पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
शिशुपालवधे

शिशुपालवधे. प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तः । परिपूर्णतरं भुको गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २५ ॥ प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । 'कर्मण्यण् (३।२।१)। माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलाव्यमुखे शल्याने वदने चाभिहताः खण्डिताः सन्तः अत एव कातरैः त्रस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परतः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोत्तपतनसमुच्चयार्थः । केचित्खण्डितास्तत्रैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा ॥ २५ ॥ इतरेतरसंनिकर्षजन्मा फलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥२६॥ इतरेतरेति ॥ इतरेतरेसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तरपदत्वायधिकरणोऽपि बहुंब्रीहिरिष्यते । फलसंघटनेन शल्यसंघटनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु 'समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रुबलाहकानामग्निदाहाखादा- संबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ २६ ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥२७॥ शरदीवेति ॥ विभुना देवेन का शरश्रिया शरसंपदा करणेन शरदीव शत्रुशिलीमुखा अभ्राणीव तेषां जाले विभिन्ने सति विकसन्ति मुखानि वारिजानीव यासां ताः यादवध्वजिन्यः यदुसेनाः आशा दिश इव प्रकामं बभुः । अनेकैवेयमुपमा ॥ २७ ॥ स दिवं समचिच्छदच्छरौधैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिपुरेकैव जनैः सकृद्विसृष्टा ॥२८॥ स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदत् छादयति स्म । छादेः 'गौ चङ्युपधाया हस्वः' (७।४।१) 'सन्यतः' (७।४।७९) इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तत्वादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्चापयष्ट्यामिषुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इषूणां पुङ्खानु- पुङ्खगमनाद्राधीयानेक एवेपुरेकदैव गच्छतीत्युत्प्रेक्षा । ईदृशलघुहस्तस्याकाशसंछादनं युक्तमिति भावः ॥ २८ ॥ पाठा०-१, 'परितः'.

२ संनिघर्ष".