पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८४
शिशुपालवधे

ऽनुपसर्गे कः' (३|२|३)। भूभारैः महाकायत्वाद्भुवो भारायमाणैः । भैर्य इव रेभन्ते ध्वनन्तीति भेरीरेभिभिः । 'रेभृ शब्दे' ताच्छील्ये णिनिः । अभ्राभैर्मेच- कैरिति चोपमाद्वयम् । अभीरुभिर्निर्भीकैरिभैर्गजैः । इभाः प्रतिगजास्तादृशा एव अभिरेभिरे अभियुक्ताः । उपमानुप्रासयोः संकरः । द्व्यक्षरानुप्रासः ॥ ६६ ॥

   निशितासिलतालूनैस्तथा हस्तर्न हस्तिनः ।
   युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्तताम् ॥ ६७ ॥

 निशितेति ॥ युध्यमानाः संप्रहरन्तः हस्ता येषां सन्तीति हस्तिनः । 'हस्ता- जाती' (५।२।१३३) इति निप्रत्ययः । यथा भग्नैर्दन्तैः विषाणैः विहस्ततां हस्त- हीनत्वमितिकर्तव्यतामूढत्वं चापुः । 'विहस्तव्याकुलौ समा' इत्यमरः । तथा निशिताभिरसिलताभिर्लूनैश्छिन्नैर्हस्तः शुण्डादण्डौर्विहस्ततां नापुः । हस्तेभ्योऽपि दन्तानां प्रहारसाधनत्वादिति भावः । अत्र हस्तस्याच्छेदे वैहस्त्यं न हस्तच्छेदे इति विरोधः प्रतिपत्तिमूढतया समाहित इति विरोधाभासोऽलंकारः ॥ ६७ ॥

॥ असंयोगः॥

   निपीडनादिव मिथो दानतोयमनारतम् ।
   वपुषामदयापातादिभानामभितोऽगलत् ॥ ६८ ॥

 निपीडनादिति ॥ इभानां वपुषां अदयापातान्निर्दयाभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादिनिपीडनादिवेत्युत्प्रेक्षा । अनारतमश्रान्तं दानतोयमभितो- ऽगलत् । वस्त्रवन्निर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अत्र संयोगाभावादसंयोगश्चित्रभेदः । 'हलोऽनन्तराः संयोगः' (१।१७) ॥ ६८ ॥

   रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
   गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥

 रणेति ॥ गजो मदवारिणा प्लावितमुक्षितं रणाङ्गणं सर इव पृथुना करेणा- कृष्टानि शतपत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिन्कर्मणि तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा ॥ ६९ ॥

   शरक्षते गजे भृङ्गः सविषादिविषादिनि ।
   रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥

 शरक्षते इति ॥ गजे शरेण क्षते प्रहते अत एव विषादिना विषादवता विषादिना यन्त्रा सह वर्तते इति तस्मिन् सविषादिविषादिनि तत्र रणे अतिसीदति अतिसन्ने सति । मृते सतीत्यर्थः । सदेर्लटः शत्रादेशः । भृङ्गैः कर्तृभिः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । रुतव्याजेन रुतच्छलेन रुदितं रोदनमासीत् । स्वाश्रयनाशदुःखाद्रोदनं कृतमिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । सा च रुतव्याजेनेत्यपह्रवपूर्वकत्वात्सापह्नवेति सर्वस्वकारः ॥ ७० ॥