पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८३
एकोनविंशः सर्गः ।

 वाजिन इति ॥ द्रुतं वजन्तीति द्रुतवाजिनः शीघ्रगामिनः । 'वज गतौ' इति धातोर्णिनिः । वाजिनोऽश्वाः, वाजिनः पक्षवन्तः शराश्च । 'पक्षो वाजस्त्री- घूत्तरे' इत्यमरः । समारब्धा नवा अपूर्वां आजियुद्धं येन तस्य समारब्धनवा- जिनः शत्रुसैन्यस्य मध्यमविशन् । अत्र वाजिनां शराणां च प्रवेशाख्यतुल्ययो- गिताभेदो यमकेन संसृज्यते ॥ ६२ ॥

   पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रयशालिभिः ।
   कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३॥

 पुरस्कृत्येति ॥ फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । संभाव्येत्यर्थः । प्राप्तैरागतैः सत्पक्षाश्रयेण साधुकङ्कादिपत्रग्रन्थनेन, अन्यत्र साधुसहायावलम्बनेन शालन्ते इति तथोक्तै: मार्गणैः सायकैरर्थिभिश्च । 'मार्गणौ सायकार्थिनौ' इत्यमरः । कृतपुङ्खतया सुबद्धकर्तरीकतया । 'मुखस्थकर्तरी पुङ्खः' इति यादवः । अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यं, अन्यत्र लक्षसंख्यमपि धनं लेभे, शतादिकं किमु वक्तव्यमिति भावः । 'लक्षं शरव्ये संख्यायाम्' इति विश्वः । अत्राभिधायाः प्रकृतार्थनियन्त्रणादर्थान्तरप्रतीतेर्ध्वनिरेव ॥ ६३ ॥

   रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
   कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ॥ ६४ ॥

 रक्तेति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्य- धाद्वाणप्रहारात् । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । जपासूनसम- रागां रक्तस्रुतिं रक्तस्रावं व्यधाद्विहितवान् । दधातेर्लुङि 'गातिस्था-' (२|४|७७) इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः ॥ ६४ ॥

   रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
   गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ ६५ ॥

 रयेणेति ॥ रणमात्मन इच्छन्तौ रणकाम्यन्तौ । 'काम्यच्च' (३।१|९) इति रणशब्दारकाम्यच्प्रत्यये सनाद्यन्तधातुत्वाल्लटि शत्रादेशः । रयेण दूरादुपगतौ । इभावन्तरा इभयोर्मध्ये । 'अन्तरान्तरेणयुक्ते' (२|३|४) इति द्वितीया । गता- सुर्मृतो दन्ती दैवान्मध्यवर्ती हस्तिकुपण इत्यर्थः । वरण्डकोऽन्तरावेदिरिवाभवत् । 'वरण्डकोऽन्तरावेदौ संदोहमुखरागयोः' इति विश्वः । अभ्यासकाले काञ्चनवेदि- मन्तर्धाय दन्तिनौ योधयत इति प्रसिद्धम् । उपमा ॥ १५ ॥

॥ द्व्यक्षरः॥

   भूरिभिर्मारिभिर्भीरैर्भूभारैरभिरेभिरे।
   भेरीरेमिभिरभ्राभैरभीरुभिरिभैरिभाः ॥६६॥

 भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः । मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैर्भीरैः भयदैः । । 'रा दाने, आतो