पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
शिशुपालवधे

शिशुपालवधे पिङ्गीकृतानि सौवर्णत्वात्पिशङ्गीकृतानि दिङ्मुखानि यैस्तैः पततां पक्षिणां मयूखैः तपनः सूर्यस्तत्किरणैस्तपनकिरणैः । संक्रान्तैरिति भावः । आत्मा स्वरूपं दृश्यतेऽत्र इत्यात्मदर्शो दर्पण इव सुतरां दुरीक्ष्यबिम्बोऽभवत् । स्वत एव दुर्दर्श इदानीमतिदुर्दशोऽभूदित्यर्थः। अत्र तपनस्य दुरीक्ष्यत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ५५

दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणीयस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥५६॥

 दधुरिति ॥ उल्लसमानाभिर्दीप्यमानाभिर्वैनतेयानां द्युतिभिर्भिन्नाः संवलिताः फणभारिणः फणाभृतः अम्बुधिमन्थने समुद्रमन्थने अद्रेर्मन्दराद्रेरेव मन्थस्य मन्थनदण्डस्य भ्रमणेनायस्तस्य निष्पीडितस्य फणीन्द्रस्य वासुकेः पित्तापित्तधातोर्जातास्तजास्तेषाम् । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । मथेर्भौवादिकस्येदित्त्वात्सर्वत्र नुमागमः । तेषां मणीनां मरकतानां रुचं दधुः । वैनतेयपीतिमसंभेदात्कृष्णोरगा मरकतच्छायामार्छन्नित्यर्थः । अत्रान्यस्यान्यधर्मायोगेन रुचमिवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शनालंकारः ॥५६॥

अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौधः ।
जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५७ ॥

 अभीति ॥ अभितः उभयतः क्षुभितो योऽम्बुराशिः उद्वेलाम्बुराशिस्तद्धीरध्वनिर्गम्भीरध्वनिरित्युपमा । आकृष्टाः पाटिताः समूलाः पादपौधास्तरुसमूहा येन सः । अत्र पादपोन्मूलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । युगान्तशङ्कां जनयन्कल्पक्षयोत्प्रेक्षां जनयन्नित्यपि सैवातिशयोक्तिः । नागविपक्षपक्षजन्मा गरुडपक्षोद्भवोऽनिलोऽभवत् । उदभवदित्यर्थः ॥ ५७ ॥

प्रचलत्पतगेन्द्र पत्रवातप्रसभोन्मलितशैलदत्चमार्गैः।
भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ ॥

 प्रचलदिति ॥ प्रचलतां पतगेन्द्राणां ये पत्रवातास्तैः प्रसभं उन्मूलितैराकृष्टैरुत्टिपाटितैः शैलैर्दत्तो मार्गो रन्ध्र येभ्यस्तैः विवशैः परवशैः । निश्चेष्टैरित्यर्थः गर्हितं दशन्ति भृशमिति दन्दशूकैः सः । 'दन्दशूको बिलेशयः' इत्यमरः । 'लुपसदचर-' (३।१।२४) इत्यादिना दंशेर्भावगर्हायां यङ् । 'जपजभदहदशभञ्जपशां च' (७४।८६) इत्यभ्यासस्य नुगागमः । 'यजजपदशां यङः' (३।। १६६) इति दशेर्यङन्तादुकन्प्रत्ययः । भयेन विह्वलं विक्षिप्तं विचित्रं यथा तथा स्वमेव धाम पातालमेव विविशे तार्क्ष्यपत्रपवनोन्मूलितशैलरन्ध्रवर्त्मनैव पातालं प्रविष्टमित्यर्थः । विशेः कर्मणि लिद । दन्दशूकानां रन्ध्रप्रवेशासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५८॥ खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते। अयुगार्चिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥५९॥

पाठा०-१०भ्रमणापास्त'.