पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०९
विंशः सर्गः ।

विंशः सर्गः। ५०९ 'परमव्ययमिच्छन्ति केवल' इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वान्धकारहारिणो नित्यप्रकाशचिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्रेति भावः । जागर्तेलुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुकगुणे रपरे 'हल्ड्याप्-' (६|१|६८) इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोधपरिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्वाद्विरोधाभाससंकीर्ण काव्यलिङ्गम् ॥ ३६ ॥ अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् । पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ॥३७ अथेति ॥ अथान्धकारव्याप्त्यनन्तरं तस्य हरेर्दृष्टौ चक्षुषि । तेजसीत्यर्थः । सूर्यरुचीव सूर्यतेजसीव । कौस्तुभो दर्पण इवेत्युपमितसमासः । सूर्यरुचीवेति लिङ्गात् । तं कौस्तुभदर्पणं गतायां प्रविष्टायां सत्यां ततः कौस्तुभात्पटु सर्वान्धकारद्रावणे समर्थं धाम तेज उदभूदुदगात् । तद्धामोद्भवनं न चाद्भुतम् । कुतः । असौ विभुर्भगवान् कर्केन्दू विलोचने यस्य स किल खलु । अतस्तञ्चक्षुषोः सूर्यात्मकत्वात्तदभिहतात्कौस्तुभाद्दर्पणादेरिव धाम प्रादुर्भावो व्यज्यत इत्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३७ ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुभ्मुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥३८॥ महत इति ॥ स पूर्वोक्तो मणेः कौस्तुभस्यांशुचयः विकसन्ति उन्मीलन्ति विलोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसन्नमालोकं दर्शनं, तत्त्वज्ञानं च ददत्प्रतियच्छन् । महतो महात्मनः प्रसादोऽनुग्रहः प्रणतेषु भक्तेष्विव ककुभ्मुखेषु ककुभामग्रेषु व्यकसदमूर्च्छत् । पूर्णोपमा ॥ ३८॥ प्रकृति प्रतिपादुकैश्च पादैश्चलपे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्छामुपजीवत्सहसैव जीवलोकः ॥३९॥ प्रकृतिमिति ॥ प्रकृतिं स्वभावं प्रतिपादुकैः प्रतिपद्यमानैः । 'लषपतपद-' (३।२।१५४) इत्यादिना उकन्प्रत्ययः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । भानुमतोंऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसर्तुं चक्लुपे शेके । 'क्लपू सामर्थे' भावे लिट् 'कृपो रो लः' (८।२।१८) इति ऋकारस्थस्यापि रेफस्य लकारः । जीवलोकः प्राणिवर्गश्च तमसोऽन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । 'कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । सहसैव मूर्च्छामपास्य उदजीवदुदश्वसीत् । अत्रीजीवनस्यार्ककरप्रसारहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३९॥ घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ ४० ॥

घनेति ॥घनं सान्द्रं संतमसमन्धकारो येषु । 'अवसमन्धेभ्यस्तमसः'