मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नमः ॥११३ ॥
मांसेति ॥ मांसव्यधो मांसखण्डनम् । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । तत्रोचितानि परिचितानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वं, अन्यत्र तुच्छत्वममूर्तत्वं वा दधत् अत एव अक्रियमस्पन्दं शत्रुबलं व्यापि व्याप्तम् । आप्नोतेः कर्मणि लुङ् । तस्य हरेरिषुभिः नभो व्यापि । अत्रेषुपक्षिणां न भोबलयोर्व्याप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः ॥ ११३॥
॥ एकाक्षरः ॥
दाददो दुद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ॥११४ ।।
दादद इति ॥ दद्यते इति दादः दानम् । 'दद दाने' इति कर्मणि घञ् । दादं ददातीति दाददो दानप्रदः । 'आतोऽनुपसर्गे कः' (३।२।३)।दुद्ददुद्दादी दुत् उपतापः 'टुदु उपतापे' क्विप् । दुतमुपतापं ददति साधूनामिति दुद्दाः खलाः। पूर्ववत्कः । तेषां दुतमुपतापं ददत इति दुद्ददुद्दादी । 'दद दाने' इति धातोर्णिनिः । दादादः । दाः शुद्धिः 'दैप् शोधने' क्विप् । तां ददत इति दादादः । 'दद दाने' कर्मण्यण् । दूददीददोः । दूः परितापः । 'दूङ् परितापे' विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः । 'दीङ् क्षये' क्विप् । तां दत्त इति दीदौ नाशदौ । उभयत्रातोऽनुपसर्गे कः । दूदानां दीदौ दुष्टमर्दको दोषौ भुजौ यस्य सः दूददीददोः । दुष्टभञ्जकभुज इत्यर्थः । ददाददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र 'दद दाने' पचायच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः । अदः पचाद्यच् । तान् द्यति खण्डयतीति अददः । 'दोऽवखण्डने' 'आतोऽनुपसर्गे कः' (३।२।३) एवंभूतो हरिः । दुतं ददातीति दुद्दः दुःखदः तस्मिन् दुद्दे शत्रौ । दुतं ददत इति दुद्दादं शस्त्रन् । 'दद दाने' कर्मण्यण् । दददे ददौ । प्रयुक्तवानित्यर्थः । 'दद दाने' कर्तरि लिद । एकाक्षरानुप्रासोऽलंकारः ॥ ११४॥
प्लुतेभकुम्भोरसिजैहृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरौर्द्विषां तद्योषितां च सः ॥११५ ॥
प्लुतेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरसिजाश्च यैस्तैः हृदयक्षतिभिर्वक्षःप्रहारैः मनोभङ्गैश्च विषादापादकैः जन्म येषां तैः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । द्विषां तद्योषितां चास्रै शोणितैः, अश्रुभिश्च । 'अस्रमश्रुणि शोणिते' इति विश्वः । नदीः प्रावर्तयत्प्रावाहयत् । अरिवधेन तन्नारीररोदयदित्यर्थः । अत्र द्वयानामप्यस्राणां प्रकृतत्वात्प्रकृतश्लेषः । तैरर्द्विषां तद्योषितां यथासंख्यबन्धाद्यथासंख्यालंकारः । तदुपजीवनेन