पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०७
विंशः सर्गः ।

विंशः सर्गः। ५०७ भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौधः ॥२९॥ भवतीति ॥ विपक्षाच्छत्रुकुलादागतः सपक्षः कङ्कादिपत्रवान्, सुहृच्च निर्वतेर्विधाता सुखकरो न भवति । हि यतः स्फुटम् । तेन कारणेन कृष्णमुक्तस्तोमरौघः शिशुपालबलानि सुतरां तताप ददाह । अतः शत्रुकुलादागतः स्वजनोऽपि न विश्वसनीय इत्यर्थः । सपक्षोऽप्यनिर्वर्तक इति विरोधेऽपिशब्दः । विपक्षादागत इत्यविरोधाद्विरोधाभासः ॥ २९ ॥ गुरुवेगविराविभिः पतरिषवः काञ्चनपिङ्गलाङ्गभासः । विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजंगमं विशन्ति ॥३०॥ गुर्विति ॥ गुरुवेगविराविभिः गुरुणा वेगेन विरुवन्ति ध्वनन्तीति तथोक्तैः । रौतेणिनिः । शीघ्रवेगविराववद्भिः पतत्रैः पक्षरुपलक्षिताः काञ्चनेन पुङ्खलिप्तेन पिङ्गलाङ्गभासः, अन्यत्र काञ्चनवदिति विग्रहः । इषवः शौरिशराः विनतासुतवद्वैनतेयैस्तुल्यं व्यथिता भीषिता अत एव भ्रान्ता मूढा भुजंगमा यसिंस्तत्तथा भुवस्तलं पातालं विशन्ति स्म । तद्धितगता श्रौती पूर्णोपमा पातालपवेशासंबन्धातिशयोक्त्या संकीर्यते ॥ ३० ॥ शतशः परुषाः पुरो विशई शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः॥३१॥ शतश इति ॥ शिशुपालेन पुरोऽग्रे विशकं निःशकं शतशः प्रयुक्ताः क्षिप्ताः, उच्चारिताश्च परुषा निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः । शतशः अपराधाः पञ्चदशसर्गोक्ताः अभिशापा इव दानवारेहरेर्व्यथां दुःखं न वितेनुः । खलापकारा महतामकिंचित्करा इति भावः । समासगतोपमा ॥३१॥ विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥ विहितेति ॥ नृपतिश्चैद्यो विहिता अद्भुता लोकसृष्टिरेव माया यस्मिंस्तस्मिन् भुवनक्षयकाले प्रलयकाले । न विदानीमिति भावः । उचिता योगनिद्रा यस्य मायया जयमिच्छन् किल । न तु जेष्यतीति भावः । स्वापयतीति स्वापनमस्त्रमाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टिसं. हारमहानाटकसूत्रधारे सर्वाद्भुतनिधाने सकलकलुपकषणपटुतराभिधाने पुराणैन्द्रजालिके भगवति हरावपि मायया जिगीश्हेत्यहो महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम् ॥ ३२ ॥ सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।

प्रचलायतलोचनारविन्दं विदधे तद्धलमन्धमन्धकारः ॥ ३३ ॥