पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
शिशुपालवधे

५०८ शिशुपालवधे सलिलेति ॥ सलिलेनार्दो यो वराहदेहस्तद्वन्नीलः भासं प्रकाशं करोतीति भास्करः । 'दिवाविभा-' (३।२।२१) इत्यादिना टप्रत्ययः । तमर्थशून्या भास्करत्वरूपप्रवृत्तिनिमित्तशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरालोकमभिभवन्नित्यर्थः । अन्धं करोतीत्यन्धकारः स्वापनास्त्रप्रभवतमः । कर्मण्यण् । प्रचलानि निद्रापूर्णितानि आयतलोचनान्येवारविन्दानि यस्मिन्कर्मणि तत्तथा सूर्यतिरोधानेऽरविन्दमुकुलीभावस्यावश्यंभावादिति भावः । तद्वलं हरिसैन्यमन्धमपश्यं विदधे । निद्रां प्राविशदित्यर्थः । अत्रान्धमन्धेति सकृद्ध्यञ्जनयुग्मपौनरुक्त्याद्वृत्त्यनुप्रासभेदः । तस्य वराहदेहनीललोचनारविन्देत्युपमारूपकयोः संसृष्टिः ॥३३॥ गुरवोऽपि निषद्य यन्निददुर्धनुषि क्ष्मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवनिषण्णाः ३४ गुरव इति ॥ गुरवो धीराः मापतयोऽपि धनुषि निषद्य शयित्वा निद्रुः सुषुपुरिति यत् एतत् धनुषि निद्राणं वाच्यं निन्द्यं न भवति । कुतः । हि यस्मात्ते क्षमापतयो जाग्रतोऽपि प्रबुद्धा अपि । जागतः शतरि अस्य 'जक्षित्यादयः षट्' (६।१।६) इत्यभ्यस्तसंज्ञा 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुम्प्रतिषेधः । क्षयितापदि । सर्वापन्निवारक इत्यर्थः । तत्रैव धनुषि नित्यं निषण्णाः संश्रिता अभवन्ननु । जागरेऽपि धनुरेकशरणानां स्वापे तदाश्रये न दोष इत्यर्थः । अत्र सदा धनुराश्रयवाक्यार्थस्यावाच्यताहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३४ ॥ श्लथतां व्रजतस्तथा परेषामगलद्धारणशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ॥३५॥ श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये यथा तेषां धनुराश्रयणं तथान्येषां धनुर्गलनं चाभूदित्यर्थः । श्लथतां प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजां धारणशक्तिं वाहनसामर्थ्य उज्झतः त्यजतः परेषां राज्ञाम् । 'अग्रं चासौ पाणिश्चेति' समानाधिकरणसमासः । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदादिति वामनवचनात् । तस्मादग्रपाणेः सुगृहीतं सुष्ठु धृतमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजां गुणनिकाद्यवधानरहितानां मनसश्चित्तात् शास्त्रं विद्येव अस्त्रमगलदभ्रश्यत् । निद्रापारवश्यादित्यर्थः । इवेन सह समासात्समासगता श्रौती पूर्णोपमा ॥ ३५॥ उचितस्वपनोऽपि नीरराशौ स्ववलाम्भोनिधिमध्यगस्तदानीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ॥ उचितेति ॥ नीरराशौ समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भोनिधिमध्यगः स्वसेनासागरमध्यगतः । 'बलपाथोनिधि' इत्यपि' पाठः । भुवनत्रयकार्ये त्रैलोक्यरक्षाविधौ जागरूकः प्रबुद्धः । 'जागरूकः'

(३।२।१६५) इत्यूकप्रत्ययः । परः पुमान्परमपुरुषः परं केवलं हरिरेवेत्यर्थः ।