पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५११
विंशः सर्गः ।

विंशः सर्गः] आवृतम् । वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुच्चैःश्रवसः पुच्छस्य काष्र्ण्यश्वैत्यविवादे विवादे दास्यपणे काद्रवेयैः स्वमातुर्विजयाय गृहीतबालाकारैरुचैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसंधेया । उपमा ॥ ४३ ॥ दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ ४४ ॥ दधत इति ॥ मुखे मुखभागे मुखसंधौ च विशालाः विस्तृता आनुपूर्व्या अनुक्रमेण तनिमानं तनुत्वं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसंधिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षिश्रवसः सर्पाः भरतज्ञो नाट्यशास्त्रज्ञः । 'भरतो नाट्यशास्त्रेऽपि' इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म लक्षणया काव्यार्थः कथावस्तु । ब्राह्मणादित्वात्यष्यञ् प्रत्ययः । तेन ग्रथिता गुम्फिता अङ्काः परिच्छेदरूपा अवान्तरसंदर्भविशेषा येषु ते तथोक्ता नाटकप्रपञ्चा नाटकविस्तारा इव बभुरित्युपमा । 'प्रबन्धा' इति क्वचित्पाठः । 'प्रत्यक्षनेतृचरितो बिन्दुबीजपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ '(दशरूपके ३।३०,३१) इति अङ्कलक्षणम् । 'मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहृतिः' (दशरूपके १।२४) इति संधयः ॥ ४४ ॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥ सेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासवतेव । राहुग्रस्तेनेवेत्यर्थः । 'उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च' इत्यमरवचनं ग्रासस्याप्युपलक्षणम् । पन्नगानां सविषैः श्वसनैः फूत्कारैरुद्धतेनोरुधूमेन यो व्यवधिस्तिरोधानं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलाभं ताम्रपिण्डसच्छायम् । 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखव्यष्टवरिष्ठोदुम्बराणि च' इत्यमरः । वपुरूहे ऊढम् । वहेः कर्मणि लिट् । यजादित्वात्संप्रसारणम् ॥ ४५ ॥ शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः । यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥४६॥ शिखीति ॥ पुनःपुनर्लेहनशीला लेलिहानाः सः । लिहेर्यलगन्तात्ताच्छील्ये चानश्प्रत्यये 'गुणो यङ्लुकोः' (७४।८२) इत्यभ्यासस्य गुणः । 'लिहेलिटः कानजि ति वल्लभः । तदानीमभ्यासगुणानुपपत्तिः भूतार्थासंगतिश्च शिखिपिच्छैर्मयूरबर्हैः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णेभ्यः क्षणं साशङ्काः जीवन्मयूरभ्रान्त्या सभयाः अत एव विवर्तमानकायाः व्यावृतदेहाः सन्तः आशु वृष्णिगणेषु यादवसङ्घेषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः ॥ ४६॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।

दधति स भुजंगमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥४७॥