परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाडिति विकल्पादसमासः । रतैरेव पुष्पैः सह वर्तन्ते इति सरत्रपुष्पैः । 'तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गा मनुजा आयताभिर्वल्लीभिर्लताभिर्वैष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा ॥ ४९ ॥ बहुलाञ्जनपङ्कपट्टनीलातयो देहमितस्ततः श्रयन्तः । दधिरे फणिनस्तुरंगमेषु स्फुटपल्याणनिबद्धवर्धलीलाम् ॥ ५० ॥ बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकज्जलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपार्थादिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्ध्राणि वरत्राः । 'वर्ध्रं त्रपुवरत्रयोः' इति विश्वः । तेषां लीलां शोभां दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा ॥ ५० ॥ प्रसृतं रभसादयोभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥५१॥ प्रसृतमिति ॥ अयसा अयोवत् अभिनीला पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्टयन्ती आयत्या आयतेन दीर्घेण शालते या सा आयतिशालिनी महाहेर्महोरगस्य तनुर्वपुरन्दूः शृङ्खलेव । 'अन्दूस्तु शृङ्खलायां स्त्री' इति वैजयन्ती । रभसाप्रसृतं प्रचरन्तं गजं निश्चलं चकार । उपमा ॥ ५५ ॥ पाठा०-१°धामधारिणी', -