युग्मेनाह-
॥ द्व्यक्षरः ॥
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥९८॥
लोकेति ॥ लोकानालोकते इति लोकालोकी त्रैलोक्यदर्शी । कलो मधुरभाषी कल्केन पापेन, दम्भेन वा कलिलो न भवतीत्यकल्ककलिलः । 'कल्कः पापाशये पापे दम्भे' इति विश्वः । अलिकुलालकः । अलिकुलनीलमूर्धज इत्यर्थः । कालो नीलवर्णः कालात्मको वा । नास्ति कला यस्य सोऽकलः । निरंश इत्यर्थः । अकलिरकलहः । स्वयमकलहशील इत्यर्थः । काले प्रलयकाले कोलकेल्या वराहलीलया किलति क्रीडति कोलकेलिकिलः । किलशब्दस्तु खल्वर्थे विव्याधेत्युत्तरेण संबन्धः । द्व्यक्षरानुप्रासः ॥ ९८ ॥
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ ९९ ॥
(युग्मम् ।) अक्षीति ॥ स पूर्वोक्तगुणविशिष्टो हरिः तनुत्राणि येषां सन्तीति तनुत्रिणो वर्मिणः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथा हि-तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः । शरासने शरक्षेपे तु न, किंतु सूक्ष्मलक्ष्यत्वमेव । अतोऽक्षितारावेधित्वमस्य युक्तमित्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ९९ ॥
॥ द्व्यक्षरः ॥
वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवोर्वरः ॥१००॥
वरर इति ॥ वरान्रातीति वररो वरप्रदः । ‘रा दाने' 'आतोऽनुपसर्गे कः (३।२।३) । अविवरो निर्विवरो नीरन्ध्रः । वैरिणः शत्रून् विवारयति वैरिविवारी। वारीणि रातीति वारिरः । पूर्ववत्कः । तस्येवारवो यस्य स वारिरारवः । वरः श्रेष्टो वीरः शूरः स कृष्णः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इत्यमरः । तस्यां भव और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दं विववार विवारयामास । जघानेत्यर्थः । द्व्यक्षरानुप्रासः ॥ १०० ॥
मुक्तानेकशरं प्राणानहरद्भूयसां द्विषाम् ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१ ॥
मुक्तेति ॥ मुक्तानेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसां