इत्याशाशैदिगन्तव्यापकैः । अश्नोतेः कर्मण्यण् । शरैर्बाणैः अरिशिरः शत्रुशिरांसि। जातावेकवचनम् । राशिशः सङ्घशः आशु शीघ्रं शुशूरे जघान । 'शूर हिंसास्तम्भनयोः' इति धातोर्लिट् । द्व्यक्षरानुप्रासः ॥ १०८॥
व्यक्तासीदरितारीणां यत्नदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥ १०९ ॥
व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्व्यक्ता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलंकारः ॥१०९॥
॥ अतालव्यः॥
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥ ११ ॥
नामेति ॥ भर्तुः स्वामिनो नामाक्षराणां फलेषु लिखितानां मलना मालिन्यं तिरोधानं मा भूदिति बुद्ध्येत्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानां अरिशरीराणामसून्प्राणानगृह्णत । गृहेर्लङ् । न अस्रं रक्तम् रक्ताविलेपस्य आशुभावनिमित्तस्य स्वामिनामाक्षरमालिन्यपरिहारार्थत्वमुत्प्रेक्ष्यते-स्फुटमिति । अत्र तालव्यवर्णाभावादतालव्य इति चित्रभेदः । इचुयशानां ताल्विति इवर्णस्य तालुत्वेऽपि व्यञ्जनापेक्ष एवायं नियम इति न दोषः (?) ॥ ११०॥
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥
आच्छिद्येति ॥ आशुगा बाणाः योधसार्थस्य वीरवर्गस्य प्राणसर्वस्वं आच्छिद्य ऐकागारिकाश्चौराः। 'चौरैकागारिकस्तेन–' इत्यमरः । 'ऐकागारिकट् चौरे' (५।१।११३) इत्यर्थे निपात्यत इत्येके । इकट् प्रत्यये वृद्धिश्च निपात्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे वतिः । दूराद्भूमावदर्शनमदृश्यतां जग्मुः ॥११॥
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२ ॥
भीमेति ॥ जिनो हरिः अवतारान्तरनाम्ना व्यपदेशः । भीमा अस्वराजयो यस्य तस्य भीमास्त्रराजिनः । 'इकोऽचि विभक्तौ' (७।१।७३) इति नुमागमः । ध्वजै राजते यस्तस्य ध्वजराजिनः । ताच्छील्ये णिनिः । कृता घोरा आजियुद्धं येन तस्य कृतघोराजिनः । पूर्ववन्नुमागमः । तस्य बलस्य सैन्यस्य संबन्धिनी वस्तद्रणभूमीः सरुधिराः सास्राश्चके । चतुष्पादयमकम् ॥ ११२ ॥