पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१०
शिशुपालवधे

शिशुपालवधे. (५।२७९) इति समासान्तोऽच् प्रत्ययः । 'गत-' इति पाठे गतं संतमसं येषां तैः यदुयोधैर्यादवभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे । हता इत्यर्थः । राध्यतेः कर्मणि लिट् । 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । तथा हि-वारिधरोपरोधान्मेघापवरणान्मुक्तः प्रभाणां द्युतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । 'उद्विभ्यां तपः' (१॥३।२७) इत्यात्मने- पदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोर्भिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥ ४० ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् ॥४१॥ व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्वापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान्, कायांश्च भजन्तीति तद्भाजः । 'भोगः सुखे रुयादिभृतावहेश्च फणकाययोः' इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मनं जजाप जपति स्म । भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचित् 'उत्फण-' इति पाठः । उपमालंकारः ॥ ४१ ॥. पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः । अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः ॥ ४२ ॥ पृथ्विति ॥ ततो भुजगास्वप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव 'दर्वीकरो दीर्घपृष्ठ' इत्यत्र दुर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिर्दष्ट्राभिः । 'आशी उरगदंष्ट्रायाम्' इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उद्दिरन्तः फणीन्द्रा महासर्पाः विलोलेश्चञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्ठप्रान्तदेशौ यस्मिन्कर्मणि तत्तथा । 'प्रान्तावोष्टस्य सक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदात्तो नित्यम्' (५।२।४४) इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादिप्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वंकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः ॥४२॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥४३॥ कृतेति ॥ कृतकेशविडम्बनैः कााद्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' (३।२।१६९) इति उप्रत्ययान्तो निपातितः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । विहाय आकाशं तत्क्षणं काद्रवेयैः कद्रुपुत्रैः फणीन्द्रैः । 'स्त्रीभ्यो ढक्' (४।१।१२०) इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि [* उभशब्दस्थाने उभयशब्दप्रयोगसिद्धिस्तु रघुवंशे 'शय्यां जहत्युभयपक्षविनीतनिद्राः'

(५।७२ ) इति श्लोकस्य सञ्जीविन्यां सम्यक्प्रतिपादिता वरीवर्ति । ]