सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९१
एकोनविंशः सर्गः ।

   रोपैरपारैरुपरि पुपूरेऽपि परोऽपरैः ॥ ९४ ॥

 प्राप इति ॥ पुरा पूर्वं रूपी मत्स्यकूर्माद्यनेकरूपवान् अरेपाः निष्पापः परिपूरयति कामैर्भक्तानिति परिपूरी भक्तवरदः । पूरयतेर्णिनिः । परः परमपुरुषो हरिः परैः शत्रुभिः प्रापे प्राप्तः । अवरुद्ध इत्यर्थः । अपरैरन्यैः शत्रुभिः कर्तृभिः अपारैरनन्तै रोपैरिषुभिः । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । पुरोऽग्रे उपरि च पुपूरे पूरितः। पृणातेः कर्मणि लिट् । द्व्यक्षरानुप्रासोऽलंकारः ॥ ९४ ॥

   दिङ्मुखव्यापिनस्तीक्ष्णान्ह दिनो मर्मभेदिनः ।
   चिक्षेपैकक्षणेनैव सायकानहितांश्च सः॥ ९५ ॥

 दिगिति ॥ स हरिर्दिङ्मुखव्यापिनो दिगन्तव्यापकान् । अतितीक्ष्णानिशितान्क्रूरांश्च । ह्रादन्ते इति ह्रादिनः पक्षनादवतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान् सायकानिषून् , अहितानरींश्च एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेव तुल्यधर्मयोगादौपम्योपगमात्तुल्ययोगिताभेदः ॥ ९५॥

॥ गूढचतुर्थः॥

   शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
   नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ ९६ ॥

 शरेति ॥ शरवर्षी बाणवर्षी, नीरवर्षी च । 'शरं नीरे शरो बाणे' इति विश्वः । महान्नादः सिंहनादो, गर्जितं च यस्य स महानादः । स्फुरन्ती कार्मुककेतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्द्रचापचिह्न इत्यर्थः । नीलच्छविः श्यामकान्तिः । अस्य केशवस्य छलं कपटं यस्य सः नीरदः केशवच्छलनीरदो हरिमेघोऽसौ रेजे । रणरङ्गे सर्वोत्कर्षेण दिदीपे इत्यर्थः । अत्र छलशब्देन हरित्वापह्नवेन मेघत्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्न्वालंकारः । त्रिपाद्यन्तर्गतचतुर्थपादाक्षरत्वाद्गूढचतुर्थाख्यश्चित्रविशेषः, शब्दालंकारश्चेति संकरः ॥ ९६ ॥

   न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
   मण्डलीकृतमेकान्ताद्धलमैक्षि द्विषामपि ॥ ९७ ॥

 नेति ॥ लघु शीघ्रं संधत्ते यस्तस्य लघुसंधायिनस्तस्य हरेः धनुरेव केवलं एकान्तात् मण्डलीकृतं शीघ्राकर्षणान्नियमेन वलयीकृतं जनैर्नैक्षि । कर्मणि लुङ । किंतु द्विषां बलमपि मण्डलीकृतं ब्रासादेकत्र पुजीकृतमैक्षि । अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९७ ॥

पाठा०-१ 'अरूपः=निर्णयः'. [ * असाद्धातोलिट्येशि 'ऋच्छत्यृताम्' (७।४।११) इति गुणस्य दुर्वारत्वात् 'पुपूरे' इति रूपासिद्धिः । तस्मात् 'पूरी आप्यायने' इति

धातुर्बोध्यः।