पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
शिशुपालवधे

 कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
 बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥

 कीर्णेति ॥ अप्राणद्भिरजीवद्भिः । भिन्नत्वान्निष्प्राणैरित्यर्थः । 'अन प्राणने' इति धातोर्लटः शत्रादेशः । प्राणभाजां प्राणिनां प्रतीकैरवयवैः । 'अङ्ग प्रती- कोऽवयवः' इत्यमरः । समन्तात्कीर्णा सा आजिभूमिः ईषदसमाप्तारम्भैरिति बह्वारम्भैः। किंचिदूनसृष्टैरित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' (५।३।६८) इति बहुप्रत्ययः । तथार्धसंयोजितैरर्धसृष्टैश्च रूपैराकारैः । 'रूपं स्वरूपे सौन्दर्य आकारश्लेषयोरपि' इति विश्वः । कीर्णा स्रष्टुः धातुः सृष्टिकर्मान्तशाला वा । सृष्टि- कर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा ॥ ७९ ॥

 आयन्तीनामविरतरयं राजकानीकिनीना-
  मित्थं सैन्यैः सममलघुभिः श्रीपतेरूर्मिमद्भिः।
 आसीदोघैर्मुहुरिव महद्वारिधेरापगानां
  दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के संकुलयुद्ध-
वर्णनो नामाष्टादशः सर्गः ॥ १८ ॥

 आयन्तीनामिति ॥ इत्थमुक्तरीत्या अविरतरयमविच्छिन्नवेगं यथा तथा आयन्तीनामभिधावन्तीनां औद्धत्यभाजां प्रागल्भ्यभाजां राज्ञां समूहा राज- कानि । 'गोत्रोक्ष-' (४।१।३९) इत्यादिना वुञ् प्रत्ययः । तेषामनीकिन्यः सेनास्तासां राजकानीकिनीनां अलघुभिर्महद्भिः ऊर्मिमद्भिस्तरङ्गवद्भिः श्रीपतेः कृष्णस्य सैन्यैः समं सेनाभिः सह अपां समूह आपम् । 'भिक्षादिभ्योऽण्' (४।२।३८)। आपेन गच्छन्तीति आपगानामुक्तविशेषणविशिष्टानां वारिधेरोधैः प्रवाहैरिव कृतो गुरुतरध्वनिमहाध्वनिः यस्मिंस्तन्महद्दोलायुद्धं अनियतजयपराजय- युद्धं मुहुरासीत् । उपमा । मन्दाक्रान्ता वृत्तमेतत् ॥ ८० ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायामष्टादशः सर्गः ॥ १८ ॥